पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहत्यः शेषा बृहत्यः ॥ २३ ॥ इति० संहितायां त्रयस्त्रिंशोऽध्यायः॥३३॥ इति०सर्वानुक्रमणिकायां तृतीयोऽध्यायः॥३॥
यज्जाग्रतः षडृचं मानसं त्रैष्टुभᳪ शिवसंकल्पः पितुं नूष्णिहमगस्त्योऽन्नस्तुतिमन्विञ्चतुर्ऋचमानुष्टुभं द्वयोरनुमितिर्द्वयोः सिनीवालीसरस्वत्यौ सिनीवालिपृथुष्टुके द्वे गृत्समदस्त्वमग्ने द्वे आग्नेय्यौ जगत्यौ हिरण्यस्तूप आङ्गिरस उत्तानायां द्वे देवश्रवा देववातश्च भारतावाद्या त्रिष्टुब्द्वितीयानुष्टुप्प्रमन्महे नोधा द्व्यृचमैन्द्रं त्रैष्टुभमिच्छन्तित्वा द्व्यृचमैन्द्रं त्रैष्टुभमेव देवश्रवा देववातश्च भारतौ ॥ १॥ अषाढं युत्सु गोतमश्चतुर्ऋचं त्रैष्टुभᳪ सौम्यमष्टौव्यख्यच्चतुर्ऋचं त्रैष्टुभᳪ सावित्रमाङ्गिरसो हिरण्यस्तूपो द्वितीया जगत्युभापिबतमाश्विनं तृचमुभापिबतं प्रस्कण्वो गायत्रीमप्नस्वतीमश्विनात्रिष्टुभौ कुत्स आरात्रि पथ्याबृहतीᳪ रात्रिदेवत्या कशिपा भरद्वाजदुहितोषस्तदुषस्या परोष्णिहं गोतमः प्रातरग्निं वसिष्ठः सप्तर्चमाद्या जगती बहुदेवत्या पञ्च भगदेवत्यास्त्रिष्टुभोऽन्त्योषस्याः ॥ २ ॥ पूषन्तव सुहोत्रः पथस्पथः परिपतिमृजिश्वैते पौष्ण्यौ गायत्रीत्रिष्टुभौ त्रीणिपदा वैष्णव्यौ गायत्र्यौ मेधातिथिर्घृतवती भुवनानां भरद्वाजो द्यावापृथिव्यां जगतीं येनो लिङ्गोक्तदेवतां त्रिष्टुभं विहव्य आनासत्या हिरण्यस्तूप आश्विनीमेष वो मारुतीं त्रिष्टुभमगस्त्यः सहस्तोमा ऋषिसृष्टिप्रतिपादिका त्रिष्टुभं यज्ञः प्राजापत्य आयुष्यं वर्चस्यं तृचं दक्ष उष्णिक्शक्करीत्रिष्टुभो हिरण्यस्तुतिरुतन ऋत्विजो बहुदेवत्या त्रिष्टुभमिमागिरः कूर्मो गार्त्समद आदित्यदेवत्यां त्रिष्टुभᳪ सप्तऋषयोऽध्यात्मवादिनी जगत्युत्तिष्ठं तृचो ब्राह्मणस्पत्य आद्ये बृहत्यौ कण्वो घौरोऽन्त्यां त्रिष्टुभं गृत्समदो यइमा चतुर्ऋचं प्रतीकोक्तम् ॥ ३ ॥ इति० संहितायां चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥
अपेतोऽध्यायः पित्र्य आदित्यस्य देवानां वाद्यागायत्री परं यजुः सविताते गायत्री वायुः पुनातु चत्वारि लिङ्गोक्तानि सविताते गायत्री परंमृत्यो संकसुकस्त्रिष्टुभं मृत्युदेवत्याᳪ, शंवातोऽनुष्टुब्बृहत्यौ वैश्वदेव्यावश्मन्वतीं सुचीकस्त्रिष्टुभं वैश्वदेवीमपाघं, लिङ्गोक्तदेवतामनुष्टुभᳪ शुनःशेपो दुःस्वप्ननाशनीमनड्वाहमानडुह्यनुष्टुबिमं जीवेभ्यः संकसुको मृत्युदेवत्यां त्रिष्टुभमायुष्मानग्न आग्नेयीं त्रिष्टुभं वैखानसः परीमेऽनुष्टुभमैन्द्रीं भारद्वाजः शिरिंबिठः क्रव्यादमग्निं त्रिष्टुभमाग्नेयीं दमनो वहवपांजातवेदसी त्रिष्टुप् स्योनापृथिवी मेधातिथिः पार्थिवीं गायत्रीमस्मात्त्वमाग्नेयी गायत्र्यनिरुक्ता ॥ ४ ॥ इति० संहितायां पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
ऋचंवाचं पञ्चाध्यायीं दध्याङ्ङाथर्वणो ददर्शाग्निकाश्वमेधिकवर्जमाद्योऽध्यायः शान्त्यर्थो वैश्वदेव आद्यानि यजूᳪषि यन्मे बार्हस्पत्या पङ्क्तिः कयात्वमैन्द्र्यनिरुक्ता गायत्रीन्द्रोविश्वस्य विराड् द्विपदा शंनो द्वे अनुष्टुभावहानि द्विपदागायत्री शंनइन्द्राग्नी त्रिष्टुब्गायत्र्यावन्त्याशीर्द्यौः शान्तिर्यजूᳪषि नमस्ते अस्त्वनुष्टभौ तच्चक्षुः पुरउष्णिक्सौरी ॥५॥ इति० षट्त्रिंशोऽध्यायः ॥ ३६॥
आददे नारिरस्यभ्रिदैवतं देवी द्यावापृथिव्यं देव्यो वश्यो वल्मीकवपेयत्यग्नेवराहविहतमिन्द्रस्यौज आदाराः प्रैतु मखस्याश्वस्यर्जवे यमाय देवस्त्वार्चिरसि घर्मदेवत्यानि यो घर्मः स आदित्यो य एष तपत्यनाधृष्टा पुरस्तात्सप्त पार्थिवानि यजमानाशीर्मधुप्राणदेवत्यानि गर्भो देवानामवकाशा मामाहिᳪसीरित्येतदन्ता घर्मदेवत्या धर्तादिव ऊर्ध्वबृहत्यपश्यंगोपां त्रिष्टुभं दीर्घतमा हृदेत्वा परोष्णिक्त्वष्ट्रमन्तः पत्न्याशीरहःकेतुना यजुषी घर्मदेवत्ये ॥६॥ इति० संहितायां सप्तत्रिंशोध्यायः ॥३७॥ ___
आददेऽदित्यै रज्जुरिडएहि गौर्यस्ते त्रिष्टुभं दीर्घतमा इन्द्राश्विना वैश्वदेवानि समुद्रायत्वा वातनामानि स्वाहाघर्माय घर्मदेवत्ये विश्वाआशा आश्विन्यनुष्टुब् दिविधा घर्मदेवत्यमश्विना घर्ममुष्णिगपातां ककुबमेन्यस्मे खरः स्वाहापूष्णे सप्त लिङ्गोक्तदेवतानि स्वाहासं पयोदेवत्यं मधुहुतं घर्मो भीमं गायत्रीबृहत्यावनवसाने अतिशक्वरी वाग्नेयी समस्ता त्र्यवसाना या ते घर्म क्षत्रस्य बृहती चतुःस्रक्तिर्महाबृहती घर्मैतदनुष्टबचिक्रदत्परोष्णिग्यावती द्यावापृथिवी दधिघर्मो मयित्यत्पङ्क्तिर्यजमानाशीः पयसोरेतो गायत्र्यनवसाना त्विषः संवृग्दधिघर्मोऽनुक्तं घर्मदैवतम् ॥ ७ ॥ इति० संहितायां अष्टत्रिंशोध्यायः ॥ ३८ ॥
स्वाहा प्राणेभ्यो मान्त्रवर्णिक्यो देवता मनसःकाममनुष्टुब्यजमानाशीः श्रीर्देवता प्रजापतिः संभ्रियमाणो यथाकालं प्रायश्चित्तदेवताः सविता प्रथमेऽहन्त्यहं क्रमेणोग्रश्च मारुती गायत्री विमुखाख्यो मनोऽग्नौ विनियुक्तस्तस्मादाग्निक एवास्य ऋषिः परमेष्ठी प्राजापत्यो वाग्निᳪ हृदयेनाश्वमेधिकानि त्रीणि तत्रोक्त एव ऋषिर्लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिᳪशत् ॥८॥ इति० एकोनचत्वारिंशोऽध्यायः ॥३९॥
ईशावास्यमात्मदेवत्य आनुष्टुभोऽध्याय अनेजदेकं त्रिष्टुप् सपरि जगती वायुरनिलं यजुषी ॐ३मिति परमाक्षरस्य योगिनामालम्बभूतस्य परस्य ब्रह्मणः प्रणवाख्यस्यास्थूलादिगुणयुक्तस्य ब्रह्मऋषिश्छन्दोगायत्रं परमात्मा देवता ब्रह्मारम्भे विरामे च यागहोमादिषु शान्तिपुष्टिकर्मसु चान्येष्वपि काम्यनैमित्तिकादिषु सर्वेषु विनियोगोऽस्य क्रतो त्रिभिर्यजुर्भिरन्ते यज्ञान्योगी स्मारयत्यनेनयान्तनमस्कारोक्तिर्हिरण्मयेनादित्योपासनमो ३ मिति नामनिर्देशो ब्रह्मणः खंब्रह्मेत्याकाशरूपमन्ते ब्रह्म ध्यायेत् ॥ ९॥ इति चत्वारिंशोsध्यायः ॥ ४० ॥
अथातश्छन्दोदेवता गायच्या अग्निरुष्णिहः सवितानुष्टुभः सोमो बृहत्या बृहस्पतिः पङ्क्तेर्वरुणस्त्रिष्टुभ इन्द्रो जगत्या विश्वेदेवा विराजो मित्रः स्वराजोऽरुणोऽतिच्छन्दसः प्रजापतिर्विच्छन्दसो वायुर्द्विपदायाः पुरुष एकपदाया ब्रह्मा सर्वा च आग्नेय्यः सर्वाणि यजूᳪषि वायव्यानि सर्वाणि सामानि सौराणि सर्वाणि ब्राह्मणानि च स्वाहाकारस्याग्निर्वषट्कारस्य विश्वेदेवाः