पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका काव्यकल्पलतायाः परिचय:- अलङ्कारविषयोऽयं महानन्थः कविशिक्षेत्यपरसञ्शकः । उक्तं चाखैव ग्रारम्भे स्वयं प्रन्धकभिः- "घाचं नत्वा महानन्द-करसत्काव्यसम्पदे । कविशिक्षामिमां वच्मि, काव्यकल्पलताहृयाम् ॥ १॥" समयते चायमुलेख एतद्धत्तिगतेन निम्नलिखितेनाधेन पयेन--.. "विमृश्य वामयं ज्योति-रमरेण यतीन्दुना । काव्यकल्पलताख्येये, कविशिक्षा प्रतन्यते ॥१॥" वृत्तिविधाने कवीश्वरोऽरिसिंह, सहायीभूत इति कथने निम्नलिखित पयं प्रमाणम्- "सारस्वतामृतमहरर्णयपूर्णिमेन्दो- मत्वाऽरिसिंहसुकवेः कवितारहस्यम् । किश्चिञ्च तद्रचितमात्मकृतं च किञ्चिद् व्याख्याखते त्वरितकाव्यकृतेऽन सत्रम् ॥ २॥" ३३५७श्लोकप्रमिता काव्यकल्पलतात्तिः स्वोपज्ञा न चेति सन्देहस्य सर्वथा निराकरणार्थ तत्प्रमाणपरिज्ञापनार्थ चोद्रियेते तद्भते प्रान्तिमे पये पुष्पिकापल्लविते । यथाहि-- "श्रीमद'वायट' गच्छवारिधिविधोः पादारविन्दद्वये ग्रेन श्रीजिनदत्तमरिसुगुरोः शङ्कारभृङ्गायितम् । श्रीश्वेताम्बरमौलिरलममरः श्रीवीरतीर्थकर- ग्रहात्माऽकृत काव्यकल्पलतिकावृत्ति सतां सम्मवाम् ।।१।। "काव्यकल्पलतावृत्ती, ससूत्रायामनुष्टुभाम् । त्रिसहस्री त्रिशती च, सप्तपञ्चाशदुत्तरा ॥ ५॥" "इति श्रीजिनदत्तमरिशिप्यमहाकविश्रीमदमरचन्द्रविरचितायां काव्य- कल्पलताकविशिक्षावृत्ती अर्थसिद्धिग्रताने चतुर्थे समसास्तयका सप्तमः । सम्पूर्णथायमर्थसिद्धिप्रतानश्चतुर्थः ।" असालङ्कारशाखख काँस्कान विभागांश्चक्रुः कषय इति निदर्शनार्थमपवावे यद्यमिदम्- ।