पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अङ्गकर्म द्विधा संनिपत्योपकारकरूपमारादुपकारकरूपं च । तत्र प्रोक्षणादि संनिपत्योपकारकरूपं
प्रयाजाद्यारादुपकारकरूपम् । संनिपत्योपकारकारीणि दृष्टार्थानि कर्माणि स्वकारकाणां वह्न्यादीनामुत्पत्तिं
प्राप्तिं विकृतिं संस्कारं कुर्वन्ति सन्ति साध्यस्य प्रधानस्योपकुर्वन्ति । यथा-'वसन्ते ब्राह्मणोऽग्नीनादधीत',
'यूपं तक्षति' इत्यादावाधान-तक्षणादिना संस्कारविशेषविशिष्टाग्नि-यूपादेरुत्पत्तिः । 'स्वाध्यायोऽ-
ध्येतव्यः', 'गां पयो दोग्धि' इत्यादावध्ययन-दोहनादिना विद्यमानस्यैव स्वाध्याय-पयःप्रभृतेः प्राप्तिः ।
'सोममभिषुणोति', 'व्रीहीनवहन्ति', 'आज्यं विलापयति' इत्यादावभिषवा-ऽवघात-विलापनैः सोमादीनां
विकारः । 'व्रीहीन्प्रोक्षति', 'पत्न्यवेक्षते' इत्यादौ प्रोक्षणा-ऽवेक्षणादिभिर्व्रीह्यादिद्रव्याणां संस्कार इति ।
तदेवमुत्पत्त्यादिसाध्यभेदाच्चतुर्विधं कर्म कर्मादीनामन्यतमे कारके यथायथमुत्पत्त्यादीनि करोति । कर्मण्येव
व्रतादि, कर्तरि व्रतं, करणे प्रयाजशेषाभिघारणं, संप्रदाने पशुपुरोडाशयागः, अपादाने अग्नेस्तृणान्यप-
चिनोतीति, अधिकरणे दध्यानयनम् । आरादुपकारकं कारकद्वारकं प्रधानस्योपकरोतीत्युभयार्थः पशु-
पुरोडाशयागः । सोऽपि त्यागांशेनादृष्टमुद्देशांशेन च दृष्टं देवतास्मरणं करोतीत्युभयार्थः । ननु ‘एकं वा
चेदनेकत्वात्' इति न्यायेन विध्युपपत्तेः प्रयोजनद्वयमनुपपन्नमितिचेत् दृष्टार्थत्वादिप्रयोजनापेक्षायां स्मरणं
प्रथमं स्वीक्रियते । स्वीकृते च तस्मिन् त्यागांशस्य तत्र प्रयोजनमपश्यतः पुनरपेक्षा जायते । साचादृष्टकल्पनेन निवर्तते तेनैवंजातीयकमुभयोर्लिङ्गमुभयोपकारतामावहति । संपूर्णाङ्गसंयुक्तो विधिः प्रकृतिः । विकलाङ्गयुक्तश्च विकृतिः। तदुभयविलक्षणो विधिर्दर्वीहोमादिः, एवमन्यदप्यूह्यम् । आस्तां दुरवगाहविषयावगाहनोल्लेखपल्लवितेनेति विरम्यते ।
श्रीमच्छुक्लयजुर्वेदसंहितेयं पुण्यपत्तनगतडेक्कनकालेजाख्याङ्ग्लविद्यालयसंगृहीतग्रन्थवर्तिहस्ताक्षरप्राचीन-
द्वित्रपुस्तकानां, तथा श्रीक्षेत्रनासिकवास्तव्यविद्वद्वर वे. शा. सं. आण्णाशास्त्रीवारे इत्येतैर्दत्तस्य कलिकाता-
वाराणसीमुद्रितानां च सहायेन विहितशोधनाभ्यां उवटभाष्य-महीधरभाष्याभ्यां सनाथीकृत्याधुनाङ्कितास्ति
जिज्ञासूनामेकत्र भाष्यद्वयलाभाय । यद्यप्यस्याध्ययनाध्यापनपारायणादावैतदीयप्रातिशाख्य-याज्ञवल्क्य-
शिक्षा-प्रतिज्ञासूत्रादिनिर्दिष्टप्रकारेण तत्रतत्र परसवर्णपूर्वस्वरगुरुत्वद्वित्वोच्चारणानुकूलो वर्णविन्यासोऽपेक्षित-
स्तथापि 'योऽर्थज्ञ इत्सकलं भद्रमश्नुते' इत्यादिप्रामाण्यादर्थज्ञानस्यापि पाठादिसदृक्षफलवत्त्वेनावश्यादरणी-
यत्वात्तत्र पाठक्रमानुगुणवर्णविन्यासेन चेतरेतरवर्णपदसापेक्षशृङ्खलावत्त्वेनातीव दुरूहता स्यात्तद्वारणायाञ्जसा
विशदपदस्वरूपप्रतिपत्तिद्वाराऽर्थावगमसौकर्याय च प्रतिज्ञासूत्रद्वितीयकण्डिकान्ते "-ऽसंयुक्तस्य टुमृते
संयुक्तस्य च खकारोच्चारणमध्ययनादिककर्मस्वर्थवेलायां प्रकृत्या" इत्यनुशासनमनुसृत्यार्थज्ञानानौपयिक-
द्वित्वपरसवर्णादिपरिहारेण वर्णविन्यास आदृतोऽस्ति । तथा प्रमाणभूतपरिशिष्टानामखिलमन्त्रकोशस्य चान्ते
कृतोऽस्ति समावेशः यत्क्रमकोशसाहाय्येनेप्सितमन्त्रस्य द्रुतमुपलब्धिः स्यात् ।
एतादृशानल्पपरिश्रमेण विहितेऽपि संस्करणेऽस्मादृशाल्पप्रज्ञमानुषशेमुषीसुलभत्वेन जनिमन्ति स्खलितानि
सुविमृश्य प्रबोधयन्तु विपश्चिद्वरा येन कृतज्ञताप्रकाशनपुरःसरं यतेयाग्रिमसंस्करणेऽस्या विशेषनिर्दोषता-
संपादनाय । क्षन्तारश्च परपरिश्रमज्ञा गुणैकपक्षपातिनो दूषणवाचंयमाः सुधियोऽस्मद्दृगादिदोषोपनता
अशुद्धीरिति भूयोभूयः सप्रश्रयं साञ्जलिबन्धं च विज्ञापयति---
विद्वद्वशंवदः
पणशीकरोपाह्वो वासुदेवशर्मा ।