पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

एवेद्वसिष्ठः ॥ ३८॥ अथ होत्रं त्रिपशोः समिद्धो अग्निराप्रीर्द्वादश विदर्भिरश्विसरस्वतीन्द्रदेवत्या अनुष्टुभोऽश्विना हविस्तिस्रोऽनुष्टभ एकैकाश्विसरस्वतीन्द्रदेवत्या य इन्द्र सवितृवरुणदेवत्यास्तिस्रोऽनुष्टुभोऽविश्वना गोभिस्तिस्रोऽनुष्टुभो युवं पुत्रमिवानुष्टुप्त्रिष्टुभौ यस्मिन्नश्वास आग्नेय्यौ जगतीत्रिष्टुभावश्विनातेजसैकादर्चᳪ शस्त्रं गोमद्गृत्समदस्तृचमाश्विनं गायत्रं पावका नो मधुच्छन्दाः सारस्वतमिन्द्रायाह्यैन्द्रं मधुच्छन्दा एवानुक्ततमानुष्टुभमश्विसरस्वतीन्द्रदेवत्यम् ॥ ३९॥ इति० संहितायां विंशोऽध्यायः ॥ २० ॥
इमंमे गायत्रीत्रिष्टुभौ वारुण्यौ शुनःशेपस्त्वंनस्त्रिष्टुभावाग्निवारुण्यौ वामदेवो महीमूषु त्रिष्टुबादित्या सुत्रामाणं गयःप्लातः सुनावत्रैस्वर्ग्या गायत्र्यानो मैत्रावरुणीं गायत्रीं विश्वामित्रः प्रबाहवा वसिष्ठस्त्रिष्टुभᳪ समिद्धो अग्निरेकादशाप्रमानुष्टुभᳪ स्वस्त्यात्रेयस्यार्षं वयोधा इन्द्रो देवता वसन्तेन ऋतुना षडृचमानुष्टुभं लिङ्गोक्तदेवतᳪ होता यक्षद्द्वादशाप्रीः प्रैषा अश्विसरस्वतीन्द्रदेवत्या अश्विनौ छागस्य सप्त लिङ्गोक्तदेवताः प्रैषा वनस्पतिमभियूपोऽग्निᳪस्विष्टकृदग्निर्देवं बर्हिरेकादशानुयाजप्रैषा अश्विसरस्वतीन्द्रदेवत्या अग्निमद्य सूक्तवाकप्रैषो लिङ्गोक्तदेवतो लिङ्गोक्तदेवतः ॥ ४० ॥ इति० संहितायामेकविंशोऽध्यायः ॥२१॥ इति सर्वानुक्रमणिकायां द्वितीयोऽध्यायः ॥ २॥
ॐ अथाश्वमेधश्चतुरोऽध्यायान्प्रजापतिरपश्यत्तेजोसि सौवर्णं निष्कमिमामगृभ्णन्संवत्सरो यज्ञपुरुषस्त्रिष्टुभमभिधा लिङ्गोक्तानि यो अर्वन्तं गायत्र्यर्धेनाश्वस्तुतिः परोर्धे लिङ्गोक्तोऽग्नये लिङ्गोक्तान्येव हिंकारायेत्यश्वस्यैकान्नपञ्चाशञ्चेष्टितानि हिरण्यपाणिं पञ्चर्चᳪ सावित्रं गायत्रमाद्या मेधातिथिरग्निᳪस्तोमेनाग्नेयं तृचं गायत्रᳪ सुतंभरो विश्वामित्रो विरूपो यथासंख्यमजीजनो हि पावमानी कृतिं पिपीलिकमध्यामनुष्टुभं त्र्यरुणत्रसदस्यू विभूरश्वदेवतं देवा दैवमिहरन्तिराग्नेयानि चत्वारि कायौद्ग्रभणानि लिङ्गोक्तान्याब्रह्म लिङ्गोक्तान्येवाध्यायात् ॥ १ ॥ इति० संहितायां द्वाविंशोऽध्यायः ॥२२॥
प्रजापतये प्राजापत्यं यस्ते देवं यः प्राणतस्त्रिष्टुप् कायी हिरण्यगर्भस्य युञ्जन्ति मधुच्छन्दा आदित्यदेवत्यां गायत्रीं युञ्जन्त्यस्याश्वस्तुतिर्यद्वातो बृहतीमौ वसवस्त्वा लिङ्गोक्तानि लाजी २ नश्वदेवत्यं कःस्विच्चतस्रोऽनुष्टुभः प्रश्नप्रतिप्रश्नभूतब्रह्मोद्ये होतुर्ब्रह्मणश्च वायुष्ट्वा लिङ्गोक्तानि सᳪशितस्तिस्रोऽश्वदेवत्या अनुष्टुब्विराट्त्रिष्टुभोऽग्निः पशुराश्वानि त्रीण्यम्बेनुष्टुबश्वस्तुतिर्गणानां त्वा चत्वारि लिङ्गोक्तानि ॥३॥ उत्सक्थ्या गायत्र्याश्वी एकादशर्चमानुष्टुभं द्वितीया तूपरिष्टाद्बृहत्यध्वर्य्वादीनां कुमार्यादिभिरश्लीलभाषणं ता एव देवता दधिक्राव्णो दधिक्रावा वामदेव्यः सुरभिमतीमनुष्टुभमाश्वीं गायत्रीᳪषडृचमाश्वमुष्णिगाद्याश्चतस्रोऽनुष्टुभोन्त्यात्रिष्टुप् कस्त्वा षडृचमाश्वमाद्या गायत्री पञ्चानुष्टुभः कःस्विदष्टादशर्चं ब्रह्मोद्यᳪ होत्रादीनां प्रश्नप्रतिप्रश्नभूतमाद्याश्चतस्रोऽनुष्टुभः कास्विदाद्याश्चतस्रश्चान्त्या दश त्रिष्टुभः सुभूरनुष्टुब्लिङ्गोक्तदेवता होतायक्षत्प्राजापत्यः प्रैषः प्रजापतेर्हिरण्यगर्भः प्राजापत्या त्रैष्टुभम् ॥४॥ इति० संहितायां त्रयोविंशोऽध्यायः ॥ २३ ॥
अश्वस्तूपर इत्यादयः पशवोऽध्याये नोक्ता देवता वा पर्यङ्ग्यास्तथा रोहितादयो गुणयुक्ता आरण्याश्च कपिञ्जलादय आध्यायाच्छादं दद्भिरित्यादित्वगित्येतदन्तं द्रव्यदैवतमुक्तमश्वस्तूपरो ब्राह्मणोऽध्यायः ॥ ४ ॥ इति० संहितायां चतुर्विंशोऽध्यायः ॥ २४ ॥ ।
शादं दद्भिस्त्वचान्तश्च जुम्बकाय वारुणीं द्विपदां मुण्डिभ ओदन्य एषा चाघनाशन्यन्तर्जले यस्येमे काव्यौ त्रिष्टुभौ हिरण्यगर्भः प्राजापत्य आनो दशर्चं जागतं वैश्वदेवं गोतमः स्वस्तिनो विराट्स्थाना भद्रंकर्णेभिस्तृचं त्रैष्टुभं मानोऽश्वस्तोमीयं दीर्घतमास्त्रैष्टुभं द्वाविᳪशत्यृचमश्वस्तुतिस्तृतीयाषष्ठ्यौ जगत्याविमानु द्वैपदं वैश्वदेवं तृचं भौवन आप्त्यो वा साधनभौवनो वा ॥५॥ इति० संहितायां पञ्चविंशोऽध्यायः॥२५॥
अग्निश्च सप्त लिङ्गोक्तानि प्रियो देवानां लौगाक्षिरनुष्टुभमनवसानां बृहस्पते गृत्समदो ब्राह्मीं त्रिष्टुभमिन्द्रगोमन्नैन्द्र्यौ गायत्र्यौ रम्याक्षिर्ऋतावानं प्रादुराक्षिर्वैश्वानरीयां वैश्वानरस्य त्रिष्टुभं कुत्सोऽग्निर्ऋषिराग्नेयीं गायत्रीं वसिष्ठभरद्वाजौ महां२ऽइन्द्रो माहेन्द्री वसिष्ठस्तंव ऐन्द्रीं पथ्या
बृहतीं नोधा गोतमो यद्वाहिष्ठं वसूयव आग्नेयीमनुष्टुभमेहि भरद्वाजो गायत्रीमृतवस्ते बृहत्युपह्वरे वत्सो गायत्रीम् ॥ ६ ॥ उच्चा ते गायत्रं तृचᳪ सौम्यमामहीयवोऽनुवीरैर्मुद्गलो यज्ञपुरुषस्त्रिष्टुभमग्नेपत्नीर्मेधातिथिराग्नेयीं गायत्रीमभियज्ञं द्व्यृचमृतुदैवतं मेधातिथिस्तवायमैन्द्री त्रिष्टुभं विश्वामित्रोऽमेवनो जगतीं गृत्समदः स्वादिष्ठया मधुच्छन्दाः सौम्यावनुक्तानां गायत्रम् ॥ ७ ॥ इति० संहितायां षड्विंशोऽध्यायः ॥ २६ ॥
समास्त्वाग्निकोऽध्यायः प्रजापतेरार्षᳪ, सामिधेन्यो नवाग्नेय्यस्त्रिष्टुभोऽग्निना दृष्टा अग्निर्ऋषिः कर्माङ्गभूतमग्निᳪ स्तौत्यूर्ध्वा द्वादशर्चमाप्रियमौष्णिहं विषमपदं प्राजापत्यमाग्नेयमग्निरपश्यदग्निर्हि प्रजापतित्वेन संस्तूयते तेन प्राजापत्यम् ॥८॥ पीवो अन्नां द्वे वायव्ये त्रिष्टुभौ वसिष्ठ आपोह द्वे प्राजापत्ये हिरण्यगर्भः प्राजापत्यः प्रयाभिर्द्वे वायव्ये वसिष्ठो नियुत्वान्वायव्याः षड्वायोशुक्रोऽनुष्टुबेकया च त्रिष्टुबन्त्या गायत्र्यो नियुत्वान्वायो गृत्समदो वायो शुक्रः पुरुमीढाजमीढौ तववायो व्यश्व आङ्गिरसोऽभित्वा वसिष्ठ ऐन्द्रं प्रगाथं प्रथमा बृहती द्वितीया सतोबृहती त्वामिदेवᳪ शंयुर्बार्हस्पत्यः कयान ऐन्द्रं तृचं गायत्रं वामदेवोऽन्त्या तु पादनिचृद्यज्ञा ऊर्जोनपातᳪ शंयुः पाहि नो गर्भः प्रागाथ एतं तृचं प्रागाथमाग्नेयं द्वे बृहत्यौ तृतीया सतोबृहती संवत्सरोऽस्याग्नेयम् ॥ ९॥ इति० संहितायां सप्तविंशोऽध्यायः ॥ २७ ॥