पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७५ परिनालयम् ] सप्तमः सर्गः स्तुत्वा शक्रस्तवेनेति, पुनः स्तोतुं प्रचक्रमे ।। ६५९ ।। नमस्ते विश्वदीपाय, नमस्ते विश्वशासिने । नमस्ते विश्वनाथाय, नमस्ते प्रथमाईते ॥६६॥ यत्र त्वं 'भरत क्षेत्रे, धर्मकल्पद्रुमोऽभवः । कल्पकल्पद्रुमेशानां प्रभो ! सेन्यं यभूव तत् ।। ६६१ ।। यत्र खं नाभिभूपाल-कुले भानुरियोदितः । अकालमिदमुत्ताल-मुयोतं नैव मोत्यति ।। ६६२ ॥ यत्र त्वं सुमुहूर्तेऽद्य, जन्माप्तः पुण्यकन्दला। से लोकचयकल्याणा-नन्दकन्दत्वमाददे ॥ ६६३ ।। यत्र त्वं कालचकारे, जातः प्रथमतीर्थकद । एपोरेपु तृतीयोप, प्रथमः कथमस्तु मा ? ॥ ६६४ ॥ यत्र त्वं जन्मिनां स्वामिन् !, सुकृतैः समपातरः । सोऽयम्भृत्युपास्योऽभूत् , केल्यैः कल्याणवासरः ।। ६३५ ।। शर्म नैति 'सुधर्मा यां, 'नन्दने' न हि मन्दति । ऐरावते न रमते, सुरेव न रज्यते ॥ ६६६ ।। प्रीति नामोति सङ्गीते, स्वर्गवीपु न राति । भन्मनस्त्वन्मुखालोक-सुखास्तोकसुदा प्रभो ॥ ६६७ ।।-युग्मम् सदैव दर्शनानि वद्-दर्शनानि नृणां नुमः । फिममदीक्षगरीश, घृणप्राप्तत्वदीक्षणः ॥ ६६८ ।। एपा त्वद्रूपरेखाऽभू-भत्रयोरमृतप्लवः ! श्रोन्नयोरप्यय भावी, कदेश ! तब देशना । ।। ६६९ ॥ जानातु त्वद्गुणग्राम-प्रमाणं यदि केवली । सोऽपि शक्तो न वक्तुं तु, जिहानन्त्यविवर्जितः ॥ ६७०।। इति स्तुत्वा प्रमोदाथु स्तोमो सेमोगमं दधत् । ईशानेशाङ्कतः शक्रो, जग्राह त्रिजगत्पतिम् ॥ ६७१।। १ गहू। २ क-कटौ। ३लोचनानि ।