पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति


सूत उवाच-एवं स्तुतः स भगवान्वाजिरूपधरो हरिः । यजूंष्ययातयामानि मुनयेऽदात्प्रसादितः ॥ ७३
यजुर्भिरकरोच्छाखा दशपञ्चशतैर्विभुः । जगृहुर्वाजसन्यस्ताः काण्वमध्यन्दिनादयः ॥ ७४ ॥
इति शुक्लयजुर्वेदमाध्यन्दिनवाजसनेयशाखाविचारसंक्षेपः ।
त्रयीशब्दितानामृग्यजुःसाम्नां लक्षणान्युच्यन्ते-पादबद्धगायत्र्यादिच्छन्दोविशिष्टा 'अग्निमीळे पुरोहितं'
इत्याद्या ऋचः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि 'अग्नीदग्नीन्विहर'
इत्यादिसंबोधनरूपाणि । निगदमन्त्रा अपि यजुरन्तर्भूता एव । तदेवं त्रय्या मन्त्रविभागः । उपक्रान्तयजुः-
संहितायां चरमश्चत्वारिंशोऽध्यायो ब्रह्मप्रतिपादकः । शेषा मूलादारभ्यैकोनचत्वारिंशदध्यायास्तु धर्मापर-
पर्यायविविधयज्ञकाण्डनिरूपणमिति यज्ञजाततदङ्गोपाङ्गनिरूपणपरा सपरिकरा कर्ममीमांसोपस्थिता भवति ।
कर्ममीमांसाच 'अथातो धर्मजिज्ञासा' इत्यारभ्य 'अन्वाहार्ये च दर्शनात्' इत्यन्ता द्वादशाध्यायी
सुगृहीतनामधेयेन भगवता श्रीजैमिनिमहर्षिणा प्रणीता वरीवर्ति । तत्र प्रथमेऽध्याये धर्मप्रमाणम् १, द्वितीये
धर्मभेदाभेदौ २, तृतीये शेषशेषिभावः ३, चतुर्थे क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः ४, पञ्चमे
श्रुत्यर्थपठनादिना क्रमभेद: ५, षष्ठेऽधिकारविशेषः ६, सप्तमे सामान्यातिदेशः ७, अष्टमे विशेषातिदेशः
८, नवमे ऊहः ९, दशमे बाधः १०, एकादशे तन्त्रम् ११, द्वादशे प्रसङ्गः १२, इति क्रमेण
द्वादशाध्यायानां प्रतिपाद्यार्थाः । तथा संकर्मकाण्डमध्यायचतुष्टयात्मकं तेनैव महर्षिवरेण प्रणीतं देवता-
काण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव ।
ब्राह्मणं तु त्रिविधं विधिरूपमर्थवादरूपमुभयविलक्षणं च । तत्र शब्दभावना विधिरिति भाट्टाः, नियोगो
विधिरिति प्राभाकराः, इष्टसाधनता विधिरिति तार्किकादयः । सर्वोऽपि विधिश्चतुर्विधः-उत्पत्त्यधिकार-विनि-
योग-प्रयोगभेदात् । तत्र देवताकर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः 'आग्नेयोऽष्टाकपालो भवती'त्यादिः।
सेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिः 'दर्शपूर्णमासाभ्यां स्वर्गकामो
यजेते'त्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिः 'व्रीहिभिर्यजेत', 'समिधो यजती'त्यादिः । साङ्गप्र-
धानकर्मप्रयोगैक्यबोधकः पूर्वविधित्रयमेलनरूपः प्रयोगविधिः । स च श्रौत इत्येके । काल्प इत्यपरे आहुः ।
अथार्थवादः । प्राशस्त्यनिन्दान्यतरलक्षणया विधिशेषभूतं वाक्यमर्थवादः । सच त्रिविधः गुणवादो-
ऽनुवादो भूतार्थवादश्च । प्रमाणान्तरविरुद्धार्थबोधको गुणवाद: 'आदित्यो यूपः' इत्यादिः । प्रमाणान्तर-
प्राप्तार्थबोधकोऽनुवादः 'अग्निर्हिमस्य भेषजं' इत्यादिः । प्रमाणान्तरविरोधतत्प्राप्तिरहितार्थबोधको भूतार्थ-
वादः 'इन्द्रो वृत्राय वज्रमुदयच्छत्' इत्यादिः । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि
भूतार्थवादस्य स्वतःप्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातार्थज्ञापकत्वं हि प्रामाण्यम् । तच्च
बाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थवादस्य तु स्वार्थे तात्पर्यरहितस्याप्यौत्स
र्गिक प्रामाण्यं न विहन्यत इत्येवमर्थवादः ।
अथाङ्गजातं त्रिविधं दृष्टार्था-ऽदृष्टार्थोभयात्मकभेदात् । यद्दृष्टार्थं जातिगुणकर्मद्रव्यात्मकं तत्र
जातिगुणौ 'पशुना यजेत', 'अरुणया क्रीणाति' इति क्रियासाधनत्वेन विनियुक्तौ तत्साधनद्रव्यपरिच्छेदेन
दृष्टेनैवोपकारेण तस्य शेषभावमनुभवतः । कथं पुनर्द्रव्यपरिच्छेदात्कर्मसाधनत्वमिति चेत् विशिष्टद्रव्यस्य
कर्मसाधनत्वात्तस्य च विशेषणाधीनप्रतिपत्तिकत्वादप्रतिपन्नस्य साधनाभावासंभवात्तत्प्रत्युपात्तयोर्जातिगुणयोस्तद्द्वारेण भवति कर्मसाधनत्वम् । गुणस्य तु साधनत्वं श्रुतं यथोक्तप्रकारेणोपपादयितुं तद्विशिष्टस्य कर्मसाधनत्वं कल्प्यते तदेव जातिगुणयोर्दृष्टार्थत्वम् । द्रव्यस्य तु साक्षादेव कर्मनिर्वृत्तिः । दृष्टमेव प्रयोजनम् ।
१-रविणाऽश्वरूपेण वाजेभ्यः केसरेभ्यो वाजेन वेगेन वा संन्यस्तास्त्यक्ताः शाखा वाजसनीसंज्ञा इति श्रीधरस्वामिनः ।