पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० सोमं प्रवेशयन्वाचयति । या ते धामानि । सौमी त्रिष्टुप् । हे सोम, या ते धामानि । 'धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति' । यानि तव संबन्धीनि धामानि नामानि हविषा यजन्ति यष्टारः । ता ते विश्वाः तानि ते सर्वाणि । परिभूः । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनम् । परिभूणि सर्वतो भवितॄणि । अस्तु । एतदपि बहुवचनं वाच्यसंयोगात् । सन्तु यज्ञं यज्ञं सर्वतो गृह्ये भवन्त्वित्यर्थः । यद्वा यज्ञशब्देन प्रथमान्तानि च धामानि तव विश्वानि नामानि यज्ञः परिभूः भवतु । यज्ञः परिगृह्य वर्ततामित्यर्थः । त्वं च । गयस्फानः गृहस्य पुत्रपशुभूहिरण्यादिभिर्वर्धयिता । प्रतरणः प्रतरन्ति येनापदः स प्रतरणः। सुवीरः शोभनवीरः । अवीरहा अहन्ता वीराणाम् । प्रचर इत्थंभूतस्त्वं परिभ्रम । सोम दुर्यान् गृहानस्मदीयान् ॥ ३७॥ इति उवटकृतौ मन्त्रभाष्ये चतुर्थोऽध्यायः ॥ ४ ॥
म० 'या त इति वाचयतीति' (का. ७ । ९ । ३२) । सोमदेवत्या त्रिष्टुप् गोतमदृष्टा । हे सोम, ते तव यां यानि धामानि प्रातःसवनादीनि स्थानानि प्राप्येति शेषः । हविषा त्वदीयरसरूपेण यजन्ति ऋत्विजो यागं कुर्वन्ति । यज्ञमभिलक्ष्येति शेषः । ते तव ता तानि विश्वा विश्वानि सर्वाणि स्थानानि परिभूरस्तु । परितो भवति प्राप्नोतीति परिभूः । 'भू प्राप्तौ' । भवान् परितः प्राप्तवान् भवतु । ऋत्विजो येषु स्थानेषु यजन्ति तानि त्वं प्राप्नुहीत्यर्थः । यद्वा ऋत्विजो यानि धामानि प्राप्य यजन्ति तानि सर्वाणि ते तव यज्ञं परिभूरस्तु यज्ञं परितो भवितॄणि यज्ञव्यापकानि सन्तु । नपुंसकबहुवचनस्थाने पुंलिङ्गैकवचनमार्षम् । किंच हे सोम, त्वं दुर्यान् गृहान् प्रचर प्राप्नुहि । दुर्या इति गृहनाम 'द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५.) इति संहितायां प्रचरेति दीर्घः । किंभूतस्त्वम् । गयस्फानः गय इति गृहनाम । (निघ० ३ । ४ । १)। 'स्फायी वृद्धौ । गयान्स्फाययतीति गयस्फानः गृहाभिवर्धकः । प्रतरणः प्रकर्षेण तरन्त्यापदो येन स प्रतरणः । यद्वा प्रतारयति यज्ञपारं प्रापयतीति प्रतरणः । सुवीरः शोभनास्त्वत्प्रसादलब्धा वीरा अस्मत्पुत्रपौत्रा यस्य तव स त्वं सुवीरः । अवीरहा न वीरान्हन्तीति । वीराणां परिपालक इत्यर्थः ॥ ३७ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। शालागमाद्वाचनान्तश्चतुर्थोऽध्याय ईरितः ॥ ४ ॥


पञ्चमोऽध्यायः।
तत्र प्रथमा।
अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ।। १ ।।
उ० आतिथ्ये हविर्गृह्णाति पञ्चभिर्वैष्णवैर्यजुभिः । अग्नेस्तनूरसि 'अग्निशब्देन परोक्षं गायत्र्युच्यते' इति श्रुतिः । अग्नेस्तनूः शरीरं भवसि । हुतं हविरग्नेः शरीरं भवत्येव । विष्णवे त्वा जुष्टं गृह्णामि । सोमस्य शरीरमसि विष्णवे त्वां जुष्टं गृह्णामि । 'सोमः परोक्षेण त्रिष्टुबुच्यते' इति श्रुतिः । अतिथेरातिथ्यमसि । अतिथेः सोमस्य आतिथ्यं भोजनमसि । विष्णवे त्वां जुष्टं गृह्णामि । श्येनाय त्वा सोमभृते । गायत्र्यै त्वां सोमहारिण्यै विष्णवे त्वामिति संबन्धः । 'सायं गायत्री श्येनो भूत्वा दिवः सोममहरत्' इति श्रुतिः । अग्नये त्वा रायस्पोषदे धनपोषस्य दात्रे विष्णवे त्वेति संबन्धः । 'पशवो वै रायस्पोषः पशवो जगती' इति श्रुतिः ॥ १॥
म० चतुर्थेऽध्याये सर्त्विग्यजमानस्य शालाप्रवेशमारभ्य क्रीतसोमस्य शालाप्रवेशपर्यन्ता मन्त्रा उक्ताः । अथ पञ्चमोऽध्यायस्तत्रादौ आतिथ्येष्टौ हविर्ग्रहणादिमन्त्रा उच्यन्ते । 'निर्वपेदग्नेस्तनूरिति पञ्चकृत्वः प्रतिमन्त्रमिति' (का० ८ । १।४) । पञ्च यजूंषि वैष्णवानि । हे हविः, त्वमग्नेस्तनूरसि अग्निसंज्ञो यो देवः सोमस्य राज्ञो भृत्यस्तस्य गायत्रीच्छन्दोऽधिष्ठातुस्तनूः शरीरं भवसि तृप्तिजनकत्वात् तथाविध हे हविः, विष्णवे बहुयज्ञव्यापिने सोमाय सोमप्रीत्यर्थं त्वा त्वां निर्वपामीति शेषः । सोमस्य तनूरसि । सोमसंज्ञः कश्चित्सोमस्य राज्ञो भृत्यस्त्रिष्टुप्छन्दोधिष्ठाता तस्य तृप्तिहेतुत्वात्तनूरसि । अन्यत्पूर्ववत् । अतिथेरातिथ्यमसि । अतिथिसंज्ञः मोमराजानुचरो जगतीच्छन्दोधिष्ठाता । हे हविः,. त्वमतिथेरतिथिसंज्ञस्य सोमभृत्यस्य आतिथ्यमसि आतिथ्यनामसंस्काररूपमसि । तिथिविशेषं विनैवातिक्षुधया पीडिते विप्रेऽतिथौ समागते तत्सत्काराय क्रियमाणः पादक्षालनभोजनसंवहनादिसंस्कार आतिथ्यमुच्यते । अतिथेरिदमातिथ्यम् 'अतिथेर्ञ्यः' (पा० ५। ४ । २६) इति ञ्यप्रत्ययः । विष्णवे त्वां निर्वपामीति पूर्ववत् । श्येनाय त्वा सोमभृते । श्येनो नाम देवः सोमराजानुचरः स्वर्गात्सोमहर्ता श्येनरूपधारिगायत्र्यधिष्ठाता तस्मै श्येनाय विष्णवे सोमाय च त्वां निर्वपामि । किंभूताय श्येनाय । सोमभृते सोमं हरति आनयतीति सोमहृत्तस्मै । 'हृग्रहोर्भश्छन्दसि' (पा० ८।२। ३२) इति हरतेर्हस्य भः । सोमानयनकर्त्रे । तथाच श्रुतिः ‘सा यद्गायत्री श्येनो भूत्वा दिवः सोममाहरदिति' (३ । ४ । १ । १२) । अग्नये त्वा रायस्पोषदे । रायस्पोषं धनपुष्टिं ददाति रायस्पोषदाः तस्मै । क्विप्प्रत्ययः । राज्ञो धनं क्रयविक्रयादिना बहुधा पोषयित्वा राज्ञेऽर्पयति स रायस्पोषदाः अग्निसंज्ञोऽपरः सोमानुचरोऽस्ति अनुक्तच्छन्दोऽधिष्ठाता