पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० सीपनाचन्दमहाकाव्यम् [श्रीजिनेन्द्र- बालभायसुलभाजेवलीलो-न्मीलितप्रमदकीलितचिचाः । लोचनामृतमरीचिममुश्चन, पञ्च संच चिरमप्सरसो न ॥ ११ ॥ ताः स्वभावसुभगा तशोभ, शैशवार्जवतयाऽत्यभिगम्यम् । वीक्ष्य वीक्ष्य वृषभानभुमापु-नैव वृतिमनिमेपदशोऽपि ॥१२॥ दुर्लभानि दिवि देवमहेला, चाललालनसुखानि निपेच्य | स्वं शशंसुरमरेशनिदेश, स्वविहारपरिहारपरेहाः ॥ १३ ॥ उद्वहन् हृदयसीमनि पुत्र-प्रेमतः प्रभुमबाप पिता यत् । सन् सुसं किमपि तल्लयलीनो, योगवानपि ययौ न ययौ वा ॥ १४ ॥ बालकेपि किल तत्र निलीनं, शर्म सन्ततमभूत् तदनन्तम् । ' अन्यथा किमु पिताऽस्य भुजोरः-पीडनादनुबभूव सदा तत् । ॥ १५ ॥ तन्यमन्यजनवान जनन्या, यद्यपि त्रिजगतीपतिरापात् । सा तथापि पुरतः स्थित्तयन्तं, तेन विश्वपतिमस्नपयत् तम् ॥ १६ ॥ जात ! यद्यपि नवामृतमात्मा-गुष्ठसम्भवि पिबन्ननुवेलम् । पुष्टिमेपि मम तेन न तुष्टि-चत स्तनन्धयपदं न दधासि ॥ १७ ।। वत्स! वत्सलतयाऽद्भुतया त्वं, लाल्पसे सुरवधूभिरमूभिः । भाग्यवानसि सुधारसभोजी, मातताऽस्तु मम केन गुणेन ? ॥ १८ ॥ पुत्ररत ! निसिलेन्द्रनवाऽहं, त्वत्प्रभाव विभवेन बभूव । प्राप्त विश्वजनपूजन ! जज्ञे, मद्भवस्तव न कोऽप्युपकारः ।। १९ ।। आत्मजानुपतिप्रकृतागः-सागरे मम सुत! प्रपतन्त्याः। नौरियं युगलजाजनि कन्या, स्तन्यपानपरिपालनयोगः ॥२०॥ एवमकमधिरोप्य कराभ्यां, सबिरुद्धय जननी जिननाथम् । अँथुमिश्रिवरिलोचनमुक्त्या, ते पुनः पुनरपि प्रचुचुम्ब ॥ २१॥ + -पञ्चभिः फुलकम् मङ्गलैकनिलये तमयेऽसि-मप्सरोमिरभिनिर्मितरक्षे । 'रिष्टरक्षणलयात प्रतिघेलं, मातुरातुरतया तु ययौ हक् ॥ २२ ॥