पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वान् द्युलोकम् । यश्चान्तरिक्षं अस्तभ्नात् । यश्चामिमीत वरिमाणं पृथिव्याः । मिमीते वरिमाणं गुरुत्वं पृथिव्याः । यश्च सम्राट् देवताविशेषः। आसीदद्विश्वा भुवनानि । आसीदति हि सर्वाणि भूतजातानि आत्मत्वेनाधिपत्येन च । विश्वेत्तानि । इच्छब्द एवार्थे । सर्वाण्येवैतानि वरुणस्य व्रतानि कर्माणि । ये इमान् लोकान् स्तभ्नुवन्ति ये च सर्वजनानाविशन्ति तेऽपि च वरुणाज्ञां कुर्वन्तीति परब्रह्मरूपेण वरुणस्य स्तुतिः ॥ ३० ॥
म० 'कृष्णाजिनमस्मिन्नास्तृणात्यदित्यास्त्वगितीति' (का० ७।९।१) । अस्मिन् शकटे इत्यर्थः । हे कृष्णाजिन, त्वमदित्यास्त्वगसि अखण्डितायाः पृथिव्याः त्वग्रूपं भवसि । 'तस्मिन्सोमं निदधात्यदित्यै सद इतीति' (का० ७।९। १)। हे सोम, त्वमदित्यै सदः अदितेर्भूमेः संबन्धि स्थानमासीद सर्वतः प्राप्नुहि । तत्रोपविशेत्यर्थः । 'अस्तभ्नाद्द्यामिति सोममालम्भ्य वाचयतीति' (का० ७।९।८)। हे वरुणदेवते त्रिष्टुभौ । क्रीतसोमस्य वरुणदेवतत्वाद्वरुणो ब्रह्मरूपेण स्तूयते । वृषभः श्रेष्ठो वरुणो द्यामस्तभ्नात् द्युलोको यथा न पतति तथा स्वकीययाज्ञया स्तम्भितवान् । तथान्तरिक्षमप्यस्तभ्नात् । तथा पृथिव्या वरिमाणं भूमेरुरुत्वममिमीत मिमीते । उरोर्भावो वरिमा तम् । एतावती भूरिति परिमाणं जानातीत्यर्थः । तथा सम्राट् सम्यग्राजमानो वरुणो विश्वा विश्वानि सर्वाणि भुवनानि आसीदत् लोकान्व्याप्नोति । विश्वा विश्वानि सर्वाणि । इत् एवार्थे । सर्वाण्येव वरुणस्य व्रतानि कर्माणि । यद्वा इदित्यव्ययमित्थमर्थे । इदित्थं तानि द्युलोकस्तम्भनादीनि वरुणस्य व्रतानि व्रतवन्नियतानि । सर्वदा तानि करोतीत्यर्थः ॥ ३० ॥

एकत्रिंशी।
वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ।। ३१ ।।
उ० वनेषु वि । वीत्ययमुपसर्गस्ततानेत्यनेन संबध्यते । यो वरुणः वनेषु वृक्षाग्रेषु वि ततान वितनोत्यन्तरिक्षमाकाशम् । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादुपलभ्यत एव । वाजमर्वत्सु । 'वीर्यं वै वाजः पुमाᳪसोऽर्वन्तः' इति श्रुतिः। वाजं वीर्यम् । अर्वत्सु पुरुषेषु । ततानेत्यनुवर्तते । पय उस्रियासु । उस्रियासु गोषु पयो विततान । हृत्सु क्रतुम् । क्रतुः संकल्पः । हृदयेषु संकल्पं विततान । विक्ष्वग्निम् प्रजास्वग्निं विततान । दिवि द्युलोके सूर्यमदधात् स्थापितवान् । सोममद्रौ । अद्रिषु सोमं स्थापितवान् । य एवं परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥३१॥
म० 'वनेषु व्यन्तरिक्षमिति सोमपर्याणहनेन परितत्येति' (का० ७ । ९ । ९) । बन्धनहेतुना वस्त्रेण परितो वेष्टयित्वेत्यर्थः । वि उपसर्गस्ततानेत्यनेन संबध्यते । वरुणो वनेषु वनगतवृक्षाग्रेषु अन्तरिक्षमाकाशं विततान । यद्यपि सर्वगतमन्तरिक्षं तथापि तत्र मूर्तद्रव्याभावादत्यन्तं विस्तारितवान् । तथा अर्वत्सु अश्वेषु वाजं बलं विततानेत्यनुवर्तते । यद्वा अर्वत्सु पुरुषेषु वाजं वीर्यं विततान । 'वीर्यं वै वाजः पुमाᳪसोऽर्वन्तः' (३।३।४।७) इति श्रुतेः । तथा उस्रियासु पयः क्षीरं विततान । उस्रियाशब्दो गोनाममु पठितः । हृत्सु हृदयेषु क्रतुं संकल्पं तच्छक्तियुतं मनो विततान । विक्षु प्रजासु अग्नि जठराग्निम् । दिवि द्युलोके सूर्यं विततान । अद्रौ पर्वते सोमं वल्लीरूपमदधात्स्थापितवान् । पर्वतपाषाणसंधिषु सोमवल्ल्या उत्पद्यमानत्वादद्रौ सोमस्थापनमुक्तम् । तदाह तित्तिरिः । 'सोममद्रावित्याह ग्रावाणो वा अद्रयस्तेषु वा एष सोमं निदधाति' इति । य एव मन्त्रद्वयोक्तद्युलोकस्तम्भनादिसामर्थ्यवान्परब्रह्मलक्षणो वरुणस्तं वयं स्तुम इति शेषः ॥ ३१ ॥

द्वात्रिंशी।
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ।। ३२ ।।
उ० कृष्णाजिनं सोमस्य चिह्नं करोति । सूर्यस्य चक्षुः । अनुष्टुप् । कृष्णाजिनमुच्यते । सूर्यस्य संबन्धि चक्षुः आरोह । तथाभ्युच्छ्रितं भव यथा सूर्यश्चक्षुषा पश्यतीत्यभिप्रायः । अग्नेश्चक्षुः कनीनकमारोह । यत्रैताभ्यां दृष्टो लक्षितः । एतशेभिः एतश इति अश्वनामसु पठितम् । एतशैरश्वैः ईयसे नीयसे । भ्राजमानः देदीप्यमानः । विपश्चिता सूर्येण सहितः । अग्निना वा विपश्चिता सहितः ॥ ३२ ॥
म० 'कृष्णाजिनं पुरस्तादासजति सूर्यस्य चक्षुरितीति' ( का० ७ । ९ । ९) कृष्णाजिनदेवत्यानुष्टुप् । हे कृष्णाजिन, त्वं सूर्यस्य चक्षुर्नेत्रं आरोह । तथा अग्नेर्वह्नेरक्ष्णो नेत्रस्य कनीनकं तारकां चारोह । तथोच्चैस्तरांभव यथैताभ्यां दृश्यस इत्यर्थः । यत्र यस्मिन्नेतयोर्दर्शने विपश्चिता विदुषा सर्वज्ञेन सूर्येणाग्निना च भ्राजमानः दीप्यमानः सन्नेतशेभिरेतशैरश्वैस्त्वमीयसे गच्छसि । एतश इत्यश्वनामसु पठितम् । यत्र त्वमश्वैर्गच्छसि । 'ई गतौ' दिवादिरात्मनेपदी । एतशैरिति करणेतृतीया । यद्वा कर्मणि रूपम् । एतशैरिति कर्तरि तृतीया। यत्राश्वैस्त्वं नीयस इत्यर्थः । कृष्णाजिनस्य पुंस्त्वमार्षम् । सूत्राग्निदृष्टिविषयत्वे सति मार्गो रक्षोबाधरहितो भवति । तदुक्तं तित्तिरिणा 'एष वास्य खलु रक्षोहणः पन्था योऽग्नेश्च सूर्यस्य च' इति ॥ ३२ ॥