पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ श्रीपद्मानन्दमहायाच्यम् [श्रीजिनेन्द्र- स्तनयिनुरुमतः कि, तपात्यये तपनतीव्रतापहरे। न जलभरैः पाल्लययति, कान्तारलतावितानानि ॥ १५६ ॥ ऋतुपासवो वसन्तः, पल्लवयन् सकलवल्लिविटपिकुलम् । , कटुकण्टफिकुच्चतरू नपि कुरुते कुसुमफलकलितान् । ॥ १५७ ॥ तद्वत् तत्रभवानपि, भपिना सन्देहहरणकरणपरः । साधारणस्ततस्त्वं, मयाऽपि विज्ञप्यसे झानिन् । ॥१५८ ॥ येन भयो भगवद्भिः, प्ररूपितो दुःसरूप एवायम् । तत् कापि कोऽपि दुःखी, मत्तोऽप्यतिमात्रमत्रास्ते ॥ १५९ ॥ सुनिविभुरभापतैना, दुःखितमानिनि ! तवास्ति कि दुःखम् ? ! मरकायनीषु मारक-दुःखानि ख्यातुमप्यलक्ष्याणि ॥ १६० ।।* नरकवेदना नरके विविधं दुःखं, क्षेत्रमभयं परस्परेण कृतम् । परमापार्मिकविहितं, भविनोऽनुभवन्ति कर्मयशाः ॥१६॥ प्रथमेपु त्रिपु नरफे-पृष्णं तुर्ये तु शीतमृष्णं च । शीतं परेपु तदिदं, दुःसं क्षेत्रोद्भवं भवति ॥ १६२ ।। यदि नरकेषु कथञ्चन, निपतति लोहाद्रिरुप्णशीतेपु । स तदा विलीयते श्रा(स्राग, विशीयते भुवमनाप्तोऽपि ॥१६३ ॥ स्मृत्वा माग्भववरं, कतक्रियहस्तिसिंहरूपधराः । अन्योन्यं प्रहरन्तो-उनुभवन्ति विखण्डिता दुःखम् ।। १६४ ॥ चञपटीयवेधू-त्पन्नाः पापासुरैर्लघुद्वारात् । आकृष्यन्ते चलतः, सीसशलाका इव रटन्तः ॥ १६५ ॥ करचरणादौ धृत्वा, शिलासु पयजकण्टकपटासु । आसुरैरास्कास्यन्ते, रजकैरिय मलिनवसनानि ॥ १६६ ॥ ऋकचैश्च दारदार, दार्यन्ते दारुणः केचित् । पिण्यन्ते तिलपेप, चिर्यत्रैश्च पुत्रापि ॥ १६७ ॥ लोहयनैः केपि यना, कुबन्ते लोहपात्रवदैमत्रम् । दम्भोलिशूलतूलिक-शय्यासु च केशी शारयन्ते ।। १६८ ॥