पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

हिरण्यानि वर्तन्ते । अजामालभ्य वाचयति । तपसस्तनूरसि तपसः प्रजापतेः हे अजे, तनूः शरीरं त्वमसि । प्रजापतेश्च वर्णः रूपं त्वमसि । सा यन्त्रिः संवत्सरस्य विजायते तेन प्रजापतेर्वर्णः । एवमजां सोमसमक्षमभिष्टुत्य अथेदानीं सोममाह । परमेण पशुना क्रीयसे त्वं हे सोम, सा यतस्त्रिः संवत्सरस्य विजायते तेन परमपशुः । यस्मात्त्वं परमेणोत्कृष्टेन पशुना क्रीयसे तस्मात्तव प्रसादादहम् सहस्रपोषं सहस्रं प्राणिनां यत्पुष्णाति धनं तदहं पुषेयं वर्धयेयम् । सहस्रप्राणिपोषो मम गृहे वर्धमानोस्तु इत्यभिप्रायः ॥ २६ ॥
म० 'शुक्रं त्वेति हिरण्यमालभ्य वाचयतीति' (का० ७।८।१६ ) हे सोम, शुक्रं दीप्यमानं त्वा त्वां शुक्रेण दीप्यमानेन हिरण्येन क्रीणामि क्रीतं करोमि । किंभूतं त्वाम् । चन्द्रं 'चदि आह्लादने' फलहेतुत्वेनाह्लादकरम् । तथा अमृतं स्वादुत्वेनामृतसमानम् । किंभूतेन शुक्रेण । चन्द्रेणाह्लादकरेण तथामृतेनाग्निसंयोगादिनापि विनाशरहितेन । 'सग्मे त इति सोमविक्रयिणᳪ हिरण्येनाभिकम्पयतीति' । (का० ७।८।१७) । यो हिरण्यमादाय सोमं विक्रीणीते तं हिरण्येनाभिकम्पयेत् । तद्धस्ते हिरण्यं दत्त्वा दत्त्वा स्वीकुर्वस्तं निराशं कुर्यादिति सूत्रार्थः । षष्ठी प्रथमार्थे । हे सोमविक्रयिन् , गौः सोममूल्यत्वेन तुभ्यं दत्ता सा त्वदीया गौः पुनः प्रत्यावृत्य सग्मे यजमाने तिष्ठतु । हिरण्यमेव तवास्तु गौर्मा भूदित्यर्थः । यद्वा ते गौः सग्मे वर्तते । गौः ग्मा क्षमा क्षा क्षामेत्युक्तेः ग्मा गौः तया सह वर्तमानः सग्मस्तस्मिन् सग्मे ते गोरिति । 'यजमाने ते गौः' (३ । ३ । ३ । ७) इति श्रुतेः । सग्मो यजमानः । 'अस्मे त इति यजमानसहितं निदधातीति' (का. ७।८।१८) । यजमाने प्रत्यर्पितं यद्गोद्रव्यं तत्पुनर्यजमानसहितं सोमविक्रयिणः पुरतो निदध्यादिति सूत्रार्थः । हे सोमविक्रयिन् , ते चन्द्राणि तुभ्यं दत्तानि यानि हिरण्यानि तान्यस्मे अस्मासु प्रत्यावृत्य तिष्ठन्तु । तव गौरेव सोममूल्यमस्तु हिरण्यानि मा भूवन्नित्यर्थः । 'अजां प्रत्यङ्मुखीमालभ्य वाचयति तपसस्तनूरितीति' (का. ७ । ८ । २०) । अर्धे अजा देवतास्य यजुषोऽर्धे सोमः । हे अजे, त्वं तपसः पुण्यस्य तनूरसि देहोऽसि । दिवि स्थितस्य यज्ञियस्यानयनायाजां गृहीत्वा गायत्री जगामेति तित्तिरिणा सोमाहरणोपाख्याने उक्तत्वादजायाः पुण्यशरीरत्वम् । किंच हे अजे, त्वं प्रजापतेर्वर्णोऽसि । वर्णों देहः । यथा प्रजापतिः सर्वदेवताप्रिय एवमजापि । तदुक्तं तित्तिरिणा 'सा वा एषा सर्वदेवत्या यदजा' इति । एवमजामुक्त्वा सोमं प्रत्याह । हे सोम, परमेण पशुना उत्तमेनाजालक्षणेनानेन पशुना त्वं क्रीयसे । तपसस्तनूत्वादजाया उत्तमत्वम् । अतस्तव प्रसादात्सहस्रपोषं पुत्रपश्वादिसहस्राणां पोषो यथा भवति तथा पुषेयं पुष्टो भूयासम् । यद्वायमर्थः । हे अजे, त्वं प्रजापतेस्तपसस्तनूरसि प्रजापतितपोरूपासि तत उत्पन्नत्वात् । तदुक्तं श्रुत्या 'तपसो ह वा एषा प्रजापतेः संभूता यदजेतिः (३ । ३ । ३ । ८) । किंच प्रजापतेर्वर्णो रूपं त्वमसि । त्रिगुणत्वात्प्रजापतेस्त्रिरूपत्वम् । अजापि प्रतिसंवत्सरं त्रिवारं प्रसूते तस्मात्प्रजापतेर्वर्णत्वम् । तदुक्तं श्रुत्या 'सा यत्त्रि' संवत्सरस्य जायते तेन प्रजापतेर्वर्णः' ( ३ । ३ । ३ । ९) इति । एवमजां स्तुत्वा सोममाह । परमेणोत्कृष्टेन पशुनाजया त्वं क्रीयसे ततोऽहं सहस्रपोषं सहस्रं प्राणिनां पुष्णातीति सहस्रपोषं धनं पुषेयं पुष्णीयाम् । वर्धयेयमित्यर्थः । पुष्णातेर्व्यत्ययेन शेप्रत्यये लिङि पुषेयमिति रूपम् ॥ २६ ॥

सप्तविंशी।
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ।। २७ ।।
उ० सोममादत्ते । मित्रो न एहि । हे सोम, मित्रस्त्वं सन्नोऽस्मानप्येहि । मित्रशब्देनेहादित्यो गृह्यते पुंलिङ्गार्थात् । सुमित्रधः शोभनानि मित्राणि दधाति पुष्णातीति सुमित्रधः । यस्त्वं सुमित्रधः । यजमानस्य दक्षिण ऊरौ निदधाति इन्द्रस्योरुम् । स इन्द्रस्य यजमानस्य ऊरुं दक्षिणं आविश उपविश । 'एष वा अत्रेन्द्रो भवति यद्यजमानः' इति श्रुतिः । उशन्नुशन्तम् । 'वश कान्तौ' । कामयमानस्त्वं कामयमानमेव यजमानस्योरुमाविश इत्यनुवर्तते । स्योनः स्योनम् । स्योनमिति सुखनाम । सुखरूपस्तं सुखरूपम् । यजमानस्योरुमाविश इत्यनुवर्तते । एवं परस्परप्रीत्या अवियुक्तौ भवेतामित्यभिप्रायः । सोमक्रयणाननुदिशति । स्वान भ्राज । सप्तदशानां मध्यात्सप्त तावत्सोमक्रयणाननुदिशति । हे स्वान, भ्राज अङ्घारे बम्भारे हस्त सुहस्त कृशानो । एवं सप्तधिष्णान् संबोध्य अथेतरानाह । एते वः सोमक्रयणाः । एते वः युष्माकं मध्ये तावत् सोमक्रयणाः तान्रक्षध्वम् गोपायत । धिष्ण्यान् मा वो दभन् एते होतृका अपि स्वानभ्राजादयः युष्मान् मा दभन् । दभ्नोतिर्हिंसाकर्मा । मा युष्मान्दभ्नुयुः ॥ २७ ॥
म० 'सव्येनाजां प्रयच्छन्मित्रो न इति दक्षिणेन सोममादायेति' ( का० ७ । ८ । २१)। सौम्यम् । हे सोम, त्वं नोऽस्मान् प्रत्येहि आगच्छ । किंभूतस्त्वम् । मित्रः सखा, प्रीतियुतः । यद्वा मित्रः रविरूपः । तथा सुमित्रधः शोभनानि मित्राणि दधाति पुष्यतीति सुमित्रधः । क्रीत्वा वाससा बद्धस्य सोमस्य वरुणदेवताकत्वेन क्रूरत्वात्तच्छान्त्यर्थो मित्रत्वेन प्रार्थ्यते । तदाह तित्तिरिः 'वारुणो वै क्रीतः सोम उपनद्धो मित्रो न एहि सुमित्रध इत्याह शान्त्यै' इति । 'दीक्षितोरौ दक्षिणे प्रत्युह्य वासो निदधातीन्द्रस्योरुमितीति'