पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

म० नोऽस्माकं मनः पूर्वोक्तं चित्तं पुनर्भूयः आ एतु आगच्छतु । किमर्थम् । क्रत्वे क्रतवे सङ्कल्पाय यज्ञं सङ्कल्पयितुं दक्षाय कर्मण्युत्साहाय । तथाच श्रुतिः 'तदेव मनसा कामयत इदं मे स्यादिदं कुर्वीयेति स एव ऋतुरथ यदस्मै तत्समृध्यते स दक्षः' इति । ज्योगिति निपातश्चिरवचनः । ज्योग्जीवसे चिरं जीवितुम् । सूर्य दृशे च चिरकालं सूर्यमवलोकयितुं च । एतेषां सङ्कल्पादीनां सिद्धये मनः पुनरागच्छतु । क्रत्वे । गुणाभावाद्यणादेशः । जीवसे तुमर्थे असेप्रत्ययः । दृशे । 'दृशे विख्ये च' (पा० ३ । ४ । ११) इति साधुः ॥ ५४ ॥

पञ्चपञ्चाशी।
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जन॑: । जी॒वं व्रात॑ᳪ सचेमहि ।। ५५ ।।
उ० पुनर्नः पितरः । हे पितरः, पुनरस्माकं मनः ददातु दैव्यो जनः देवसंबन्धी जनः । ततस्तेन देवजनदत्तेन मनसा जीवं जीवनवन्तम् । वातं गणम् पुत्रपश्वादिकम् । सचेमहि । 'ष्वञ्ज परिष्वङ्गे' परिष्वजेमहि ॥ ५५ ॥
म० हे पितरः, भवदनुज्ञया दैव्यो जनो देवसंबन्धी पुरुषः नोऽस्मभ्यं मनः पूर्वोक्तं चित्तं पुनर्भूयो ददातु प्रयच्छतु । प्रेरयत्वित्यर्थः । तथा सत्यनुष्ठानं कृत्वा भवत्प्रसादाज्जीवं जीवनवन्तं व्रातं पुत्रपश्वादिकं गणं वयं सचेमहि सेवेमहि । सचतिः सेवनार्थः ॥ ५५ ॥

षट्पञ्चाशी।
व॒यᳪ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ।। ५६ ।।
उ० वयᳪ सोम । सौमीगायत्री जपे विनियुक्ता । हे सोम, वयं व्रते तव । व्रतमिति कर्मनाम । तव कर्मणि वर्तमानाः मनस्तनूषु शरीरेषु जाग्रत्स्वप्नसुषुप्त्यादिकेषु । बिभ्रतः धारयन्तः प्रजावन्तश्च सचेमहि सेवितव्यानि वस्तूनि ॥ ५६ ॥
म० सोमदेवत्या गायत्री जपे विनियुक्ता । अत्र पितृयज्ञे सोमनामको देवोऽस्ति । सोमाय पितृमते इत्येवं हविषो विहितत्वात् । हे सोम, वयं यजमानाः तव व्रते कर्मणि वर्तमानाः तनूषु भवच्छरीरेषु मनो बिभ्रतः अस्मदीयं चित्तं धारयन्तः त्वत्कारुण्यात् प्रजावन्तः पुत्रपौत्रादिसंपन्नाः सन्तः सचेमहि सेवेमहि सेवितव्यानि वस्तूनीति शेषः । यद्वा 'षच संबन्धे' सर्वदा त्वत्संबद्धा भवेम ॥ ५६ ॥

सप्तपञ्चाशी।
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ।। ५७ ।।
उ० एष ते । रौद्रोयमनुवाकः त्रैयम्बकाः पुरोडाशास्तत्र विनियुक्तः अवदानहोमे । एष ते तव हे रुद्र, भागः । सह स्वस्रा । स्वस्रेति भगिन्युच्यते । सह भगिन्या अम्बिकया तं भागं जुषस्व । स्वाहा सुहुतमस्तु । अतिरिक्तमाखूत्कर उपकिरति । एष ते तव रुद्र भागः । आखुर्मूषिका ते तव पशुः ॥ ५७ ॥
म० द्वे रौद्रे यजुषी विंशत्यक्षरद्वादशाक्षरे । साकमेधगतत्र्यम्बकहविर्विषया मन्त्रा उच्यन्ते । प्रथमस्य यजुषोऽवदानहोमे विनियोगः । तथाच 'एष त इति जुहोतीति' ( का० .. ५। १० । १२)। रोदयति विरोधिनां शतमिति रुद्रः । हे । रुद्र, ते तव स्वस्रा भगिन्या अम्बिकया अम्बिकानाम्न्या 'सह एषोऽस्माभिर्दीयमानः पुरोडाशः भागः भजनीयः स्वीकर्तुं योग्यः । तं तथाविधं पुरोडाशं त्वं जुषस्व सेवस्व । । स्वाहा इदं हविर्दत्तं सुहुतमस्तु । अम्बिकाया रुद्रभगिनीत्वं श्रुत्योक्तम् । 'अम्बिका ह वै नामास्य स्वसा तयास्यैष सह भागः' (२। ६ । २।९) इति । योऽयं रुद्राख्यः क्रूरो देवस्तस्य विरोधिनं हन्तुमिच्छा भवति तदानया भगिन्या क्रूरदेवतया साधनभूतया तं हिनस्ति । सा चाम्बिका शरद्रूपं प्राप्य जरादिकमुत्पाद्य तं विरोधिनं हन्ति । रुद्राम्बिकयोरुग्रत्वमनेन हविषा शान्तं भवति । तथाच तित्तिरिः । 'एष ते रुद्र भागः सह स्वस्राम्बिकयेत्याह शरद्वा अस्याम्बिका सा भिया एषा हिनस्ति यᳪ हिनस्ति तयैवैनᳪ सह शमयति' । ‘अतिरिक्तमाखूत्कर उपकिरत्येष त इतीति' (का० ५। १० । १३ ) इति । यजमानस्य यावन्तः पुत्रभृत्यादयः पुरुषाः सन्ति तान् गणयित्वा प्रतिपुरुषमेकैकः पुरोडाश इत्येतावतः पुरोडाशान्निरूप्य ततोऽप्यधिकमेकं पुरोडाशं निर्वपेत् सोऽयमतिरिक्त उच्यते । 'त्रैयम्बकान्निर्वपति रौद्रानेककपालान्यावन्तो यजमानगृह्या एकाधिकान्' (५।१०।१।२) इति कात्यायनोक्तेः । तत्र योऽयमतिरिक्तस्तं न जुहुयात् किंतु मूषकोत्खाते एष त इति मन्त्रेणोपकिरेत् । अथ मन्त्रार्थः । हे रुद्र, एषोऽस्माभिरुपकीर्यमाणोऽतिरिक्तः पुरोडाशः ते भागः त्वया भजनीयः । तथा ते तवाखुः पशुः मूषकः पशुत्वेन समर्पितः । आखुदानेन तुष्टो रुद्रस्तयाम्बिकया यजमानपशून्न मारयतीत्यर्थः ॥ ५७ ॥

अष्टपञ्चाशी।
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒: श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त् ।। ५८ ।।