पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

यस्य तत् । अभिपूर्वः शंसतिर्गर्हायां वर्तते । अभिशस्तिपाः अभिशस्तिर्ऋत्विजां परस्परविरोधेन निन्दनं तस्याः पाति रक्षतीत्यभिशस्तिपाः । पुंस्त्वं छान्दसम् । अनभिशस्तेन्यम् | अनभिशस्ते अनिन्दिते स्वर्गादौ नयतीत्यनभिशस्तेनीः । द्वितीया प्रथमार्थे । पुंस्त्वं व्यत्ययेन । यतस्त्वमीदृशमसि अतो हे तानूतनप्त्राज्य, अहमृत्विक् अञ्जसा ऋजुमार्गेण मानसकौटिल्यरहितेन सत्यमाज्यस्पर्शरूपं शपथमुपगेषमुपगच्छेयम् । उपपूर्वस्य गायतेर्लेट्युत्तमैकवचने 'सिब्बहुलं लेटि' (पा० ३।१।३४) इति सिपि इडागमे 'लेटोऽडाटौ' (पा० ३ । ४ । ९४ ) इत्यडागमे च रूपम् । 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४ । ९७) इति इलोपः । किंच हे आज्य, स्विते शोभनमार्गे यज्ञकर्मणि मा मां त्वं धाः धेहि स्थापय । दधातेर्लुङि मध्यमैकवचनेऽडभावे रूपम् ॥ ५॥

षष्ठी।
अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूरि॒यᳪ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑ । स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ।। ६ ।।
उ० आहवनीये समिधमादधाति । अग्ने व्रतपाः । यजमानोऽनेन यजुषा अग्निशरीरात्मशरीरयोः व्यत्यासं करोति । हे अग्ने व्रतपाः । हे अग्ने, व्रतं पाति रक्षतीति व्रतपाः । व्रतमिति कर्मनाम । त्वे व्रतपाः अवधारणार्थं पुनः संबोधयति । त्वमेव व्रतस्य गोपायिता । तं शरणं व्रजाम इति शेषः । केन प्रकारेणेतिचेत् । या तव तनूरियᳪसा मयि । या इयं तव तनूः सा मयि भवत्विति शेषः । या मम तनूरेषा सा त्वयि । या चैषा मम तनूः सा त्वयि भवत्विति शेषः। एवं कृतशरीरव्यत्यययोरावयोः सह नौ व्रतपते व्रतानि । एकत्र आवयोः हे व्रतपते, व्रतानि कर्माणि सन्त्विति शेषः । किंच अनु मे दीक्षां दीक्षापतिर्मन्यताम् । अनुमन्यतां मे मम दीक्षां दीक्षापतिः सोमः। अनु तपस्तपस्पतिः। अनुमन्यतां च तपस्पतिः सोमः तपः । तपःशब्देन च उपसद उच्यन्ते ॥६॥
म० 'अग्ने व्रतपा इत्याहवनीये समिधमाधायेति' (का० ८।२।४)। आग्नेयं यजुः । यजमानोऽनेन यजुषाग्निशरीरात्मशरीरयोर्व्यत्ययं करोति । हे व्रतपाः सर्वेषां व्रतानां पालकाग्ने, त्वे व्रतपाः त्वमस्मदीयस्य वर्तमानव्रतस्य पालको भवसीति शेषः । विभक्तेः शे आदेशे त्वे इति रूपम् । तव तथाविधस्य व्रतपालकस्य या तनूः शरीरमस्ति सेयं तनूर्मयि भवत्विति शेषः । यो या उ या च मम तनूः मदीयं शरीरं सैषा तनूस्त्वयि भवतु । तथा सति हे व्रतपते, व्रतपालकाग्ने, व्रतान्यनुष्ठेयानि कर्माणि नौ अग्नियजमानयोः सह प्रवर्तन्तामिति शेषः । यावान्व्रतेषु ममादरस्तावानेव तवापि भवत्वित्यर्थः । किंच । दीक्षापतिर्दीक्षायाः पालकः सोमो मे मम दीक्षामनुमन्यताम् । तथा तपस्पतिः उपसद्रूपस्य तपसः पालकः सोमः तपः मदीयमुपसद्रूपमनुमन्यतामित्यनुवर्तते ॥ ६॥

सप्तमी।
अ॒ᳪशुर॑ᳪशुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ । आ तुभ्य॒मिन्द्र॒: प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व । आ प्या॑यया॒स्मान्त्सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय । एष्टा॒ राय॒: प्रेषे भगा॑य ऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ।। ७ ।।
उ० सोममाप्याययन्ति । अᳪ शुरᳪ शुः । चतुरवसाना चतुरशीत्यक्षरा प्रकृतिरुच्यते सौमी । चतुर्थोऽर्धर्चो लिङ्गोक्तदेवताकः । हे सोम अंशुः । वीप्सा । ते तव आप्यायतामुपचीयताम् । कस्मै इन्द्राय । तादर्थ्ये चतुर्थी । एकधनविदे। एकधनान् वेत्ति एकधनवित् तस्मै एकधनविदे। कथंभूतान् वेत्ति। 'एकैकोंशुः सोमस्य देवान्प्रति भक्षत्वेन गच्छन् शतमेकधनानाप्याययति दशदश वा सोमस्य ईदृशी शक्तिः' इतिश्रुतिः। आ तुभ्यमिन्द्रः प्यायताम् । आप्यायतामुपचीयतामिन्द्रः । हे सोम, तुभ्यं त्वदर्थम् । उपचितो हीन्द्रो बहु सोमं पिबति । आत्वमिन्द्राय प्यायस्व आप्यायस्व स्वमिन्द्रार्थमात्मानम् । सोम आप्यायय वर्धय । अस्मान् सखीन् समानख्यानान्परिचारकान् । सन्या धनलोभेन मेधया प्रज्ञया च । स्वस्ति ते देव सोम । स्वस्ति अविनाशः अस्तु तव हे देव सोम । | अहं च सुत्यामशीय व्याप्नुयाम् । यद्वा स्वस्त्यविनाशेन तव संबन्धि सवनं सुत्यां हे देव सोम, अहं व्याप्नुयाम् । प्रस्तरे निह्नुवते । एषा रायः । यजतेः कृतसंप्रसारणस्यैतद्रूपं निष्ठाप्रत्यये परतो दानार्थस्य । आ इष्टा रायः मर्यादया इष्टानि धनानि । दक्षिणाभिप्रायमेतत् । किमर्थमितिचेत् । प्रेषे भगाय ।प्रकृष्टाय इषेऽन्नाद्याय भगाय धनाय च । ऋतमृतवादिभ्यः सत्यमेतच्चिन्तितमस्माकं भूयात्सत्यवादिनामिति विभक्तिव्यत्ययः । षष्ठ्यर्थे चतुर्थी । नमो द्यावापृथिवीभ्याम् । द्यावापृथिव्योः संभोगमनु सर्वं सिध्यतीति नमस्कारः ॥७॥
म०. 'यजमानषष्ठाः सोममाप्याययन्त्यᳪशुरᳪशुरिति' (का० ८ । २ । ६ । ) । प्रकृतिः चतुरवसाना सोमदेवत्या । अन्त्योऽर्धर्चो लिङ्गोक्तदेवतः । चतुरशीत्यक्षरा प्रकृतिः । तत्र मन्त्रद्वयम् । सोमवल्ल्या अवयवोंऽशुरुच्यते । वीप्सा सर्वसंग्रहार्था । हे सोम देव, ते तवांशुरंशुः सर्वोऽप्यवयव इन्द्राय इन्द्रप्रीत्यर्थमाप्यायतां वर्धतां । चिरावस्थानेन यः सोमावयवो म्लानः शुष्कश्च तदुभयं मन्त्रेणाप्यायितं भवति । तदाह तित्तिरिः । 'यद्देवस्य शुष्यति यन्म्लायते तदेवास्यैतेनाप्याय