पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'वीणस्थूणव्रणभ्रूण' इत्यादिना नीचैःशब्दोपपदात्क्वणतेः णक्प्रत्ययान्तो निपातः धातोः पुंभाव उपपदस्य निचुम्भावश्च निपातितः । तथाविधावभृथ, यद्यपि त्वं निचेरुरसि नितरां चरतीति निचेरुः नितरां गमनशीलोऽसि तथाप्यत्र निचुम्पुणो भव मन्दगमनो भव । किं प्रयोजनमिति चेत् उच्यते । देवैर्द्योतनात्मकैरस्मदीयैरिन्द्रियैर्देवकृतं हविःस्वामिषु देवेषु कृतमेनः पापं यदस्ति तदावयासिषमस्मिन् जलेऽहमवनीतवानस्मि । तथा मर्त्यैः मनुष्यैरस्मत्सहायभूतैर्ऋत्विग्भिर्मर्त्यकृतं मर्त्येषु यज्ञदर्शनार्थमागतेषु कृतमवज्ञारूपं यदेनोऽस्ति तदप्यहमवायासिषमित्यनुवर्तते । इदमस्मत्त्यक्तं पापं यथा त्वां न व्याप्नोति तथा मन्दं गच्छेति भावः । किंच हे देवावभृथाख्य यज्ञ, रिषो वधात् पाहि पालय । रिषतेर्हिंसार्थस्य क्विबन्तस्य पञ्चम्यां रूपम् । किंभूताद्रिषः । पुरुराण्वः । 'रा दाने'। पुरु बहु विरुद्धं फलं ददातीति पुरुरावा तस्मात् । 'आतो मनिन्-' (पा. ३।२ । ७४) इत्यादिना वनिप् । विरुद्धफलदायी वधस्त्वत्प्रसादादस्माकं मा भूदित्यर्थः ॥ ४८ ॥

एकोनपञ्चाशी।
पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज॑ᳪ शतक्रतो ।। ४९ ।।
उ० दर्व्योपहन्ति । पूर्णादर्वि । द्वे ऐन्द्र्यावनुष्टुभौ । हे दर्वि, अस्याः स्थालीतोऽन्नं गृहीत्वा पूर्णा सती परा इन्द्रं प्रति पत गच्छ । ततः कर्मफलेन शोभने पूर्णा पुनरापत पुनरागच्छ । एवं दर्वीमुक्त्वा इन्द्रमाह । वस्नेव विक्रीणावहै । वस्नशब्देन मूल्यमुच्यते । वस्नाइव मूल्येनेव आवामध्वर्युयजमानौ विक्रीणावहै । किं तद्विक्रेयं द्रव्यमित्यत आह । इषमन्नम् । ऊर्जमुपसेचनम् । हे शतक्रतो बहुकर्मन् ॥ ४९॥
म० द्वे ऐन्द्र्यावनुष्टुभौ । साकमेधगतं कर्म किंचिदुच्यते ।। 'स्थाल्याः दर्व्यादत्ते पूर्णा दर्वीति' (का० ५। ६ । ३४)। दर्व्या स्थालीत ओदनग्रहणं करोति प्रथमया । द्वितीयया तं जुहोति । हे दर्वि, अन्नप्रदानसाधनभूते काष्ठादिनिर्मिते, त्वं पूर्णा स्थाल्याः सकाशादन्नं गृहीत्वा पूर्णा भूत्वा परा पूर्णत्वादेवोत्कृष्टा सती पत इन्द्रं प्रति गच्छ । सुपूर्णा कर्मफलेन सुष्ठु पूर्णा सती पुनरापत भूयोऽस्मान्प्रत्यागच्छ । एवं दर्वीमुक्त्वा इन्द्रमाह । हे शतक्रतो बहुकर्मन् इन्द्र, त्वं चाहं चोभौ वस्नेव 'वस्नशब्देन मूल्यं तृतीयायाः पूर्वसवर्णः' । मूल्येनेव । इषमभीष्टं हविःस्वरूपमन्नमूर्जं हविर्दानफलरूपं रसविशेषं च विक्रीणावहै परस्परं द्रव्यविनिमयरूपं विक्रयं करवावहै । अहं तुभ्यं हविर्ददामि त्वं मह्यं फलं देहीत्यर्थः ॥ ४९ ॥

पञ्चाशी।
दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि ते दधे । नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ नि ह॑राणि ते॒ स्वाहा॑ ।। ५० ।।
उ० इन्द्र उच्यते । देहि मे मह्यं प्रथमं तावत् ततो ददामि ते तुभ्यं पश्चात् । नि मे धेहि निधेहि मे मम प्रथमम्। पश्चान्निते दधे निदधे ते तव । निहारं च हरासि मे। नितरां हरणं निहारः । अवश्यकर्तव्यमुच्यते । मूल्यमिति पर्यायः । स हरसि मे मम । अहमपि निहारं निहराणि ते तव । प्रत्यग्रफलतां मन्त्रदृगाशास्ते ॥ ५० ॥
म० देहि म इति जुहोतीति' ( का० ५। ६ । ३८)। इन्द्रो वदति । हे यजमान, त्वं मे मह्यमिन्द्राय देहि हविः प्रथमं प्रयच्छ । ते तुभ्यं यजमानाय ददामि । अपेक्षितं पश्चात्प्रयच्छामि । एवं प्रथमपादोक्त एवार्थो द्वितीयपादेनादरार्थं पुनरुच्यते । मे मह्यमिन्द्राय निधेहि प्रथमं त्वं हविर्नितरां संपादय । ते तुभ्यं यजमानाय निदधे अपेक्षितं फलं नितरां संपादयामि । एवमिन्द्रवाक्यं श्रुत्वोत्तरार्धेन यजमान आह । नितरां ह्रियत इति निहारो मूल्येन क्रेतव्यं पदार्थं ब्रूते । निहारं मूल्येन क्रेतव्यवस्तुरूपं फलं मे मह्यं यजमानाय हरासि प्रयच्छ । 'लेटोऽडाटौ' (पा० ३।४ । ९४) इत्याडागमः । उत्तरो निहारो मूल्यवाची । निहारं मूल्यभूतं हविः ते तुभ्यमिन्द्राय निहराणि नितरां समर्पयामि । स्वाहाशब्दो हविर्दानार्थः । पूर्वार्धे पादद्वयेनादरेणेन्द्रेण द्विवारं प्रोक्तमर्थमुत्तरार्धेन यजमानः सम्यगङ्गीकरोतीत्यर्थः ॥ ५० ॥

एकपञ्चाशी।
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि॒न्द्र ते॒ हरी॑ ।। ५१ ।।
उ० आहवनीयमुपतिष्ठते । अक्षन्नमीमदन्तेति । द्वाभ्यामैन्द्रीभ्यां पङ्क्तिभ्यां पितृयज्ञे पितर उच्यन्ते । अक्षन् अदेर्लुङि घस्लादेशः । अदितवन्तः भुक्तवन्तः पितरः । कथं ज्ञायत इति चेत् । अमीमदन्त हि 'मद तृप्तौ' हिशब्दो यस्मादर्थे । यस्मात्तृप्तास्तस्माद्भुक्तवन्त इत्यनुमानम् । तृप्तिविशेषणान्युत्तराणि । अवप्रियाः अधूषत । अवाचीनमन्नविक्षिप्रियाः (?) अन्नभक्तीरुपस्मृत्य अधूषत । 'धूञ् कम्पने' । धुनन्ति गात्राणि । किंच अस्तोषत स्वभानवः । प्रिया अन्नभक्तीरुपस्मृत्य दातॄन् स्तुवन्ति । अहोदत्तमहोदत्तं स्वाद्वन्नं बहु इति । स्वभानवः स्वयं दीप्ताः अन्नविस्मयात् । विप्राः प्राप्तप्रज्ञाः मेधाविनः । नविष्ठया मती नवतमया