पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इन्द्रमिडः सौत्रामणिकोऽध्याय एकादश प्रयाजप्रैषा ऐन्द्रा आप्रीदेवत्या आद्येऽनुवाके देवंबर्हिरनुयाजप्रैषा ऐन्द्रा एकादशैवाग्निमद्येन्द्रः सूक्तवाकप्रैषस्त्वामद्य प्रतीक उभयत्रापि समिधानं महद्वायोधस आप्रिय एकादश प्रयाजप्रैषास्तथैव देवंबर्हिरनुयाजप्रैषा अग्निमद्य वायोधसः सूक्तवाकप्रैषः ॥ १० ॥ इति० संहितायामष्टाविंशोऽध्यायः ॥२८॥
समिद्धो अञ्जनाश्वमेधिकोऽध्याय आद्या आप्रीस्त्रिष्टुभ एकादशाश्वस्तुतिर्बृहदुक्थो वामदेव्यो ददर्शाश्वो वा सामुद्रिर्यदक्रन्दस्त्रयोदशाश्वस्तुतिस्त्रिष्टुभो भार्गवो जमदग्निर्ददर्श दीर्घतमाश्च समिद्धो अद्य द्वादशाप्रीस्त्रिष्टुभो जमदग्निः ॥११॥ केतुं कृण्वन्नाग्नेयीमनिरुक्तां गायत्रीं मधुच्छन्दा जीमूतस्येव पायुर्भारद्वाजः संग्रामाङ्गान्यृक्षोस्तौषीत्सन्नाहं कार्मुकं गुणमार्त्नीतूणं जगत्यर्धेन सारथिमर्धेन रश्मीन्हरीन्रथगोपायितॄन्जगत्या लिङ्गोक्तदेवता द्वाभ्यां त्रिष्टुबनुष्टुब्भ्यामिषुमनुष्टुभा कशां ततो हस्तघ्नं ततस्तृचौ रथदुन्दुभिदेवत्यावैन्द्रोऽर्धर्चोन्त्याः सर्वास्त्रिष्टुभोऽनुक्ता आग्नेय्यः कृष्णग्रीव इत्याद्या एकादशिन्योर्द्वयोः पशुदेवता अग्नये गायत्रायेति दश हविषोवेष्टेर्दैवता ॥१२॥ इति० संहितायामेकोनत्रिंशोऽध्यायः ॥ २९ ॥
देवसवितर्द्वावध्यायौ पुरुषमेधो नारायणः पुरुषो ददर्श विश्वानि देवगायत्रीᳪ सावित्रीᳪ श्यावाश्वो विभक्तारं मेधातिथिर्ब्रह्मणे ब्राह्मणमिति द्वे कण्डिके तपसेऽनुवाकश्च ब्राह्मणम् ॥ १३ ॥ इति० संहितायां त्रिंशोऽध्यायः ॥ ३० ॥
सहस्रशीर्षा षोडशर्चमानुष्टुभं त्रिष्टुबन्तं पुरुषो जगद्बीजमन्त्रदेवताद्भ्यः षडृच उत्तरनारायणो मन्त्र आद्यास्तिस्रस्त्रिष्टुभो द्वे अनुष्टुभावन्त्या त्रिष्टुप् ॥ १४ ॥ इति० संहितायामेकत्रिमशोऽध्यायः ॥ ३१ ॥ तदेव सर्वमेधोऽध्याय आत्मदैवतः सप्तमेहनि सर्वहोमे विनियुक्तः सर्वमेधं ब्रह्म स्वयंभ्वैक्षत तदीयं मन्त्रगणं प्रवायुमच्छेत्येतस्मादाद्ये द्वे अनुष्टुभौ नतस्य द्विपदागायत्री हिरण्यगर्भश्चतस्रो मामाहिᳪसीद्यस्मान्नद्वे एताः प्रतीकचोदिता ब्रह्मयज्ञे ध्येयाः सर्वत्रैवमेपोह चतस्रस्त्रिष्टुभ आपोह यश्चित्प्रतीकचोदिते ॥१५॥ वेनस्तत्पञ्च त्रिष्टुभः सदसस्पतिं तृचेन मेधाकामो मेधां याचते प्रथमा गायत्री लिङ्गोक्तदेवता द्वितीयाग्नेय्यनुष्टुप् तृतीया लिङ्गोक्तदेवतानुष्टुबिदं मे मान्त्रवर्णिक्यनुष्टबेतया देवेभ्यः श्रीकामो याचते श्रियम् ॥ १६ ॥ इति० संहितायां द्वात्रिंशोऽध्यायः ॥ ३२ ॥
अस्याजरासः सप्तदशाग्निष्टुत्याग्निष्टोमिके प्रथमेहनि पुरोरुच आग्नेय्य आद्ये द्वे ऐन्द्रवायवस्यास्याजरासो वत्सप्रीर्हरयो धूमकेतवो विरूपो यजमानो द्वे मैत्रावरुणस्य यजमानो गोतमो द्वे विरूपे शुक्रस्य कुत्सोऽयमिह मन्थिनो वैश्वदेवग्रहग्रहणे त्रीणि शता विश्वामित्र ऐन्द्राग्नस्याग्निर्वृत्राणि भरद्वाजो वैश्वदेवस्य विश्वेभिः सोम्यं मेधातिथिरायन्मरुत्वतीययोर्द्वे आयत्पराशरः शाक्त्योऽग्नेशर्धाऽत्रिदुहिता विश्ववारा त्वाᳪहि भरद्वाजस्त्वे अग्ने द्वे बृहत्यावादित्यस्य त्वे अग्ने वसिष्ठः श्रुधि प्रस्कण्व आदित्यग्रहग्रहणे विश्वेषामदितिर्वामदेवो गोतमो महो अग्नेः सावित्रस्य लुशो धानाकोऽनुक्तं गायत्रं त्रैष्टुभम् ॥ १७ ॥ इन्द्रस्तुत्युक्थ्ये द्वितीयेहनि ऐन्द्र्यः पुरोरुचो द्वादश प्रतीकचोदिते च द्वे तिस्रश्चापश्चिद्वसिष्ठो गाव उप पुरुमीढाजमीढौ यदद्य वसिष्ठ आसुते सुनीतिरातिष्ठतं विश्वामित्रः प्रवः सुचीको बृहन्नित्रिशोक इन्द्रेहि मधुच्छन्दा इन्द्रो वृत्रविश्वामित्रः कुतस्त्वमगस्त्य आतद्गौरिवीतिः शाक्त्य इमांते कुत्सो जगतीमनुक्तं गायत्रं त्रैष्टुभम् ॥ १८ ॥ सूर्यस्तुत्युक्थ्ये तृतीयेहनि सौर्यश्चतुर्दश पुरोरुचस्तिस्रश्च प्रतीकोक्ता विभ्राड्बृहज्जगतीं विभ्राट्सौर्य उदुत्यं तिस्रः प्रस्कण्व आनोऽगस्त्यो यदद्य श्रुतकक्षः सुतकक्षौ तरणिः प्रस्कण्वस्तत्सूर्यस्य द्वे कुत्सो बण्महाँ२ऽद्वे जमदग्निर्बृतीसतोबृहत्यौ श्रायन्त इव नृमेधो बृहती मत्याद्या (१) देवाः कुत्स आकृष्णेन हिरण्यस्तूप आङ्गिरसोऽनाख्यातᳪ सौर्यं गायत्रं त्रैष्टुभम् ॥ १९ ॥ वैश्वदेवस्तुतिश्चतुर्थेहनि वैश्वदेव्यः पुरोरुच एकादश षट् च प्रतीकोक्ताः प्रवावृजे वसिष्ठस्त्रिष्टुभमिन्द्रवायू बृहस्पतिं द्वे मेधातिथिरधिनः कुसीदीकाण्वोऽग्नइन्द्रप्रतिक्षत्र इन्द्राग्नी मित्रावरुणा जगतीं काश्यपोऽवत्सारोऽस्मेरुद्राः प्रगाथोऽर्वांचो अद्य कूर्मो गार्त्समदो विश्वे अद्य लुशो धानाको विश्वेदेवाः सुहोत्रो देवेभ्यो हि वामदेवो जगतीमनुक्तं गायत्रं त्रैष्टुभम् ॥२०॥ अथानारभ्याधीतं मन्त्रगणमर्वाक्
पितृमेधादादित्ययाज्ञवल्क्यौ ददृशतुः प्रवायुं पञ्चदशर्चः पुरोरुग्गणो द्वे च प्रतीकोक्ते प्रवायुमृजिश्वो मित्रᳪ हुवे द्वे मधुच्छन्दा मित्रं लिङ्गोक्ता दस्रायुवाकव आश्विनीं विदद्यद्यैन्द्रीं कुशिको नहिस्पशं विश्वामित्रो वैश्वानरीमुग्राविधनि ऐन्द्राग्नीं भरद्वाज उपास्मै सौमीं देवलोसितो वा ये त्वा विश्वामित्रो जनिष्ठा उग्रो गौरिवीतिरातु वामदेवस्तृचमैन्द्रं त्वमिन्दैन्द्र्यौ नृमेधः पथ्याबृहतीसतोबृहत्यौ यज्ञो देवानां कुत्सोऽदब्धेभिः सावित्रीं जगतीं भरद्वाजः ॥२१॥ प्रवीरया पञ्चदशर्चः पुरोरुग्गणो द्वेच प्रतीकोक्ते प्रवीरया वसिष्ठो वायव्याकाव्ययोराजानेषु दक्षस्तिरश्चीनः परमेष्ठीं प्रजापतिर्भाववृत्तं तृचमारोदसीं जगतीं विश्वामित्र उक्थेभिर्वृत्रहन्तमा वसिष्ठ उपनः सुहोत्रो वैश्वदेवीं ब्रह्माणि मेऽगस्त्यो द्वे इन्द्रमरुत्संवादे तदिदाथर्वणो बृहद्दिव इमाउत्वा द्वे बृहत्यौ मेधातिथिरयᳪ सहस्रं मेधातिथिः सतोबृहतीम् ॥ २२ ॥ आनस्त्रयोदशर्चः पुरोरुग्गणश्चतुर्ऋचं प्रतीकचोदितं चानो वायव्यां जमदग्निरिन्द्रवायू सुसंदृशैन्द्रवायव्या तापस ऋधगित्था मैत्रावरुणीं जमदग्निरायातमाश्विनीं वसिष्ठः प्रैतु वैश्वदेवीं कण्वश्चन्द्रमा अपस्वैन्द्रीमारुती परिणामवादिनीं त्रितआप्त्यो देवंदेवं वो मनुर्वैवस्वतो वैश्वदेवीं दिविपृष्ठो मृध ऐन्द्र इन्द्राग्नी अपात्सुहोत्रो देवासो हि मनुरपाधम द्वे नृमेधोऽस्येन्मेधातिथिर्दशम्येकादश्यन्त्या च सतोबृहत्यः शेषा