पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१) इति यास्कोक्तत्वात्तादृशस्य मम । शिवं शग्ममिति द्वे सुखनामनी (निघं० ३ । ६ । १८-२२) तत्राद्यमैहिकं द्वितीयमामुष्मिकम् । उभयविधं सुखं भूतादिति शेषः । शंयोरित्यभ्यासोऽत्यादरार्थः ॥ ४३ ॥
इत्युपस्थानमन्त्राः समाप्ताः ॥

चतुश्चत्वारिंशी।
प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः ।। ४४ ।।
उ० प्रघासिनो हवामहे । चातुर्मास्यमन्त्राः । प्रजापतेरार्षम् । गायत्रीमारुती । शुक्रज्योतिश्चेति सप्त सप्त मारुता गणाः । तत्र स्वतवांश्च प्रघासी चेति पठ्यते । तदेतदुच्यते । प्रघास्युपलक्षिता मरुतः प्रघासिनः हवामहे आह्वयामः । ये च शुक्रज्योतिःप्रभृतयो मरुतस्तांश्च हवामहे । रिशादसः । रिशतिर्हिंसार्थः । 'दसु उपक्षये'। ब्राह्मणान् रेशयन्त उपक्षयन्तीति रिशद्दासिनः सन्तो रिशादस इत्युच्यन्ते । कथंभूतान्हवामहे । करंभेण सजोषसः करम्भपात्रैः समानप्रीतयः ॥ ४४ ॥
म० अथ चातुर्मास्यमन्त्राः प्रजापतिदृष्टाः । चातुर्मास्याख्यो यागः । स पर्वचतुष्टयात्मकः । वैश्वदेववरुणप्रघाससाकमेधशुनासीरीयाख्यानि चत्वारि पर्वाणि । तत्र वरुणप्रघासाख्ये द्वितीये पर्वणि दक्षिणोत्तरयोर्द्वयोर्वेद्योर्हविःष्वासादितेषु प्रतिप्रस्थाता पत्नीमुदानयंस्तदीयं जारं पृच्छेत् केन चरसीति । सापि तं ब्रूयात् । 'आख्याते प्रघासिन इत्येनां वाचयति नयन्' ( का० ५। ५। १०) इति । पत्न्या जारे कथिते सति एनां पत्नीं नयन् प्रतिप्रस्थाता प्रघासिन इति मन्त्रं वाचयति । मारुती गायत्री । वयं मरुतो हवामहे । चकारेण तदीयपरिचारकाः समुच्चीयन्ते । किंभूतान्मरुतः । प्रघासिनः 'घस्लृ अदने' प्रकर्षेण घस्यते भक्ष्यते इति प्रघासो हविर्विशेषः । स एषामस्तीति तान् प्रघासिनः एतन्नामकान् । शुक्रज्योतिरित्यादयः सप्तसप्तका मारुता गणाः । तत्र स्वतवांश्च प्रघासी चेति पठ्यते ( अध्या० १७ । ८५)। प्रघास्युपलक्षितान् मरुतः आह्वयामः । पुनः किंभूतान् । रिशादसः रिशतिर्हिंसार्थः । रिशां वैरिकृतां हिंसां दस्यन्ति उपक्षयन्तीति रिशादसः । 'दसु उपक्षये' क्विप् । यद्वा रिशन्ति हिंसन्तीति रिशाः । 'इगुपध-' (पा० ३ । १ । १३५) इति कः । रिशान् हिंसकान् दस्यन्तीति रिशादसः । यद्रा रिशन्तीति रिशन्तः । शतरि दीर्घश्छान्दसः । रिशतोऽऽस्यन्ति क्षिपन्ति ते रिशादसः । अस्यतेर्विच् । तथा करम्भेण सजोषसः यवमयो हविर्विशेषः करम्भः तेन सजोषसः समानप्रीतयस्तान् तथाविधान्मरुतो हवामहे ॥ ४४ ॥

पञ्चचत्वारिंशी।
यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॑ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ।। ४५ ।।
उ० पत्नीवाचनो मन्त्रः । पत्नी दक्षिणाग्नौ करंभपात्राणि जुहोति । अनुष्टुभा मारुत्या । यच्च ग्रामे वसन्तो यच्चारण्ये यच्च सभायामवस्थिताः यच्च इन्द्रिये प्रजननेनावस्थिताः सन्तो यदेनश्चकृमा वयम् । एनःशब्दः पापवचनः। यच्छब्दश्चाधस्तनैः चतुर्भिर्यच्छब्दैरेकीभूय वीप्सार्थो भवति। अथ कोऽर्थः । यत्र यत्र ग्रामादिष्ववस्थिताः सन्तः पापं चकृम कृतवन्तो वयम् । इदं तदवयजामहे । अवपूर्वो यजिर्नाशने वर्तते । एतत्पापं नाशयामः । स्वाहा सुहुतं चैतत् हविर्भवतु ॥ ४५ ॥
म० मारुत्यनुष्टुप् । 'करम्भपात्राणि जुहोति शूर्पेण मूर्धनि कृत्वा दक्षिणेऽग्नौ प्रत्यङ्मुखौ जायापती वा दक्षिणेनाहृत्य तीर्थेन पूर्वेण वेदिमपरेण वा यद्ग्राम इति' ( का० ५। ५।११ ) इति । यवपिष्टेन निर्मितानि सन्तानपरिमितान्येकाधिकानि वर्तुलादिरूपाणि करम्भपात्राणि । तानि शूर्पेण पत्नी दक्षिणाग्नौ जुहुयादित्येकः पक्षः । दम्पती द्वौ वा जुहुयातामित्यपरः पक्षः । तौ च दक्षिणेन मार्गेण तानि पात्राण्याहृत्य वेदेः पूर्वदिशि पश्चिमदिशि वा स्थित्वा जुहुयाताम् । अथ मन्त्रार्थः । ग्रामे वसन्तो वयं यदेनः पापं ग्रामोपद्रवरूपं चकृम कृतवन्तः । तथारण्ये वसन्तो यदेनो मृगोपद्रवरूपं चकृम । तथा सभायां स्थिता यदेनो महाजनतिरस्कारादिकं चकृम । तथेन्द्रिये जिह्वोपस्थरूपे प्रीतिमन्तो वयं यदेनः कलञ्जभक्षणपरस्त्रीगमनादिकं चकृम । तथान्यत्रापि भृत्यस्वाम्यादौ यदेनः ताडनावज्ञादिकं चकृम तदिदं सर्वं पापमवयजामहे विनाशयामः । अवपूर्वो यजिर्नाशनार्थः । स्वाहा एतद्धविर्देवतायै पापविनाशिन्यै दत्तम् ॥ ४५ ॥

षट्चत्वारिंशी।
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ।। ४६ ।।
उ० मो षू णः ऐन्द्रीमारुती विराजं यजमानो जपति । 'यत्र वै प्रजापतिः प्रजानां मरुतः पाप्मानं विमेथिरे' इत्यादिना इतिहासेन निदानवचनं श्रुतिः करोति ।मो षूणः । मो इत्ययं निपातः प्रतिषेधार्थीयः पुरस्तादाख्यातस्य भवति । यस्यार्थं प्रतिषेधयति । नचाख्यातं विद्यते । अतः श्रुत्युक्तमध्याह्रियते । हे इन्द्र, मा विमन्थीः माहिᳪसीः । सू इत्यनर्थकः । नोऽस्माकं प्रजाः । अत्र पृत्सु एषु संग्रामेषु