पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिनाइयम् ] चतुर्थः सर्गः स्वामीनागजन्मनि मम, महायलस्त्यं तव स्वहं सचिवः । न सरसि मोहकूपे, निफ्तन विधृतोऽसि तबापि ॥ ९७ ॥ प्राग्भवसम्बन्धधिया, प्रबोध्यसे त्वमधुना महासच। 'त्रिदिवापीड ब्रीडा, पीडा स्त्रीमात्रदेतवे भवतः ॥ ९८ ॥ शोके विलपति हर्षे, नृत्यति नारी पुनर्नरो नैव । पौरुषपरिहारेण, श्रमसि कथं स्वीस्वभावमहो? ॥ ९९ ॥ सुपुरुपरेखा नैपा, यद्विधुरे नैव धीरता भियते । वात्याव तणमिव, कम्प कलयन्ति किं शैला ॥१०॥ संसारे संसरता, स्पृश्यन्ते न कति कामिनीप्रमुखाः। तत् तेषां का शोकः, पथिकस्यैवाचभूतणतरूणाम् । ॥ १०१ ।।* विपदि विपादं सम्पदि, मदं च भजते न गम्भीरः । ग्रीष्मे गर्जति जलधि-पनकालनदीजलेन सङ्कुचति ॥ १०२।।* महिलादिरहे पहिला इव विच्छाया भवन्ति ये मनुजाः। रजनि वियोगे रजनी-पतिरिय ते फिन सकलकाः ॥ १०३ ॥ सैका जमाम गच्छतु, सहस्रशो रम्बरम्यतररूपाः । देन्यो दीव्यन्त्यपरा-स्तव रतिकरणाय चतुरतराः॥ १०४॥ एकस्यां शुष्काया-मितसं भजते लता न कि भ्रमरः ।। हंसोऽपरां न सरसी, बनी च पैञ्चाननो नान्याम् ! ॥ १०५ ।। अथ ललिताङ्गोऽजल्पद् , बन्धो प्रारभवनिबन्धबन्धुतया । अतिबोधवचनमूचे, भवान् पुनरिदं विमाश्यतु ।।१०६॥ निजगति सारं स्वर्गः, स्वर्गे सारं सदैव विषयसुखम् । विषयसुखे सारं स्त्री, स्त्रियां हि सारं परं प्रेम ॥ १७ ॥ निरुपमरूपाद्भुततम-सौभाग्या विमलशीलभार ललना । प्रेम विना प्रासाद, प्रतिमाहीन इव न सुखाय ॥ १०८॥ सुखिग्धया मृगाक्ष्या, लेहविहीनोऽनुकूल्यमानोऽपि । तष्यति न नरः शुष्यति, कादम्बिन्था चासका सिक्तः ॥ १०९।।* १ स्वर्गमुकुट ।। २ व-मच सङ्कुचति'। ३ सिंह। ४ 'गवासो' इति माषाणाम् । पका- १.