पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सोऽभिशस्तिपावा । स नः सोऽस्माकमग्निः स्योनः सुखरूपः। सुयजा सुयागेन यज । परोक्षत्वान्मन्त्रस्य प्रथमपुरुषेण व्यत्ययः । यजतु । इह अस्मिन् यज्ञे । देवेभ्यो हव्यं हविः । सदम् सदा । अप्रयुच्छन् । 'युच्छी प्रमादे' । अप्रमाद्यन् । स्वाहा सुहुतं हविर्जुहोमि ॥ ४ ॥
म० 'अग्नावग्निरिति जुहोति स्थाल्याः स्रुवेणेति' ( का० ५।२।६)। विराट् । दशाक्षरैश्चतुर्भिः पादैर्विराट् । अत्र द्वितीयतुर्यावेकादशार्णौ ततो द्व्यधिका । अग्निर्मथ्यमानोऽग्नावाहवनीये प्रविष्टः सन् चरति हविर्भक्षयति । 'चर गतिभक्षणयोः' । किंभूतोऽग्निः । ऋषीणां पुत्रः ऋत्विजो वेदविदः ऋषयः तैरुत्पादितत्वात्तेषां पुत्रवत्पुत्रः । तथा अभिशस्तिपावा अभिशस्तिर्वैकल्यनिमित्तोऽभिशापस्तस्मात्पाति रक्षतीत्यभिशस्तिपावा । 'आतो मनिन्-' (पा०३।२।७४) इति वनिप्प्रत्ययः । हे अग्ने, स तथाविधस्त्वं नोऽस्मदर्थं स्योनः सुखरूपः सन् सुयजा शोभनयागेन इहास्मिन् स्थाने देवेभ्यः इन्द्रादिभ्यः हव्यं सोमादिरूपं यज दहि । अस्मद्दत्तं हविर्देवान्प्रापयेत्यर्थः । किं कुर्वन् । सदं सदा अप्रयुच्छन् अप्रमाद्यन् । 'युच्छ प्रमादे' । स्वाहा इदमाज्यं तुभ्यं हुतमस्तु । यद्वा सोऽग्निर्नो हविर्देवेभ्यो यज यजतु ददात्विति पुरुषव्यत्ययेन वा योजना ॥ ४ ॥

पञ्चमी।
आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ ओजि॑ष्ठाय । अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा अ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमुप॑गेषᳪ स्वि॒ते मा॑ धाः ।। ५ ।।
उ० तनूनप्त्रमाज्यं गृह्णाति । आपतये त्वा । वायुदेवत्यं यजुः । आ पततीत्यापतिः। परि सर्वतः पततीति परिपतिः। उभयगुणविशिष्टाय वायवे हे आज्य, त्वा गृह्णामि । तनूनप्त्रे । तनूशब्देनात्रात्माभिप्रेतः । तन्यते हि तस्मादाकाशः ततो वायुर्भवति तस्मादाकाशो जायते शक्वरनामा । आकाशाद्वायुः । एतदभिप्रेत्योक्तं तनूनप्त्रे ब्रह्मणः पौत्रायेत्यर्थः । शाक्वराय । शक्नुवन्त्याकाशे भूतानि स्थातुमिति शक्वर आकाशस्तस्यापत्यं शाक्वरो वायुस्तस्मै । 'तस्माद्वा एतस्मादात्मन आकाशः संभूत आकाशाद्वायुः' इति श्रुतिः। शक्वने 'शक्लृ शक्तौ' । 'अन्येभ्योपि दृश्यन्ते' इति वनिप्। शक्ताय । ओजिष्ठाय बलिष्ठाय । आज्यमवमृशन्त्यृत्विजः परस्परमद्रोहाय शपथयन्तः । अनाधृष्टमसि । अनाधर्षितमनुल्लङ्घितं च त्वं भवसि । हे आज्य, शपथकारिभिः पूर्वमधृष्टमिदानीमप्यनाधृष्यमनुल्लङ्घनीयं त्वं भवसि । अनभिशस्ति । अभिपूर्वः शंसतिर्गर्हार्थे वर्तते । न विद्यते अभिशस्तिर्यस्य तत्तथोक्तम् । अभिशस्तिपाः अभिशस्तेः पाति रक्षतीत्यभिशस्तिपाः । अनभिशस्ते प्रदेशे स्वर्गादौ नयतीति अनभिशस्तेन्यम् । यत इत्थंभूतमतः त्वामभिमृश्य । अञ्जसा सत्यमुपगेषम् । अञ्जसा प्रगुणेन मार्गेण यथास्वरूपं सत्यमुपगच्छेयम् । त्वं चानेन सत्येन स्विते मा धाः । सु इते साधुगते कल्याणे लोके स्वर्गे मां निदध्याः ॥ ५॥
म० 'ध्रौवं व्रतप्रदाने गृह्णात्यापतय इति द्विश्च स्थाल्याः स्रुवेणेति' (का० ८ । १।१९–२०) । व्रतं प्रदीयते येन पात्रेण तत्र पात्रे ध्रुवास्थमाज्यं गृह्णीयादिति सूत्रार्थः । वायुदेवत्यं यजुः । आ समन्तात्पतति गच्छतीत्यापतिः सततगतिर्वायुस्तस्मै हे आज्य, त्वां गृह्णामि । किंभूताय । परिपतये परितः पततीति परिपतिस्तस्मै सर्वव्यापिने । तथा तनूनप्त्रे तनोति विस्तारयति विश्वमिति तनूरात्मा तस्य नप्त्रे पौत्राय । शाक्वराय शक्नुवन्ति स्थातुं भूतानि यत्र स शक्वर आकाशस्तस्यापत्यं शाक्वरस्तस्मै । 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः' (तैत्ति. आरण्य. ८।१) इति श्रुतेः । तथा शक्वने शक्नोति सर्वं कर्तुमिति शक्वा तस्मै । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३।२। ७५)। इति वनिप् । ओजिष्ठाय । ओजो बलमस्यास्तीत्योजस्वी। 'अस्मायामेधास्रजो विनिः' (पा० ५।२।१२१) इति विनिप्रत्ययः । अतिशयेनौजस्वी ओजिष्ठस्तस्मै । 'अतिशायने तमबिष्ठनौ' (पा० ५। ३ । ५५) इतीष्ठनि प्रत्यये 'विन्मतोर्लुक्' ( पा० ५। ३ । ६५) इति विनो लोपे टिलोपः । यद्वास्य मन्त्रस्यार्थान्तरं तित्तिरिव्याख्यातम् । हे आज्य, त्वामापतये प्राणदेवताप्रीतये गृह्णाम्यत्र पात्रे स्वीकरोमि । आसमन्तात्पाति देहं रक्षतीत्यापतिः प्राणः । तदाह तित्तिरिः 'प्राणो वा आपतिः प्राणमेव प्रीणातीति' । इष्टप्राप्त्युपायमनिष्टपरिहारोपायं च चिन्तयित्वा परितः पाति पालयतीति परिपतिर्मनस्तत्प्रीत्यै गृह्णामि । तदाह तित्तिरिः । 'मनो वै परिपतिर्मन एव प्रीणाति' इति । तनूनप्त्रे । तनूं शरीरं न पातयति न विनाशयतीति तनूनप्ता जाठरोऽग्निस्तस्मै जाठराग्निदेवताप्रीत्यै आज्य, त्वां गृह्णामि । शाक्वराय शकनशीलः शक्वरः शक्तिमान् पुरुषस्तस्येदं शाक्वरं शक्तिस्वरूपं तस्मै शक्तिस्वरूपाभिमानिदेवताप्रीत्यै त्वां गृह्णामि । शक्वन ओजिष्ठाय । शक्वने इति चतुर्थी सप्तम्यर्थे । शक्वनि शक्तिमति पुरुषे यदोजिष्ठं सारं तस्मै । ओजो नामाष्टमो धातुस्तत्सारमोजिष्ठं तदवष्टम्भेनैव शरीरे शक्तिरवतिष्ठते । ओजःसाराभिमानिदेवताप्रीत्यै त्वां गृह्णामीत्यर्थः । 'तनूनप्त्रमेतद्दक्षिणस्यां वेदिश्रोणौ निधायावमृशन्त्यृत्विजो यजमानश्चानाधृष्टमित्यद्रोहस्तेभ्यः' ( का० ८ । १ । २४-२६) इति । आज्यदैवतं यजुः । हे आज्य, त्वमीदृशमसि । किंभूतम् । अनाधृष्टमितः पूर्वं केनाप्यतिरस्कृतम् । अनाधृष्यं न आधर्षितुं शक्यमितः परमप्यतिरस्कार्यम् । देवानामग्न्यादीनामोजः सारभूतम् । अनभिशस्ति नास्ति अभिशस्तिर्निन्दा