पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वीरकर्मणा प्रस्तवते प्रस्तूयते गर्वैरिति शेषः । तदिति लिङ्गव्यत्ययः । प्रस्तवते इत्यत्र व्यत्ययेन यकः स्थाने शप्प्रत्ययः। किंभूतो विष्णुः । 'मृजूष् शुद्धौ मार्ष्टि शोधयतीति मृगः। नोऽनर्थकः पादपूरणः । भीमः बिभेत्यस्मादसौ भीमः । 'भीमादयोपादाने' (पा० ३ । ४ । ७४ ) । इति मप्रत्ययः। कुचरः कौ पृथिव्यां मत्स्यादिरूपेण चरतीति कुचरः । गिरिष्ठाः गिरि वेदवाण्यां गिरौ देहे वान्तर्यामिरूपेण तिष्ठतीति गिरिष्ठाः । अथवा न इवार्थः । गिरिष्ठाः पर्वतस्थितः कुचरः कुत्सितचारी प्राणिवधजीवनो भीमः भयंकरो मृगो न सिंह इव । स यथा वीर्येण स्तूयते तद्वत् । स को विष्णुरित्याह । यस्य विष्णोरुरुषु प्रभूतेषु त्रिषु विक्रमणेषु पादप्रक्षेपणस्थानेषु लोकेषु विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि अधिक्षियन्ति अधिनिवसन्ति स स्तूयत इत्यर्थः ॥२०॥

एकविंशी।
विष्णो॑ र॒राट॑मसि॒ विष्णो॒: श्नप्त्रे॑ स्थो विष्णो॒: स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि ।
वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।। २१ ।।
उ० रराट्यामालभ्य वाचयति । विष्णोर्रराटम् । विष्णोर्यज्ञस्य ललाटमसि । उत श्रप्यानुपस्पृश्य वाचयति विष्णोः श्नप्त्रेस्थः । विष्णोर्यज्ञस्य श्नप्त्रे सृक्किणी स्थः । ओष्ठसंधिरुच्यते श्नप्त्रशब्देन । सीव्यति । स्यूरसि । 'षिवु तन्तुसम्ताने' । सीव्यत्यनेनेति स्यूः सूचिर्वा । ग्रन्थिं करोति । विष्णोर्ध्रुवोऽसि ग्रन्थिरसि । समाप्तं स्पृशति । वैष्णवमसि विष्णुर्देवतास्य वैष्णवम् । विष्णवेर्थाय त्वामुपस्पृशामीति शेषः ॥ २१ ॥
म० 'विष्णो रराटमिति रराट्यमिति' । (का० ८।४ । १५) वाचयतीत्यनुवर्तते । हविर्धानाख्ये द्वे शकटे दक्षिणोत्तरभागयोः स्थापयित्वा तदावरकत्वेन परितो हविर्धानाख्यं मण्डपं कुर्यात् । स च मण्डपो विष्णुदेवताकत्वाद्विष्णुरित्युपचर्यते। विष्णोश्च मूर्तिधरस्य सर्वावयवसद्भावाल्ललाटाख्योऽवयवोऽस्ति । तद्वद्धविर्धानमण्डपस्यापि पूर्वद्वारवर्तिस्तम्भयोर्मध्ये काचिद्दर्भमाला ग्रथ्यते । तां मालां तद्बन्धनाधारतिर्यग्वंशं वा संबोध्य पुरुषललाटत्वेनोपचर्यते । दर्भमयमालाधारवंश । त्वं विष्णोः विष्णुमूर्तित्वेनोपचरितस्य हविर्धानमण्डपस्य रराटमसि ललाटस्थानीयोऽसि । 'विष्णोः श्नप्त्रे स्थ इत्युच्छ्राय्याविति' (का. ८।४।१६)। उच्छाय्यौ रराटीप्रान्तावुपस्पृश्य वाचयेदित्यर्थः । हे रराट्यन्तौ, युवां विष्णोः विष्णुनामकस्य हविर्धानमण्डपस्य श्नप्त्रे स्थः ओष्ठसन्धिरूपे भवथः । 'द्वार्याः परिषीव्यति लस्यूजनि प्रतिहृतया रज्वा विष्णोः स्यूरसीति' ( का. ८।४।१८)। बृहत्सूचिसमर्पितया रज्ज्वा द्वारशाखाः सीव्यतीति सूत्रार्थः । हे लस्यूजनि, त्वं विष्णोर्हविर्धानस्य स्यूरसि । सीव्यन्त्यनेनेति स्यूः सूचिः । 'षिवु तन्तुसन्ताने । क्विपि 'च्छ्वोः शूडनुनासिके च' (पा० ६ । ४ । १६) इति वस्योडादेशः । 'विष्णोर्रुे वोऽसीति ग्रन्थिं करोति' ( का० ८।४।१६) हे रज्जुग्रन्थे, त्वं विष्णोः हविर्धानस्य ध्रुवोऽसि ग्रन्थिर्भवसि । 'प्राग्वᳪशᳪ हविर्धानं निष्ठाप्य वैष्णवमसीत्यालभते' (का. ८ । ४ । २१) प्रागग्रैर्वंशैर्मण्डपं निर्मायानेन मन्त्रेण स्पृशेदिति सूत्रार्थः । हे हविर्धान, त्वं वैष्णवमसि विष्णुदेवताकत्वेन तत्संबन्धि भवसि । तस्माद्विष्णवे विष्णुप्रीत्यर्थं त्वा त्वां स्पृशामीति शेषः ॥ २१ ॥

द्वाविंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।। २२ ।।
उ० इत उत्तरं उपरवमन्त्राः प्राग्देवस्य त्वेत्यस्मान्मन्त्रात् । अभ्रिमादत्ते । देवस्य त्वेति व्याख्यातो मन्त्रः। आददे गृह्णामि । नार्यसि । नारीति प्रशस्यतेऽभ्रिः । नरस्यापत्यं स्त्री नारी । परिलिखति । इदमहम् । उपरवान् परिलिखामि। इदमहं रक्षसां यज्ञविध्वंसिनां ग्रीवा अपि कृन्तामि छिनद्मि। . यथापरिलिखितं खनति । बृहन्नसि । यस्मात्त्वं हे उपरव, बृहन्महानसि कर्मणा परिमाणेन च । बृहद्रवाश्च बृहन्महत् रवोऽस्येति बृहद्रवाः । तस्माद् बृहतीं महतीमिन्द्राय वाचं वद ॥ २२॥
म० इत उत्तरमुपरवमन्त्रा देवस्य त्वेत्यस्मात् (क० २६) प्राक् । 'दक्षिणस्यानसोऽधः प्रउगं खनत्युपरवानभ्यादिकरोत्यवटवदिति' (का ८ । ४ । २५)। यथा यूपस्यावटः क्रियते तथात्राप्युपरवनामकांश्चतुरो गर्तानभ्रिस्वीकारमारभ्य परिलेखनपूर्वकं कुर्यादित्यर्थः । अवटार्थमभ्रिस्वीकारमेवाह 'देवस्य त्वेत्यभ्रिमादायेति' (का० ६ । २ । ८)। अभ्रिशब्देन काष्ठनिर्मितं खननसाधनमुच्यते । अभ्रिर्देवता । हे अभ्रे, सवितुर्देवस्य प्रसवे वर्तमानः सन्नश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां त्वामाददे स्वीकरोमि । त्वं तु नार्यसि खननसाधनत्वेन कर्मोपयोगित्वान्नराणां पुरुषाणामनुष्ठातॄणां संबन्धिनी भवसि । 'यूपावटं परिलिखतीदमिति' (का० ६।२।८)। य इदं चतुरोऽवटान्परिलिखामि । इदमिति विभक्तिव्यत्ययः । अनेन परिलेखनेन रक्षसां यज्ञघ्नानां ग्रीवा अपिकृन्तामि कण्ठप्रदेशान्छिनद्मि । बृहन्नसीति यथापरिलिखितं खनतीति' (का. ८।५। ७) । आग्नेयीं विदिशमारभ्य चतसृषु विदिक्षु चतुर उपरवान्खातुं भूमिः परिलिखिता । तेन परिलेखनक्रमेणावटान्खनेदिति सूत्रार्थः । हे उपरवाख्यगर्त, त्वं बृहन्नसि महान् भवसि वर्तुलस्य गर्तस्य प्रादेशपरिमाणेन विस्तृतत्वाद्बाहूपरिमाणेन