पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वर्तमानः । देवैः मरुद्भिः सहितः । क उपकार इति चेत् , उपकृत्य हि प्रत्युपकारः प्रार्थ्यते । अस्ति हि यस्मादस्ति । स्म इत्यनर्थकः । ते तव विषये शुष्मिन् । शुष्म इति बलनाम । हे बलवन् , अवयाः । अवपूर्वस्य यजतेरेतद्रूपम् । अवयुतो यागः पृथग्भागः तद्योगी । किंच महश्चिद्यस्य । महतः चित् यस्य तव मीढुषः । 'मिह सेचने' । सेक्तुः वरुणस्य वर्षयितुर्वा । यव्या हविष्मतो मरुतः । यवमयैः करम्भपात्रैः हविष्मतो मरुतः तव स्वभूताः संजाताः त्वदनुग्रहात् । महतो यस्य मीढुषः । वदन्ते गीः । 'वदि अभिवादनस्तुत्योः' । स्तौति गीः वाक् स्तोतॄणाम् ॥ ४६ ॥
म० एन्द्रमरुद्देवत्या विराट् । यस्या दशाक्षराश्चत्वारः पादाः सा विराट् । चतुर्थ एकाधिकोऽत्र । 'मो षू ण इति यजमानो जपति' (का० ५।५।१२) इति । पृत्स्विति संग्रामनाम ( निघं० २।११।२१) हे इन्द्र, अत्र पृत्सु एषु संग्रामेषु वर्तमानः देवैस्त्वया सह सख्यं प्राप्तैर्मरुन्नामकैर्देवैः सहितस्त्वं नोऽस्मान्मे विनाशयेति शेषः । मोशब्दो निषेधार्थः । सुशब्दो विनाशभावस्य सौष्ठवं ब्रूते । तथा सति विनाशलेशो मा भूदित्यर्थः संपद्यते । क उपकार इति चेत् । शुष्मेति बलनाम ( निघ० २।९।११)। हे शुष्मिन् बलवन्निन्द्र, ते तव अवयाः अवयुतो यागः पृथग्भागोऽस्ति हि स्म विद्यत एव खलु । अवपूर्वस्य यजतेरेतद्रूपम् । 'मिह सेचने' धातुः । मीढुषो वृष्टिप्रदत्वेन सेक्तुः । हविष्मतो हविर्योग्यस्य तव यव्या यवमयैः करम्भपात्रनिष्पन्ना होमक्रिया महश्चित् पूजा खलु । तस्य यथोक्तपूजोपेतस्य तवास्मासु कृपालुत्वं युक्तमिति भावः । किंच गीरस्मदीया स्तुतिरूपा वाक् मरुतो भवतः सखीन् वन्दते नमस्करोति । नमो मरुद्भ्य इत्येवमाकारायाः स्तुतेर्नमस्काररूपत्वात् । मरुद्विषयनमस्कारेणापि तुष्टस्य तव कृपैव युक्तेत्यर्थः । मो सु नः अत्र 'सुञः' (पा० ८।३ । १०७) इति षत्वम् । 'अन्येषामपि दृश्यन्ते' (पा० ६ । ३ । १३७) इति दीर्घः । 'नश्च धातुस्थोरुषुभ्यः (पा० ८।४ । २७) इति न इत्यस्य णः । स्म इत्यस्यापि 'पूर्वपदात्' (पा० ८। ३ । १०६) इति षत्वम् । 'अवयाः श्वेतवाः पुरोडाश्च' (पा० ८।२।६७) इति विजन्तो निपातः । मीढुषः । 'दाश्वान्साह्वामीढ्वांश्च' (पा०६।१ । १२) इति क्वसन्तो निपातः ॥४६॥

सप्तचत्वारिंशी।
अक्र॒न् कर्म॑ कर्म॒कृत॑: स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्य॒: कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ।। ४७ ।।
उ० पत्नीं वाचयति । अक्रन्कर्म । अनुष्टुप् । पत्नी ऋत्विजो ब्रवीति । य एते अक्रन् अकार्षुः कृतवन्तः कर्म वरुणप्रघासम् कर्मकृतः ऋत्विजः । सह वाचा मन्त्रेण । मयोभुवा । वाग्विशेषणमेतत् । मय इति सुखनाम । सुखेन या भावयति वाक् तामहं ब्रवीमि । देवेभ्योर्थाय कर्म कृत्वा अस्तं गृहान् प्रेत गच्छत मया सहिताः । हे सचाभुवः। सचा सहेत्यर्थः । सहभवनशीला ऋत्विजः ॥ ४७ ॥
म०. आग्नेय्यनुष्टुप् । 'अक्रन्कर्मेत्येनां वाचयति' (का० ५। ५। १३) इति । कर्मकृतः वरुणप्रघासाख्यकर्मकारिण ऋत्विजः वाचा स्तुतिरूपया सह कर्म वरुणप्रघासानुष्ठानरूपमक्रन् कृतवन्तः । कथंभूतया वाचा । मयोभुवा । मय इति सुखनाम ( निघ० ३।६।७) मयो भवति यया सा मयोभूः तया मन्त्ररूपस्तुत्येत्यर्थः । हे सचाभुवः, सचेति सहार्थेऽव्ययम् । सहभवनशीलाः परस्परं यजमानेन पत्न्या वास्मिन्कर्मणि सहावस्थिता हे ऋत्विजः, देवेभ्यो देवार्थं कर्म कृता वरुणप्रघासनामकं कर्मानुष्ठानायास्तं प्रेत गृहान् गच्छत । अस्तमिति गृहनाम (निघ० ३ । ४ । ५) ॥ ४७ ॥

अष्टचत्वारिंशी ।
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।। ४८ ।।
उ० अवभृथ निचुम्पुणः । अवभृयो यज्ञः हे अवभृथ यज्ञ, अवाचीनं पात्राण्यस्मिन् भ्रियन्त इत्यवभृथः। निचुम्पुण नीचैः क्वणन । 'उपांश्ववभृतेष्ट्या चरन्ति' इति श्रुतिः। यस्त्वं नीचैश्चरणोसि नीचैः क्वणनः तं त्वां प्राप्यैव अव देवैर्देवकृतमेनो यासिषम् । अवनीतवानहम् । किमवनीतवान् । एनः पापम् । कैः, सखिभूतैर्देवैः । किंविषयम्, देवकृतम्। देवविषये यत्कृतम् । अवमर्त्यैर्मर्त्यकृतम् । अवनीतवांश्च मर्त्यैर्मनुष्यैः ऋत्विग्भिः सखिभूतैः । मर्त्यकृतम् मनुष्यविषये यत्कृतं पापम् । अतस्त्वं हे अवभृथ हे देव, रिषः पाहि । रिषतिर्हिंसार्थः क्विबन्तः । तस्य पञ्चमी । रिषः बन्धनात्पाहि गोपाय । कथंभूताद्बन्धनात् । पुरुराव्णः । 'रा दाने' । बहुकर्मोपभोगसन्तापान्दातुः संसारलक्षणाद्बन्धात् । : यद्वा 'रु शब्दे' । रुवन्ति शब्दं कुर्वन्ति प्राणिनोऽस्मिन् - संसार्यमाणाः स पुरुरावास्तस्मात्पुरुराव्णः ॥ ४८॥
म० यज्ञदैवतं यजुः । 'मज्जयत्यवभृथेति' (का० ५। । ५। ३०) अत्र विनियोगश्चिन्त्य इति । वरुणप्रघासस्य कर्मणोऽन्ते तदङ्गभूतं यदवभृथाख्यं कर्म जलसमीपे क्रियतेऽत्रानेन मन्त्रेण दम्पतीभ्यां जले स्नानं कर्तव्यम् । हे अवभृथ, अवाचीनानि पात्राणि जलमध्ये भ्रियन्ते यस्मिन्यज्ञविशेषे सोऽयमवभृथः । तत्संबोधनं हे अवभृथ यज्ञ, हे निचुम्पुण, 'चुप मन्दायां गतौ' । नितरां चोपति मन्दं गच्छति निचुम्पुणः । उण्र् त्ययो मुमागमश्च । यद्वा नीचैरस्मिन्क्वणन्ति नीचशब्देन । कर्म कुर्वन्त्यवभृथो निचुम्पुणः ।