पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० आगत्य जपति । अवरुद्रम् । द्वे पङ्क्तिककुभौ । अवयुत्य पृथक् कृत्वान्याभ्यो देवताभ्यो रुद्रम् अदीमहि । अद भक्षणे' छान्दसो णिचो लोपः । रुद्रमादयामः भोजयामः । अवगम्य च तं ज्ञात्वा देवं त्र्यम्बकम् । तथाच भोजयामः । यथा नो वस्यसस्करत् येन प्रकारेणास्मान्वसीयसः कुर्यात् । 'वस निवासे' इत्यस्य तृजन्तस्य वस्तेति भवति। ततः 'तुश्छन्दसि' इति ईयसुनि कृते वसीयस इति भवति । तत इकारलोपे वस्यस इति भवति । वस्तृतरानिति पर्यायः । वसनशीलानित्यर्थः । तथाचास्मान् श्रेयसः प्रशस्यतरान् कुर्यात् । यथा चास्मान् व्यवसाययात् । विपूर्वस्यावपूर्वस्य च 'षोन्तकर्मणि' इत्यस्य ण्यन्तस्य आशिषि लुङि सार्वधातुके यासुटि व्यवसाययादित्येतद्रूपं भवति । यथा चास्मान् सर्वकर्मणामन्तं प्रापयेदित्यर्थः ॥ ५८ ॥
म०. द्वे रौद्र्यौ पङ्क्तिककुभौ । यस्या द्वितीयः पादः द्वादशाक्षरः प्रथमतृतीयावष्टाक्षरौ सा ककुप् । द्वयोर्जपे विनियोगः । तथा 'आगम्याव रुद्रमदीमहीति जपतीति' (का० ५।१०।१४)। रुद्रमव । असौ रुद्र इति मनसा तमवगत्यादीमहि त्वदनुग्रहादन्नं भक्षयेम । तथा त्र्यम्बकं त्रीण्यम्बकानि नेत्राणि यस्य तादृशं देवमव त्रिनेत्रोयं देव इति मनसावगत्यादीमहीत्यनुवर्तते । यद्वा अदीमहीत्यत्र णिचो लोपश्छान्दसः । अवयुत्यान्यदेवताभ्यः पृथक्कृत्य रुद्रमदीमहि आदयामो भोजयामः । अवगम्य ज्ञात्वा त्र्यम्बकमादयाम इति । यथा येन प्रकारेण नोऽस्मान्वस्यसः करत् वस्तृतरान् वसनशीलानसौ कुर्यात् । यथाच नोऽस्मान् श्रेयसः करत् ज्ञातिषु प्रशस्यतरान् कुर्यात् । यथा चास्मान् व्यवसाययात् सर्वेषु कार्येषु निश्चययुक्तान् कुर्यात्तथैनं जपाम इत्यर्थः । आशीरियम् । अदीमहि 'छन्दस्युभयथा' इत्यार्धधातुकत्वाल्लिङि णिचो लोपः (पा० ३ । ४ । ११७) । वस्यसः वसतीति वस्ता तृन् अतिशयेन वस्ता वसीयान् । 'तुश्छन्दसि' (पा० ५।३। ५९) इति ईयसुनि कृते 'तुरिष्ठेमेयःसु' (पा० ६।४ । १५४) इति तृनो लोपः । वसीयस इति प्राप्ते ईलोपश्छान्दसः ॥ करत् 'छन्दसि लुङ्लङ्लिटः' (पा० ३ । ४ । ६) इति लङ् । विकरणव्यत्ययेन शपि गुणः । 'बहुलं छन्दस्यमाङ्योगेऽपि' (पा० ६ । ४ । ७५) इत्यडभावः । व्यवसाययात् लेटि आडागमे 'इतश्च लोपः परस्मैपदेषु' (पा० ३ । ४। ९७) इति इलोपे रूपं विपूर्वस्य ण्यन्तस्य स्यतेः ॥ ५८ ॥

एकोनषष्टी।
भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै ।। ५९ ।।
उ० भेषजमसि । हे रुद्र, यस्त्वं स्वभावत एव भेषजमौषधं भवसि सर्वप्राणिनाम् । अतः प्रार्थ्यते देहि भेष
जम् । गवे अश्वाय पुरुषाय भेषजं देहि । सुखं देहि । सुहितं स्वेभ्यः प्राणेभ्यः इति सुखम् । मेषाय मेष्यै च ॥५९॥
म० हे रुद्र, त्वं भेषजमसि औषधवत्सर्वोपद्रवनिवारकोऽसि । अतोऽस्मदीयेभ्यो गवे अश्वाय पुरुषाय च भैषज्यं सर्वव्याधिनिवारकमौषधं देहि । मेषाय मेष्यै च सुखं देहि । सु हितं स्वेभ्यः प्राणेभ्य इति सुखम् । अनेन मन्त्रेण गृहपशूनां क्षेमप्राप्तिर्भवति ॥ ५९॥

षष्टी।
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ।
त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुत॑: ।। ६० ।।
उ०. त्र्यम्बकम् । द्वावनुष्टुभौ । यं वयं त्र्यम्बकं यजामहे पूजयामः । सुगन्धिम् । 'गन्धस्येदुत्पूति-' इत्यादिना समासान्तः । पुष्टिवर्धनम् पोषस्य वर्धयितारम् । योऽस्मान् उर्वारुकमिव बन्धनात् । उर्वारुकः फलविशेषः स यथा पक्कः स्वबन्धनाद्वियुज्यते एवं मृत्योर्मुक्षीय मोचय मोचयतु । पुरुषव्यत्ययश्छान्दसः। माऽमृतात् । मा कदाचित अमृतात् मोचयतु । अग्निं त्रिः परियन्त्यनेन मन्त्रेण । कुमार्यश्चोत्तरेण परियन्ति । यं त्र्यम्बकं यजामहे शोभन: गन्धम् । पतिवेदनम् भर्तृलम्भयितारम् । उर्वारुकमिव बन्धनात् । इतो मुक्षीय ज्ञातिवर्गान्मोचयतु । मामुतः पतिवर्गान्मोचयतु । ‘सा यदि त इत्याह ज्ञातिभ्यस्तदाह मामुत इति पतिभ्यस्तदाह' इति श्रुतिः ॥ ६ ॥
म०. द्वे अनुष्टुभौ ‘अग्निं त्रिः परियन्ति पितृवत्सव्योरूनाघ्नानास्त्र्यम्बकमिति देववच्चैतेनैव दक्षिणानाघ्नानाः' (का. ५।१०।१५। १६) इति । यथा पितृमेधे पुत्रादयः पुरुषाः स्वकीयान् वामोरूंस्ताडयन्तस्त्रिवारमप्रदक्षिणं परियन्ति । यथा च देवतासेवायां दक्षिणोरूंस्ताडयन्तस्त्रिः प्रदक्षिणं परियन्ति । एवमत्र पुरुषाः प्रथमेनैव त्र्यम्बकमन्त्रेणाग्निमप्रदक्षिणत्रयेण प्रदक्षिणत्रयेण च परियन्तीति सूत्रार्थः ॥ मन्त्रार्थस्तु । सुगन्धिं दिव्यगन्धोपेतं मर्त्यधर्महीनं पुष्टिवर्धनं धनधान्यादिपुष्टेर्वर्धयितारं त्र्यम्बकं नेत्रत्रयोपेतं रुद्रं यजामहे पूजयामः । ततो रुद्रप्रसादान्मृत्योर्मुक्षीय अपमृत्योः संसारमृत्योश्च मुक्तो भूयासम् । अमृतान्मा मुक्षीय खर्गरूपान्मुक्तिरूपाच्चामृतान्मा मुक्षीय मुक्तो मा भूयासम् । एकवचनं बह्वर्थे । मुक्ता मा भूयास्मेत्यर्थः । अभ्युदयनिःश्रेयसरूपात्फलद्वयान्मम भ्रंशो मा भूदित्यर्थः । मृत्योर्मोचने दृष्टान्तः-उर्वारुकमिव बन्धनादिति । यथोर्वारुकं कर्कन्ध्वादेः फलमत्यन्तपक्कं सत् बन्धनात् स्वस्य वृन्तात् प्रमुच्यते तद्वत् ॥ 'कुमार्यश्चोत्तरेणेति'