पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

देवः तस्मै धनपुष्टिदायिनेऽग्नये हे हविः, त्वा त्वां गृह्णामि । विष्णवे त्वेति पूर्ववत् । विष्णुशब्दाभिधेयस्य सोमस्य राज्ञो हविषा तदनुचराणामग्न्यादिदेवानां तद्द्वारा तत्संबन्धिनां गायत्र्यादिच्छन्दसां च तृप्तिर्भवति । तदाह तित्तिरिः 'यावद्भिर्वै राजानुचरैरागच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाᳪसि खलु वै सोमस्य राज्ञोऽनुचराणि' इति ॥१॥

द्वितीया ।
अ॒ग्नेर्ज॒नित्र॑मसि वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ।। २ ।।
उ० आतिथ्येऽग्निमन्थनं शकलमादत्ते । अग्नेर्जनित्रम् । जायतेऽस्मिन्नग्निरिति जनित्रम् । दर्भतरुणके निदधाति । वृषणौ स्थः । 'वृषु सेचने' । वृषणौ वर्षितारौ सेक्तारौ भवथः । अधरारणिं निदधाति । उर्वश्यसि । उत्तरारण्याज्यविलापनीमुपस्पृशति । आयुरसि उत्तरारणिं निदधाति । पुरूरवा असि इतिहासपक्षेण मन्त्रत्रयं व्याख्यातं श्रुत्या । 'उर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुः' इति । मन्थति । गायत्रेण त्वा। हे अग्ने, गायत्रेण त्वा छन्दसा मन्थामि जनयामि । उत्तरौ मन्त्रौ समानव्याख्यानौ । त्रैष्टुभेन जागतेनेति विशेषः ॥२॥
म० अथाग्निनयनमन्त्राः । 'अग्नेर्जनित्रमिति शकलमादाय वेद्यां करोतीति' ( का० ५। १।२८) । शकलदैवतं यजुः । हे शकल, त्वमग्नेर्जनित्रं जननाधारभूतमसि । जायतेऽस्मिन्निति जनित्रम् । 'वृषणाविति कुशतरुणे तस्मिन्निति' (का० ५। १ । २९) । तस्मिञ्शकले करोतीत्यर्थः । मन्त्रार्थस्तु । हे दर्भौ, युवां वृषणौ सेक्तारौ स्थः भवथः । वर्षत इति वृषणौ । कनिन्प्रत्ययः । यथा पुत्रजननाय स्त्रीपुरुषौ वीर्यस्य सेक्तारौ तद्वद्युवामप्यरण्योरग्निजननसामर्थ्यसंपादकावित्यर्थः । 'उर्वश्यसीत्यधरारणिं तयोरिति' (का० ५।१।३०)। शकलस्थापितयोर्दर्भयोरधरारणिं निदध्यादिति सूत्रार्थः । हे अधरारणे, त्वमुर्वशी असि । यथोर्वशी पुरूरवोनृपस्य भोगायाधस्ताच्छेते तद्वत्त्वमधोऽवस्थितासीत्यर्थः । 'आयुरसीत्युत्तरयाज्यस्थालीᳪ सᳪस्पृशेदिति' (का० ५।१। ३१)। उत्तरारण्याज्यस्थालीं स्पृशेदिति सूत्रार्थः । हे स्थालीगताज्य, त्वमायुरसि अरणिद्वयेन जनिष्यमाणस्याग्नेरायुःप्रदं भवसि । 'पुरूरवा इत्यभिनिधानं तयेति' (का० ५।१। ३१)। अधरारणेरभिमुखीमुत्तरारणिं निदध्यादिति सूत्रार्थः । हे उत्तरारणे, त्वं पुरूरवा असि । यथा पुरूरवा नृप उर्वश्या अभिमुख उपरि वर्तते तथा त्वमपीत्यर्थः । उर्वशीत्यादिमन्त्रत्रयं श्रुत्या व्याख्यातम् । 'उर्वशी वा अप्सराः पुरूरवाः पतिरथ यत्तस्मान्मिथुनादजायत तदायुरिति' (३।४।१। २२)। 'मन्थति गायत्रेणेति प्रतिमन्त्रं त्रिः प्रदक्षिणमिति' (का० ५।२।२) । मत्रत्रयेणारण्योर्मन्थनं कुर्यात् । हे अग्ने, गायत्रेण छन्दसा गायत्रीच्छन्दोभिमानिना देवेनाहं त्वा त्वां मन्थामि अरण्योर्मन्थनेनोत्पादयामि । एवमुत्तरावपि मन्त्रौ योज्यौ ॥२॥

तृतीया ।
भव॑तं न॒: सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ । मा य॒ज्ञᳪ हि॑ᳪसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शिवौ भ॑वतम॒द्य न॑: ।। ३ ।।
उ० प्रास्यति । भवतं नः पङ्क्तिः । आहवनीयनिर्मथ्यावुच्यते । भवतं युवां नः अस्माकं समनसौ समानमनस्कौ सचेतसौ समानप्रज्ञौ । अरेपसौ । रेप इति पापनाम । अपापौ । मा यज्ञं हिᳪसिष्टं विनाशिष्टम् । मा च यज्ञपतिं यजमानम् । किंच शिवौ शान्तौ भवतं भवथः । अद्य अस्मिन्यज्ञे नः अस्माकम् ॥ ३ ॥
म० ‘भवतं न इति प्रास्यतीति' (का० ५।२।३)। मन्थनोत्थमग्निमाहवनीये प्रास्यतीत्यर्थः । पङ्क्तिः । यस्याः अष्टार्णाः पञ्च पादाः सा पङ्क्तिः । अत्र तु तृतीयः षडक्षरः चतुर्थो दशार्णः । निर्मथ्याहवनीयावग्नी देवते । हे जातवदसावुभावग्नी, नोऽस्मदर्थं युवामीदृशौ भक्तम् । किंभूतो युवाम् । समनसौ मनसा सहितौ । तथा सचेतसौ समानं चेतो ययोस्तौ परस्परं समानचित्तयुक्तौ । अन्यविषयं मनः परिहृत्यास्मदनुग्रहाभिमुखत्वं समनस्त्वम् । अनुग्रहे परस्परविप्रतिपत्तिराहित्यं सचेतस्त्वम् । तथा अरेपसौ पापरहितौ प्रमादादस्माभिः कृतेऽपि पापे कोपाभावः पापरहित्यम् । . तदेव स्पष्टयति । यज्ञमस्मत्कर्म मा हिसिष्टं मा विनाशयतम् । यज्ञपतिं यजमानं च मा हिᳪसिष्टम् । तथा अद्यास्मिन्ननुष्ठानदिने नोऽस्मदर्थं शिवौ शान्तौ कल्याणकारिणौ भवतं पूर्वोक्तविधिना ॥३॥

चतुर्थी।
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पावा॑ । स न॑: स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यᳪ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ।। ४ ।।
उ० जुहोति । असावग्निः । आहवनीयनिर्मथ्यावुच्येते विराट् । अग्नौ आहवनीयाख्ये योयमग्निः निर्मथ्यः चरति प्रविष्टः । ऋषीणां विदुषामग्निहोत्रिणां पुत्रः । स यदग्नी आधत्ते तदेतं जनयति' इति श्रुतिः । अभिशस्तिपावा अभिशंसनमभिशस्तिः अभिशस्तेः पाति गोपायति यः