पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० दक्षिणाग्न्युपस्थानम् । अयमग्निः । अनुष्टुप् । योयमग्निः । पुरीष्यः पशव्यः । 'पशवो वै पुरीषम्' इति श्रुतिः। रयिमान्धनवान् पुष्टेर्वर्धयिता । तमेतं प्रत्यक्षीकृत्य याचे । हे अग्ने पुरीष्य, द्युम्नं बलं च प्रत्यस्मान्निधेहि ॥४०॥
म० दक्षिणाग्निमुपतिष्ठते । अनुष्टुप् । योऽयमग्निः पुरीष्यः पशव्यः । 'पशवो वै पुरीषं' इति श्रुतेः । रयिमान्धनवान् पुष्टिवर्धनः पोषस्य वर्धयिता । तं याचे । हे अग्ने, पुरीष्य पशुहित, द्युम्नं सहस्वाभ्यायच्छस्व देहि ॥ ४० ॥

एकचत्वारिंशी।
गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॑ बिभ्रत॒ एम॑सि । ऊर्जं॒ बिभ्र॑द्वः सु॒मना॑: सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः ।। ४१ ।।
उ० गृहानुपैति । गृहा मा बिभीत । त्रिष्टुब्बिराड्रूपा । हे गृहाः, माबिभीत भयं मुञ्चत मा वेपध्वम् । 'टुवेपृ कम्पने' । वेपतिः कम्पनार्थः । कम्पनं मुञ्चत । यतो वयम् युष्मान् ऊर्जं अन्नं बिभ्रतः धारयमाणान् अनुपक्षीणान् अन्नेनैव आइमसि आगताः स्मः। किंच अहमपि ऊर्जं अन्नं बिभ्रन् धारयन् वः युष्मान् प्रति सुमनाः शोभनमनाः सुमेधाः शोभनप्रज्ञः सन् गृहानैमि गृहान्प्रत्यागच्छामि । मनसा मोदमानः हृष्यन् । आ इमः बहुवचनम् । एमि एकवचनम् । आत्मनि विकल्पेन बहुवचनं स्मर्यत इत्यदोषः ॥ ४१ ॥
म० 'गृहा मा बिभीतेति गृहानुपैति' ( का० ४ । १२ । २२) इति । ग्रामान्तरादागतो गृहा मेत्यादिमन्त्रत्रयेण गृहं प्राप्नुयात् । तिस्रोऽपि वास्तुदेवत्याः शंयुदृष्टाः । त्रिष्टुब्विराड्रूपा । यस्या एकादशार्णास्त्रयः पादा एकोऽष्टार्णः सा विराड्रूपा । अत्र प्रथमो दशार्णस्तेनैकोना । हे गृहाः, यूयं मा बिभीत । पालको यजमानो गत इति भयं मा कुरुत । मा च वेपध्वम् । कोऽपि शत्रुरागत्य विनाशयिष्यतीति बुद्ध्या कम्पं मा कार्ष्ट । यतो वयमूर्जं बिभ्रतो धारयमाणानक्षीणान्नानेव युष्मान् एमसि । आ इमः आगताः स्मः । यथा यूयमूर्जं बिभ्रतः तथाहमपि ऊर्जं बिभ्रत् धारयन् सुमनाः शोभनमनस्कः सुमेधाः शोभनधारणप्रज्ञोपेतः । मनसा दुःखरहितेन मोदमानः हृष्यन् वो युष्मान् गृहानैमि आगच्छामि । एमः ऐमीत्यात्मनि विकल्पेन बहुवचनम् 'अस्मदो द्वयोश्च' (पा. १।२। ५९) इत्युक्तेः ॥ ४१ ॥

द्विचत्वारिंशी।
येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ।। ४२ ।।
उ० येषामध्येतीति । अनुष्टुप् । येषां गृहाणामध्येति । 'इक् स्मरणे' इत्येतस्यैतद्रूपं नतु 'इङ अध्ययने' इत्येतस्य । 'येषां गृहाणां स्मरति प्रवसन् गृहपतिः । येषु च सौमनसो बहुः । येषु गृहेषु बहुप्रकारं सौमनस्यं विद्यते तान् गृहानुपह्वयामहे आह्वयामः । ते चाहूताः सन्तो नो जानन्तु । अस्मद्विषयां प्रत्यभिज्ञां कुर्वन्तु । जानतोऽस्मान् प्रत्यभिज्ञावतोऽस्मान् ॥ ४२ ॥
म० अनुष्टुप् । प्रवसन् देशान्तरं गच्छन् यजमानो येषामध्येति । 'इक् स्मरणे' । यान् गृहान् स्मरति । 'अधीगर्थदयेशां कर्मणि' (पा. २ । ३ । ५२ ) इति षष्ठी । गृहविषयं क्षेमं सदा चिन्तयतीत्यर्थः । तथा येषु गृहेषु यजमानस्य बहुः सौमनसो सुमनसो भावः प्रीत्यतिशयः । वयं तान् गृहानुपह्वयामहे आह्वयामः । गृहाभिमानी देवोऽस्मत्समीपमागच्छत्वित्यर्थः । ते गृहदेवा आहूताः सन्तः जानतः उपकाराभिज्ञान् नोऽस्मान् जानन्तु । एते कृतघ्ना न भवन्तीत्यवगच्छन्तु ॥ ४२ ॥

त्रिचत्वारिंशी।
उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वय॑: । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य व॒: शान्त्यै॒ प्रप॑द्ये शि॒वᳪ श॒ग्मᳪ शं॒यो: शं॒यो:।। ४३ ।।
उ० उपहूता इह । त्र्यवसाना महापङ्क्तिः । अभ्यनुज्ञाता इह । गृहेषु न इत्येतत्पदद्वयं विप्रकृष्टमिह संबध्यते । इहास्माकं गृहेषु गावः अजा अवयः उपहूताः । अथो अपिच अन्नस्य कीलालः । कीलालशब्दो रसवचनः । पटुरसमिदमन्नमभ्यनुज्ञायते । क्षेमाय वः इति प्रविशति । गृहाः उच्यन्ते । क्षेमाय अविनाशाय वः युष्मान् शान्त्यै च प्रपद्ये | प्रविशामि । शिवं शग्मं द्वे अप्येते सुखस्य नाम्नी । अनेकप्रकारं सुखं भवत्विति शेषः । कस्य शंयोः । शमिति सुखनाम । 'इदंयुरिदंकामयमानः' । सुखकामस्य । नर्य प्रजामित्यादि आदित्यार्षम् ॥ ४३ ॥
म. त्र्यवसाना महापङ्क्तिः । यस्या अष्टार्णाः षट् पादाः सा महापङ्क्तिः । पञ्चमो नवमार्णस्तेनैकाधिका । इह गृहेषु गाव उपहूताः धेनवो बलीवर्दाश्च सुखेन तिष्ठन्त्वित्येवमनुज्ञाताः । यथा इह गृहेषु अजावयः उपहूताः अजात्वावित्वजातिद्वययुक्ताः पशव उपहूताः सुखेन वर्तन्तामित्यस्माभिरनुज्ञाताः। | अथो अपिच अन्नस्य कीलालः अन्नसंबन्धी रसविशेषो नोऽस्मदीयेषु गृहेषु उपहूतः समृद्धो भवत्वित्येवमस्माभिरनुज्ञातः ।
'क्षेमाय व इति प्रविशति' ( का० ४ । १२ । २३ ) इति । हे गृहाः, वो युष्मान् प्रपद्ये प्राप्नोमि । किमर्थम् । क्षेमाय विद्यमानस्य वसुनो रक्षणं क्षेमस्तदर्थम् । शान्त्यै मम सर्वानिष्टशमनाय । शंयोः शमिति सुखनाम ( निघं० ३ । ६ । १९) तत्कामयते इति शंयुः । 'इदंयुरिदंकामयमानः' (निरु० ६ ।