पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अपूर्वया मत्या स्तुवन्तीत्यनुवर्तते । एवं पितॄनुपलभ्याथेन्द्रमाह । योजा । नु क्षिप्रनाम । योजयामि क्षिप्रम् । हे इन्द्र, ते तव हरी हरितवर्णावश्वौ स्वभूतौ । तवापि गमनकालः प्राप्तः ॥५१॥
म० ऐन्द्रीभ्यां पङ्क्तिभ्यां साकमेधगतपितृयज्ञाख्यकर्मणि आहवनीयोपस्थानम् । यस्या अष्टाक्षराः पञ्च पादाः सा पङ्क्तिः । 'यज्ञोपवीतिनः सर्वे निष्क्रम्योदञ्चोऽक्षन्नमीमदन्तेत्याहवनीयमुपतिष्ठन्ते द्वाभ्यामिति' (का० ५।९।२१)। पितृयज्ञाख्ये कर्मणि ये पितरः सन्ति तेऽस्माभिर्दत्तं हविःस्वरूपमन्नमक्षन् भक्षितवन्तः । कथमेतदवगम्यते । हि यस्मात् । अमीमदन्त हर्षं प्राप्ताः । अस्मदीयां भक्तिमवगम्य प्रियाः प्रीतियुक्ताः सन्तः अधूषत स्वकीयं शिरः कम्पितवन्तः । यद्वा प्रियास्तनूरवाधूषत । किंच स्वभानवः स्वयं दीप्तियुक्ताः विप्राः मेधाविनः सन्तः नविष्ठया नवतमया मती मत्या बुद्ध्या युक्ताः अस्तोषत स्तुतिं कृतवन्तः । अहो स्वाद्वन्नं बहु दत्तमहो भक्तिरित्याद्यभिधानं स्तुतिः । अतो हे इन्द्र, नु क्षिप्रं ते तव हरी एतन्नामकौ हरितवर्णावश्वौ योज गमनाय रथे योजय । तवाभीष्टायाः पितृतृप्तेः संपन्नत्वात्तैः पितृभिः सह त्वया आगन्तव्यमित्यर्थः । अक्षन् । अदेर्लुङि 'लुड्सनोर्घस्लृ' (पा० २ । ४ । ३७) इति घस्लादेशः । 'मन्त्रे घस-' (पा० २।४ । ८०) इत्यादिना च्लेर्लुक् । 'गमहन-' (पा० ६।९। ६८) इत्युपधालोपः । 'खरि च' (पा० ८।४ । ५५) इति चर्त्वम् । 'शासिवसि-' (पा० ८।३।६०) इति षत्वम् । अडागमः । अमीमदन्त 'मद तृप्तियोगे' चुरादिरात्मनेपदी लुङि णिलोपादौ रूपम् । अधूषत 'धूञ् कम्पने' लुङि सिचि व्यत्ययेन गुणाभावः । मती 'सुपां सुलुक्' (पा. ७।१।३९) इति तृतीयायाः पूर्वसवर्णदीर्घः । योज 'युजिर् योगे' ण्यन्ताल्लोटि 'छन्दस्युभयथा' (पा० ३।४ । ११७) इति शप आर्धधातुकत्वात् 'णेरनिटि' (पा० ६ । ४ । ५१) इति णिलोपः । 'द्व्यचोऽतस्तिङः' (पा० ६।३ । १३५) इति संहितायां दीर्घः ॥ ५१ ॥

द्विपञ्चाशी।
सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।
प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ अनु॒ योजा॒ न्वि॒न्द्र ते॒ हरी॑ ।। ५२ ।।
उ० सुसंदृशं शोभनदर्शनम् । त्वा त्वम् वयम् हे मघवन् धनवन् , वन्दिषीमहि । 'वदि अभिवादनस्तुत्योः' । अभिवादयामः । अभिवादनमाह । प्र नूनं पूर्णबन्धुरस्तुतो यासि । प्रयासि नूनं निश्चयेन । पूर्णरथनीडः सन् । बन्धुरशब्दो रथनीडवचनः । स्तुतश्च स्तोतृभिः । वशान् अनु । 'वश कान्तौ' । कामाननुप्रयासि । यत एवमतो योजयामि क्षिप्रम् । इन्द्र ते हरी ॥ ५२ ॥
म० हे मघवन् , वयं त्वा त्वां वन्दिषीमहि स्तुतिकर्तारो भूयास्मेत्याशास्यते । किंभूतं त्वाम् । सुसंदृशं सुष्ठु सम्यक् पश्यति सुसंदृक् तं शोभनदर्शनम् । अनुग्रहदृष्ट्या सर्वस्य द्रष्टारम् । इत्थमस्माभिः स्तुतः त्वं वशान् कामयमानान् यजमानाननुलक्षीकृत्य नूनं प्रयासि अवश्यं गच्छसि । किंभूतः । पूर्णबन्धुरः । बन्धुरशब्दो रथनीडवाची । स्तोतृभ्यो देयैर्धनैः संपूर्णरथनीडोपेतो भूला गच्छसि । हे इन्द्र, स त्वं ते हरी योजेति पूर्ववत् ॥५२॥

त्रिपञ्चाशी।
मनो॒ न्वाह्वा॑महे नाराश॒ᳪसेन॒ स्तोमे॑न । पि॑तॄ॒णां च॒ मन्म॑भिः ।। ५३ ।।
उ० गार्हपत्यमुपतिष्ठते । मनोन्वाह्वामहे इति तिसृभिर्गायत्रीभिर्मनोदेवत्याभिः । मनः नु क्षिप्रम् आह्वामहे आह्वयामः । पितृयज्ञचरणेन पितृलोकमिव मनोगतमासीदत आहूयते । केनाह्वयामः । नाराशᳪसेन स्तोमेन येन नराः प्रशस्यन्ते दीर्घायुषः पुत्रवन्तो धनवन्तो भूयासुरित्यादिभिर्गुणैः स नाराशᳪसः स्तोमः स्तुतिः। पितॄणां च मन्मभिः मननीयैः स्तोमैर्मन आह्वयाम इत्यर्थः ॥ ५३ ॥
म० तिस्र ऋचो मनोदेवत्या गायत्र्यो बन्धुदृष्टाः । 'मनो न्वाह्वामह इति गार्हपत्यं तिसृभिरिति' (का० ५। ९ । २२)। उपतिष्ठन्त इत्यनुवर्तते । नु क्षिप्रं मन आह्वामहे पितृयज्ञानुष्ठानेन चित्तं पितृलोकं गतमिवासीत् अत आहूयते । यद्वा मनः मनोऽभिमानि दैवतमाह्वामहे आह्वयामः । केन साधनेन । स्तोमेन स्तोत्रेण । कथंभूतेन । नाराशंसेन । शंसः प्रशंसनं नराणां मनुष्याणां योग्यः शंसो नराशंसः तत्संबन्धी नाराशंसस्तेन । स्तोत्रं द्विविधं दैवं मानुषं च । यत्र देवाः स्तूयन्ते तद्दैवम् । यत्र च मनुष्याः प्रशस्यन्ते तन्मानुषम् । तथाविधेन स्तोत्रेणेत्युक्तं भवति । किंच पितॄणां च मन्मभिः पितरो यैः स्तोत्रैर्मन्यन्ते ते मन्मानस्तैः तादृशैः स्तोत्रैराह्वयामः ॥ ५३ ॥

चतुःपञ्चाशी।
आ न॑ एतु॒ मन॒: पुन॒: क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे ।। ५४ ।।
उ० आ न एतु । आगच्छतु नोऽस्माकं मनः पुनः । किमर्थम् । क्रत्वे क्रतवे । क्रतुः संकल्पः यज्ञो वा । दक्षाय । दक्षः संकल्पसमृद्धिः उत्साहो वा । स यदेव मनसा कामयते इदं मे स्यादिदं कुर्वीयेति स एव क्रतुरथ यदास्मै तत्समृद्ध्यते स दक्षः' इति श्रुतिः । जीवसे जीवनाय । ज्योक् च सूर्यं दृशे । ज्योक् निपातश्चिरवचनः । चिरं सूर्यं दृशे द्रष्टुम् ॥५४॥