पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रयस्त्रिंशी।
उस्रा॒वेतं॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ।। ३३ ।।
उ० अनड्वाहौ युनक्ति । उस्रावेतम् । ऊर्ध्वबृहती। हे उस्रौ अनड्वाहौ आ इतम् आगच्छतम् । एत्य च स्वयमेव युज्येथाम् योगं कुरुतम् । हे धूर्षाहौ । 'षह मर्षणे' । धुरं सोढुं यौ शक्नुतस्तौ तथोक्तौ । अनश्रू अश्रुरहितौ हृष्टावित्यर्थः । अवीरहणौ । वीराणां यौ युवां वधं न कुरुतं ताववीरहणौ । प्रशस्तावित्यर्थः । ब्रह्मचोदनौ ब्राह्मणान् यज्ञं प्रति प्रेरयितारौ । एवमनड्वाहौ संबोध्य अथेदानीं प्रयोजनमाह । स्वस्ति अविनाशेन यजमानस्य गृहान् गच्छतम् ॥३३॥
म० 'अनड्वाहौ युनक्त्युस्रावेतमितीति' (का० ७ । ९ । ११)। आनडुही ऊर्ध्वबृहती । यस्यास्त्रयः पादा द्वादशाक्षराः सोर्ध्वबृहती । 'त्रिजागतोर्ध्वबृहती' इत्युक्तेः । अत्राद्यो दशार्णः द्वितीयस्त्रयोदशार्णस्तेनैकोना । हे उस्रौ अनड्वाहौ, युवामेतमागतम् । एत्य च स्वयमेव युज्येथां रथे युक्तौ भवतम् । किंभूतौ युवाम् । धूर्षाहौ धुरं सहेते तौ धूर्षाहौ शकटधुरं वोढुं समर्थौ । तथा अनश्रू नेत्रयोरश्रुरहितौ । सोत्साहावित्यर्थः । अवीरहणौ न वीरान्हतस्तौ । शृङ्गादिभिर्वीराणां शिशूनां हननमकुर्वाणौ । ब्रह्मचोदनौ ब्रह्मणो विप्रान् चोदयतस्तौ ब्राह्मणानां यज्ञप्रति प्रेरकों । एवं संबोध्य प्रयोजनमाह । तथाविधौ युवां स्वस्ति क्षेमेण यजमानस्य गृहान्प्रति गच्छतम् ॥ ३३ ॥

चतुस्त्रिंशी।
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सᳪस्कृ॒तम् ।। ३४ ।।
उ० वाचयति । भद्रो मेऽसि । 'भदि कल्याणे सुखे च' । सोम उच्यते । भन्दनीयः स्तुत्यः यतस्त्वं मे मम भवसि अतो ब्रवीमि । प्रच्यवस्व । 'च्युङ् छुङ् जिङ् किङ् प्रुङ् कुच् सैङ् गाङ् गतौ' । गच्छ । भुवस्पते भूतजातस्य पते । विश्वान्यभिधामानि सर्वाणि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि । किंच त्वां प्रच्यवमानं माविदन् मा जानन्तु । परिपरिणः परिणेतारो दुर्जनाः । मा च त्वां परिपन्थिनः सर्वतः पन्थानं ये तिष्ठन्ति ते विदन् । मा च त्वां वृका अघायवो विदन् । वृका विकर्तनशीलाः । अघायवः अघं पापं ये परस्य कर्तुमिच्छन्ति ते अघायवः ।। एते च त्वां गच्छन्तं मा जानन्तु । किंच त्वमपि श्येनो भूत्वा परापत श्येनरूपमवस्थायोत्पत । ततो यजमानस्य गृहान् गच्छ । तत् नौ आवयोः तव च मम च संस्कृतं सर्वोपकरणयुक्तं स्थानं विद्यते ॥ ३४ ॥
म० 'भद्रो म इति वाचयतीति' ( का० ७ । ९ । १९)। सौम्यं यजुः । हे सोम, मे मह्यं यजमानाय मदुपकारार्थं त्वं भद्रोऽसि कल्याणरूपोऽसि । 'भदि कल्याणे' । हे भुवः पते, भूशब्देन भूमौ स्थितानि भूतानि यजमानाध्वर्युप्रभृतीन्युच्यन्ते । तेषां भूतानां पालकत्वात्पतिः सोमः । तदाह तित्तिरिः 'प्रच्यवस्व भुवस्पत इत्याह भूतानाᳪ ह्येष पतिः' इति । तथाविध हे सोम, विश्वानि सर्वाणि धामान्यभि स्थानानि पत्नीशालाहविर्धानप्रभृतीनि अभिलक्ष्य प्रच्यवस्व प्रकर्षेण गच्छ । 'च्युङ् गतौ' । प्रच्यवमानं त्वा त्वां परिपरिणो मा विदन् मा जानन्तु । सर्वतः संचरन्तस्तस्करविशेषाः परिपरिण उच्यन्ते । तथा परिपन्थिनो यागस्य प्रतिषेधकाः शत्रवस्त्वां मा विदन् । 'छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि' (पा० ५।२। ८९) इति निपातावेतौ । तथा वृका विकर्तनशीला आरण्यश्वानो दुर्जना वा त्वां मा विदन् । किंभूता वृकाः । अघायवः परस्याघं कर्तुमिच्छन्ति ते अघायवः । 'सुप आत्मनः क्यच्' (पा० ३।१।८) इति क्यचि 'अश्वाघस्यात्' (पा० ७ । ४ । ३७) इत्याकारः । 'क्याच्छन्दसि' (पा० ३ । २ । १७०) इति क्यजन्तादुप्रत्ययः । किंच श्येनो भूत्वा श्येनरूपमास्थाय श्येनाख्यपक्षिवच्छीघ्रगामी वा भूत्वा परापत उत्पत । यजमानस्य गृहान् गच्छ । तत्तत्र यजमानगृहेषु नौ आवयोः तव मम च संस्कृतं सर्वोपकरणसंयुक्तं स्थानमस्तीति शेषः ॥ ३४ ॥

पञ्चत्रिंशी।
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳪ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳪसत ।। ३५ ।।
उ०. वाचयति । नमो मित्रस्य । सौरी जगती । ऋषिर्दृष्टार्थः । परब्रह्मरूपेणादित्यमवगम्य स्वं नमस्कारं कृत्वान्येषां कथयति । नमः सूर्याय । कथंभूताय । मित्रस्य वरुणस्य चक्षसे । मित्र आदित्यो वरुणश्च । उपलक्षणार्थं चैतत् । सर्वद्यावापृथिवीनिवासिलोकग्रहणार्थं वा तथैव श्रुतिः 'अयं वै लोको मित्रोऽसौ वरुणः' इति । चक्षसे द्रष्ट्रे ईश्वररूपेणाध्यक्षाय । महो देवाय तदृतᳪ सपर्यत । महते देवाय तत्सत्यं पूजयत हे ब्राह्मणाः । सपर्यतीत्यर्चाकर्मसु पठितम् । किंच दूरदृशे दूरेस्थितो दृश्यत इति दूरेदृक् । यद्वा अतीतानागतवर्तमानकालसंबन्धान् प्राणिनो दूरेऽवस्थितान्पश्यतीति दूरेदृक् । देवजाताय देवानुग्रहार्थं जातो