पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

(का० ७। ८ । २३ ) । वासः प्रत्युह्य वस्त्रमुपरिस्थाप्य सोमं निदध्यादित्यर्थः । यजमानरूपेण परमैश्वर्येणोपेतत्वादत्रेन्द्रशब्देन यजमानः । तथा च श्रुतिः ‘एष वा अत्रेन्द्रो भवति यद्यजमानः' (३।३।३।१०) इति । हे सोम, त्वमिन्द्रस्य यजमानस्य दक्षिणमूरुमाविश । दक्षिणे ऊरावुपविशेत्यर्थः । किंभूतस्त्वम् । उशन् ‘वश कान्तौ' वष्टि उशन् शतृप्रत्ययः । ऊरुं कामयमानः । तथा स्योनः सुखभूतः । किंभूतमूरुम् । उशन्तं सोमं कामयमानं स्योनमुपवेशे सुखकरम् । पुरा देवाः सोमं क्रीतमिन्द्रस्योरावुपवेशयन् तस्मादत्रेन्द्रशब्देन यजमानः । तदाह तित्तिरिः 'देवा वै सोममक्रीणंस्तमिन्द्रस्योरौ दक्षिण आसादयन् स खलु वा एतर्हीन्द्रो यो यजते तस्मादेवमाह' इति । 'स्वान भ्राजेति जपति सोमविक्रयिणमीक्षमाणः' (का० ७।८।२४) इति । स्वनतीति स्वानः । भ्राजते शोभतेऽसौ भ्राजः । अङ्घस्य पापस्यारिरङ्घारिः । बिभर्ति पुष्णाति विश्वमिति बम्भारिः । हसति हस्तः सर्वदा हृष्टरूपः । शोभनौ हस्तौ यस्य सुहस्तः । कृशं दुर्बलमनिति जीवयतीति कृशानुः । स्वानादयः सप्त सोमरक्षका देवविशेषाः । हे स्वानादयः सप्त देवाः, वो युष्माकमेते सोमक्रयणाः सोमः क्रीयते यैस्ते सोमं क्रेतुमानीता हिरण्यादिपदार्थाः पुरतः स्थापिताः । तान्पदार्थान् यूयं रक्षध्वमवत । वो युष्मान्मा दभन् वैरिणो मा हिंसिषत । स्वानादयो धिष्ण्याधिष्ठातारः सोमरक्षकाः । तदाह तित्तिरिः 'स्वान भ्राजेत्याह ते चामुष्मिँल्लोके सोममरक्षन्' इति ॥ २७ ॥

अष्टाविंशी।
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ।। २८ ।।
उ० गृहीतसोमं वाचयति । परि माग्ने । आग्नेयी पुरस्ताद्बृहती । हे भगवन्नग्ने, परिबाधस्व परित्रायस्व मां दुश्चरितात्पापाचरणात् । आभज माम् आसेवस्व मां सुचरिते वर्तमानम् । उत्तिष्ठति । उदस्थाम् उत्तिष्ठामि आयुषा निमित्तभूतेन चिरंजीवनाय स्वायुषा निमित्तभूतेन शोभनेन प्रकारेण दानहोमयागादिभिः । येनास्मदीयमायुर्यात्यनेन च हेतुना उदस्थाम् उत्तिष्ठामि च । अमृतान् देवाननु अतः परिमाग्ने दुश्चरिताद्बाधस्वेति संबन्धः । अमृतशब्देनात्र बहुवचनान्तेन सोमोऽभिधीयते । आगते सोमे दीक्षित उत्तिष्ठति । तस्यैषा प्रायश्चित्तिः ॥ २८ ॥
म० 'गृहीतसोमं परि माग्न इति वाचयतीति' ( का० ७ । ९ । १) । अग्निदेवत्या पुरस्ताद्बृहती । यस्या आद्यो द्वादशाक्षरस्त्रयोऽष्टाक्षराः पादाः सा पुरस्ताद्बृहती । 'आद्यश्चेत्पुरस्ताद्बृहती' इत्युक्तेः । हे अग्ने, दुश्चरितात्पापान्मा मां परिबाधस्व परितो निवारय । मे पापे प्रवृत्तिर्मा भूदित्यर्थः ।| सुचरिते शोभने चरिते सदाचाररूपे पुण्ये मा मां यजमानमाभज सर्वतो भज स्थापयेत्यर्थः (का० ७।९।३)। उदायुषेत्युत्थानमिति । उदायुषा उत्कृष्टेन चिरजीवनलक्षणेनायुषा निमित्तेन तथा स्वायुषा यागदानादिना शोभनेनायुषा निमित्तभूतेन अमृताननु सोमादिदेवाननुसृत्य उदस्थामहमुत्थितवानस्मि । तिष्ठतेर्लुङि रूपम् ॥ २८ ॥

एकोनविंशी। ।
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ।। २९ ।।
उ० अनोऽभ्येति प्रति पन्थाम् । अनुष्टुप् । पन्थानं स्तौति । प्रत्यपद्महि प्रतिपद्येमहि पन्थानम् । स्वस्तिगाम् - अविनाशेन यत्र गम्यते तं स्वस्तिगाम् । अनेहसम् । एह इत्यपराधनाम । न विद्यते यत्र गतानामपराधः स तथोक्तः । किंच । येन पथा गच्छन् विश्वाः सर्वाः परिवृणक्ति परिवर्जयति । 'वृजी वर्जने' । द्विषः दुष्टान् । किंच विन्दते वसु लभते धनम् ॥ २९॥ ।
म० 'शीर्ष्णि सोमं कृत्वा पाणिमन्तर्धाय प्रतिपन्थामित्यनोऽभ्येतीति' (का० ७ । ९ । ४) । शकटमभिलक्ष्य गच्छेदित्यर्थः । अनुष्टुप्पथिदेवत्या । पन्थानं स्तौति । पन्थां पन्थानं मार्गं प्रत्यपद्महि वयं प्रत्यपद्यामहि प्रतिपन्नाः । प्राप्ता अभूमेत्यर्थः । ‘पद गतौ' इत्यस्य व्यत्ययेन शपि लुप्ते लङि रूपम् । विभक्तेः पूर्वसवर्ण पन्थामिति रूपम् । किंभूतं पन्थानम् । स्वस्तिगां स्वस्ति क्षेमेण गम्यते यत्र स स्वस्तिगास्तं क्षेमेण गन्तुं योग्यम् । गमेर्विटि प्रत्यये 'विड्वनोरनुनासिकस्यात्' (पा० ६ । ४ । ४१) इति मकारस्याकारे रूपम् । | तथा अनेहसम् एहः पापरूपश्चोरादिबाधस्तद्रहितम् । यद्वा 'एह इत्यपराधनाम । यत्र गतानामपराधो नास्ति । येन पथा गच्छन्पुरुषो विश्वाः विश्वान्सर्वान् द्विषो द्वेषिणश्चोरादीन् परिवृणक्ति परितो वर्जयति । 'वृजी वर्जने' रुधादिः । वसु विन्दते धनं च लभते तं पन्थानमिति पूर्वत्रान्वयः । 'विद्लृ लाभे' ॥ २९ ॥

त्रिंशी।
अदि॑त्या॒स्त्वग॑स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।। ३० ।।
उ० कृष्णाजिनमास्तृणाति । अदित्यास्त्वगसि । व्याख्यातः शेषः । सोमं निदधाति । अदित्यै सदः स्थानमासीत् । सोममालभ्य वाचयति । अस्तभ्नाद्द्याम् त्रिष्टुभौ वारुण्यौ । योऽयं वृषभः वर्षिता अस्तभ्नाद्द्याम् स्तम्भित