पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यति' इति । किंभूतायेन्द्राय । एकधनविदे एकं मुख्यं धनं सोमरूपं विन्दते लभते स एकधनवित् । यद्वा सोमकण्डनाय यैर्जलमानीयते ते कुम्भा एकधनाः । एकं धनं सोमरूपं यत्रेति तान्वेत्ति जानातीति । सोमकण्डनाय जलकुम्भा आनीता इति जानातीत्यर्थः । किंच हे सोम, तुभ्यं त्वत्पानार्थमिन्द्र आप्यायतां वर्धताम् । तथा हे सोम, त्वमपि इन्द्रायेन्द्रपानायाप्यायस्व सर्वतो वृद्धो भव । अनेनोभयोरपि वृद्धिर्भवति । तदाह तित्तिरिः 'उभावेवेन्द्रं च सोमं चाप्याययति' इति । किंच हे सोम, सखीन् सखिवत्प्रीतिविषयानस्मानृत्विजः सन्या मेधया चाप्यायय प्रवर्धय । सनिर्धनदानं मेधार्थधारणशक्तिः । 'ऋत्विजो वा अस्य सखायः' इत्युक्तेः सखिशब्देन ऋत्विजः । किंच हे सोमदेव, ते तव स्वस्ति क्षेमोऽस्तु । तव प्रसादादहं सुत्यां सोमाभिषवक्रियां समाप्तिदिनमशीय प्राप्नुयाम् । 'प्रत्येत्य प्रस्तरे निह्नुवत उत्तानहस्ता दक्षिणोत्ताना वेष्टा राय' ( का० ८ । २ । ९) इति । सर्वेऽपि ऋत्विजः प्रस्तरे निजहस्तानुत्तानान्कृत्वा दक्षिणहस्तं वोत्तानमुपर्यवस्थाप्य निह्नुवते सोमं परिचरन्तीति सूत्रार्थः । रायो धनानि एष्टाः आ समन्तादिष्टा अस्माकमपेक्षिताः । सोम, त्वत्प्रसादादस्माकं रायः सन्त्विति भावः । यद्वा रायः दक्षिणालक्षणा एष्टाः आ समन्तादत्ताः । यजते रूपम् । दक्षिणा दास्यन्त इति भावः । किमर्थं । प्रेषे भगाय । प्रकर्षेणेष्यत इति प्रेट् तस्मै प्रेष्यमाणाय भगायैश्वर्याय । यद्वा प्रकर्षेण इषे अन्नाय भगाय च । किंच ऋतवादिभ्योऽग्निहोत्रिभ्यः ऋतमवश्यंभाविफलोपेतं कर्म संपादयेति शेषः । ऋतं सत्यं वदन्तीति ऋतवादिनः । यद्वा षष्ठ्यर्थे चतुर्थी । ऋतवादिनामस्माकमृतं कर्मफलमस्त्विति शेषः । द्यावापृथिवीभ्यां तदभिमानिदेवताभ्यां नमोऽस्तु । तयोरनुग्रहेण यजमानायाविघ्नस्थितिर्भवतीति नमस्क्रियते । तदाह तित्तिरिः ‘द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति' इति ॥ ७ ॥

अष्टमी।
या ते॑ अग्नेऽयःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।
या ते॑ अग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।
या ते॑ अग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।। ८ ।।
उ० उपसदं जुहोति । ततोऽसुरा एषु लोकेषु पुरश्चक्रिरे अयमयीमेवास्मिँल्लोके रजतामन्तरिक्षे हारिणीं दिवि' इत्यादीतिहासो निदानभूतः । या ते अग्ने । हे अग्ने, या ते तव अयःशया अयसि शेते इत्ययःशया तनूः शरीरम् । वर्षिष्ठा उरुतमा विस्तीर्णतमा । गह्वरेष्ठा निगूढदेशस्थायिनी । सा असुरसंबन्धिनी उग्रं वचः उद्गूर्णं वचः जहिजहि मारयमारय इतीत्थंभूतं वचनम् अपावधीत् अपहन्तु । त्वेषं दीप्तं धृष्टं बलेन ऊर्जस्वितया च युक्तमपहन्तु । हतसर्वोद्यमा निर्वाचः असुराः सन्त्वित्यर्थः । यद्वा या तवाग्नेऽयःशयाः तनूः विस्तीर्णा निगूढदेशस्थायिनी च उद्गूर्णमसह्यं वचनमपहतवती दीप्तं वचनमपहतवती । सैनां पुनरपहन्त्विति शेषः । रजःशया रजतशायिनी । हरिशया हरितसुवर्णशायिनी। एतावदुत्तरयोर्मंत्रयोर्विशेषव्याख्यानम् ॥ ८॥
म० 'उपसदं जुहोति स्रुवेण या ते इति' (का० ८ । २। ३५)। आग्नेयानि त्रीणि यजूंषि । अत्रेयमाख्यायिकास्ति । देवैः पराजिता अमुरास्तपस्तप्त्वा त्रैलोक्ये त्रीणि पुराणि चक्रुर्लोहमयीं भूमौ राजतीमन्तरिक्षे हैमीं दिवि । तंदीं देवैस्ता दग्धुमुपसदाग्निराराधितः । तत उपसद्देवतारूपोऽग्निर्यदा तासु पूर्षु प्रविश्य ता ददाह तदा तिस्रः पुरोऽग्नेस्तनवोऽभूवन् । तदभिप्रेत्यायं मन्त्रः । हे अग्ने, या ते तवायःशया तनूः अयसि शेते इत्ययःशया । लोहमयीत्यर्थः । लोहमयपुरव्यापित्वेन तद्रूपा सती । वर्षिष्ठा देवानामतिशयेनाभिमतफलवर्षिणी । तथा गह्वरेष्ठा गह्वरे असुराणां विषमे देशे तिष्ठतीति गह्वरेष्ठा । 'हलदन्तात्सप्तम्याः संज्ञायाम्' (पा० ६ । ३ । ९) इति विभक्तेरलुक् । सा ते तनूरुग्रं वचोऽपावधीत् छिन्धिभिन्धीत्यादिकमसुरप्रोक्तं तीवं वचनं विनाशितवती । तथा त्वेषं वचः असुरोक्तं देवाधिक्षेपरूपं प्रदीप्तं वाक्यमपावधीत् । स्वाहा तथाविधोपकाराय तुभ्यमग्नये हविर्दत्तम् । 'ततोऽसुरा एषु लोकेषु पुरश्चक्रिरे अयस्मयीमेवास्मिंल्लोके रजतामन्तरिक्षे हरिणीं दिवि' (३ । ४ । ४ । ३) | इत्यादिश्रुत्या अयमितिहासो निरूपितः । उग्रत्वेषवचसोरर्थान्तरम् । यथा असुरैः पराजिता देवा अन्नपाने अलभमानाः क्षुत्पिपासाभ्यां वयं पीडिता इति यदूचुस्तदुग्रं वचः । तथा किं वा वीरहत्यादि महापातकमस्माभिः कृतमिति क्लिश्नन्तो यद्वाक्यं संतापहेतुत्वेन दीप्तमूचुस्तत्त्वेषं वचः । । तदाह तित्तिरिः । 'अशनायापिपासे ह वा उग्रं वच एनश्च वै वीरहत्यं च त्वेषं वचः' इति । 'एवमितरे अन्वहᳪरजः' शयाᳪ हरिशयां चेति' (का० ८ । २ । ३८) । यथा प्रथमदिने या ते अग्नेऽयःशयेत्युपसदेवमितरे द्वितीयतृतीये उपसदो द्वितीयतृतीयदिनयोरनुतिष्ठेत् । द्वितीयस्यामुपसदि रजःशयेति तृतीयोपसदि हरिशयेति मन्त्रभेद इति सूत्रार्थः । रजःशया रजतमयी । हरिशया हिरण्यमयी । अन्यत्पूर्ववत् ॥ ८ ॥

नवमी। -
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मेऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात् । वि॒देद॒ग्निर्नभो॒ नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒
योऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्न॒भो॒ नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒
यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्न॒भो नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । अनु॑ त्वा दे॒ववी॑तये ।। ९ ।।