पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गायत्रमुदुत्वा तापसोऽनुष्टुभं प्रेदनुष्टुप्प्रप्रायमाग्नेयीं वसिष्ठस्य त्रिष्टुभमापोदेवीराप्यस्वग्ने विरूप आग्नेयीं गायत्री गर्भो असि तिस्रोऽनुष्टुभो बोधा मे दीर्घतमास्त्रिष्टुभᳪ सबोधि सोमाहुतिराग्नेयीं यजुरन्ता गायत्री यजुर्वैश्वकर्मणं पुनस्त्वा त्रिष्टुबाग्नेयी ॥ ८ ॥ अपेत लिङ्गोक्तबहुदेवत्या संज्ञानमूषदेवत्यमग्नेः सिकताश्चितः परिश्रितोऽयᳪसः पञ्चर्चमाग्नेयं त्रैष्टुभं विश्वामित्रश्चतुर्थ्यनुष्टुबयं तेऽनुष्टुप्चिदैष्टके लोकं लिङ्गोतानुष्टुप् ता अस्यापीन्द्रियमेध ऐन्द्र इन्द्रं जेतामाधुच्छन्दस ऐन्द्रीᳪ समितंचतस्रो द्व्यग्निदेवत्या उष्णिगुपरिष्टाद्बृहत्युष्णिक्पङ्क्तयो मातेवोखास्तुतिस्त्रिष्टुप् ॥ ९॥ असुन्वन्तं नैर्ऋतं तृचं त्रैष्टुभं यं ते यजमानदेवत्या नमोविराड्भूतिदेवत्येकपदा निवेशन आग्नेयीं त्रिष्टुभं विश्वावसुर्देवगन्धर्वः सीरा द्वे सीरदेवत्ये बुधः सौम्यो गायत्रीत्रिष्टुभौ शुनं चतस्रः सीतादेवत्याः कुमारहरितो द्वे त्रिष्टुभौ तृतीयापङ्क्तिश्चतुर्थ्यनुष्टुब्विमुच्यध्वमानडुही गायत्री सजूर्लिङ्गोक्तदेवतम् ॥१०॥ या ओषधीः सप्तविᳪशतिरनुष्टुभ ओषधिस्तुतिमाथर्वणो भिषङ्मुञ्चन्तु बन्धुर्द्वादशानारभ्याधीतामामाहिरण्यगर्भः कायीं त्रिष्टुभमभ्यावर्तस्वोष्णिगाग्नेय्यग्नेयद्गायत्रीयं त्रिष्टुबग्न्नेतव पावकोऽग्निराग्नेयᳪ षडृचं प्रथमे विष्टारपङ्क्ती तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिः षष्ठ्याप्यायस्वगोतमः सोमो गायत्री त्रिष्टुबुष्णिह आतेऽवत्सारस्तुभ्यंता द्वे विरूपस्तिस्रो गायत्र्य आग्नेय्यः॥ ११ ॥ इति० संहितायां द्वादशोऽध्यायः॥१२॥ मयिककुबाग्नेयी ब्रह्मादित्यदेवत्या त्रिष्टुब्भिरण्यगर्भः कायीं त्रिष्टुभं द्रप्सो देवश्रवा आदित्यो नमोस्तु सार्पं तृचमानुष्टुभं कृणुष्वपञ्चप्रतिसरा राक्षोघ्ना देवानामार्षᳪ सर्वास्त्रिष्टुभ आग्नेयीर्वामदेवश्चापश्यदग्नेष्ट्वा यजुराग्नेयमिन्द्रस्यैन्द्रं भुवस्त्रिशिरा आग्नेयीं त्रिष्टुभम् ॥ १२ ॥ ध्रुवास्यूर्ध्वबृहती प्रजापतिरनुष्टुप् भूरसि प्रस्तारपङ्क्तिरसाᳪ स्वयमातृण्णादेवता विश्वस्मा इत्येतस्य च यजुषः काण्डात्काण्डादानुष्टुभं द्व्यृचमग्निना दृष्टं दूर्वेष्टुकादेवतं यास्त आग्नेयं द्व्यृचमानुष्टुभमिन्द्राग्निभ्यां दृष्टं विराडयं लोकः स्वराडसौ लोकः प्रजापतिष्ट्वा विश्वज्योतिषं मधुश्चतुर्दैवतमषाढासि सवितापश्यद्देवावापश्यन्निष्टकादैवतम् ॥ १३ ॥ मधुवाता वैश्वदेवं तृचं गायत्रं गोतमोपां गम्भन्पङ्क्तिस्त्रीन्समुद्रांस्त्रिष्टुप्कौर्म्यं द्व्यृचं ध्रुवासि त्रिष्टुबिपेबृहत्यौरवं द्व्यृचमग्ने युक्ष्वाग्नेयं द्व्यृचं गायत्रमाद्यायां भरद्वाजो द्वितीयस्यां विरूपः सम्यक्त्रिष्टुब्लिङ्गोक्तदेवतर्चेत्वाबृहत्यग्निर्ज्योतिषोष्णिगादित्यं गर्भं पञ्चर्चमाग्नेयं त्रैष्टुभमिमंमा पञ्चर्चमाग्नेयं त्रैष्टुभमेव द्वेद्वेचाते यजुषी त्वंयविष्ठोशनाः काव्य आग्नेयीमनिरुक्तां गायत्रीमपात्वा विᳪशतिरैष्टकान्ययं पुरः पञ्चाशत्प्राणभृद्देवत्यानि लोकं ता इन्द्रं तिस्रः प्रतीकोक्ता एवᳪ सर्वत्र ॥१४॥ इति० संहितायां त्रयोदशोऽध्यायः॥१३॥
अथ द्वितीयाचितिः । ध्रुवक्षितिः पञ्चाश्विन्यस्तासां प्रथमा विराट्चतस्रस्त्रिष्टुभो यजुरन्ताः शुक्रश्चर्तव्यᳪ, सजूः पञ्च विश्वेषां देवानामार्षं ता एव देवताः प्राणं मे पञ्च वायव्यान्यपः पञ्चापानि मूर्धावय एकोनविᳪशतिर्लिङ्गोक्तदेवतानि ॥१५॥ अथ तृतीयेन्द्राग्नी अनुष्टुप् पूर्वोर्धर्च ऐन्द्राग्न उत्तरः , स्वयमातृण्णादेवतो विश्वकर्मा वायव्यᳪ राज्ञ्यसि पञ्च दिग्देवत्यानि विश्वकर्मा वायव्यं नभश्चेषश्चर्तव्ये आयुर्मे दश लिङ्गोक्तदेवतानि माच्छन्दश्च षट्त्रिᳪशन्मूर्धानुष्टुब्यत्त्री परोष्णिक्चतुर्दश यजूᳪषि प्राणदेवत्यानि ॥१६॥ अथ चतुर्थ्याशुरष्टादशाग्नेर्दशैकया सप्तदश सर्वाणि लिङ्गोक्तदेवतानि सहश्चर्तव्यम् ॥ १७ ॥ इति० संहितायां चतुर्दशोऽध्यायः ॥ १४ ॥
अथ पञ्चम्यग्नेजातानाग्नेय्यौ त्रिष्टुभौ षोडशीचतुश्चत्वारिᳪशल्लिङ्गोक्ते अग्नेस्त्रिष्टुप् एवश्चत्वारिᳪशद्रश्मिनैकान्नत्रिᳪशद्राज्ञ्यसि पञ्चायंपुरः पञ्चैतानि सर्वाणि लिङ्गोक्तदेवतानि
॥ १८ ॥ अग्निर्मूर्धाग्नेयोऽनुवाकः प्रथमस्तृचो गायत्रो द्वितीयस्त्रैष्टुभो भुवस्तृतीयो जागतोऽयमिह चतुर्थ आनुष्टुभः सखायः सं पञ्चमः प्रगाथ एनावस्तत्र पूर्वा बृहती सतोबृहत्युत्तरा ताभ्यां तिस्रो बृहत्यः संपादिताः षष्ठ औष्णिहोऽग्नेवाजस्य गोतमः सप्तमः पुनः ककुभः प्रगाथो भद्रो नस्तत्र पूर्वा ककुप्सतोबृहत्युत्तराभ्यां तिस्रः ककुभः संपादिता अष्टमः पाङ्क्तोऽग्निं तं पदपाङ्क्तो नवमोऽग्ने तमग्निᳪ होतारतिछन्दा
स्त्र्यवसानाग्नेत्वं द्वैपदस्तृचः ॥ १९ ॥ अयमग्निर्विरूपोऽबोधिबुधगविष्ठिरो जनस्य सुतंभरः सखाय इषः सᳪसमित्संवननस्त्वां प्रस्कण्व एनावो वसिष्ठोऽग्नेवाजस्य गोतमो भद्रो नः सौभरिरग्निं तं कुमारवृषौ येनाष्टावाग्नेय्यः षट्त्रिष्टुभो द्वे अनुष्टुभौ तदश्चर्तव्यं परमेष्ठी सौरं प्रोथदश्वी वसिष्ठस्त्रिष्टुभमाग्नेयीमायोर्द्वे स्वयमातृण्णदेवत्ये सहस्रस्य पञ्चाग्नेयानि ॥२०॥
इति० संहितायां पञ्चदशोऽध्यायः ॥ १५ ॥
रौद्रोध्यायः । परमेष्ठिन आप देवानां वा प्रजापतेर्वाद्योऽनुवाकः षोडशर्च एकरुद्रदेवत्यः प्रथमा गायत्री तिस्रोऽनुष्टुभस्तिस्रः पङ्क्तयः सप्तानुष्टुभो द्वे जगत्यौ मानो द्वे कुत्सः ॥२१॥ अन्त्यानुवाके सप्तैकरुद्रस्तुतिराद्योपरिष्टाद्बृहती द्वितीया जगती कुत्सस्य तृतीयानुष्टुब्द्वे त्रिष्टुभौ द्वे अनुष्टुभावसंख्याता बहुरुद्रदेवत्या दशानुष्टुभो मन्त्रा अवतानसंज्ञकास्ततोऽन्त्यानि त्रीणि यजूᳪषि बहुरुद्रदेवत्यानि प्रत्यवरोहसंज्ञका मन्त्राः ॥२२॥ मध्ये सर्वाणि यजूᳪषि हिरण्यबाहव इति तिस्रोऽशीतयो रुद्राणां तेषामुभयतोनमस्कारा अन्येऽन्यतरतोनमस्कारा अपरे जातानामरुद्राः सभाभ्य इत्यादयो नमो वः किरिकेभ्य इत्यग्निवायुसूर्यहृदयभूताः पञ्च व्याहृतयो बहुरुद्रदेवत्याः ॥२३॥ इति० संहितायां षोडशोऽध्यायः ॥१६॥
अश्मन्मारुतमश्मᳪस्तेऽश्मा मय्याशीर्यं द्विष्म आभिचारिकमिमाम आग्नेयमृतवो बृहती पङ्क्तिर्वा समुद्रस्य द्वे गायत्र्यावुपज्मं जगती त्रिष्टुब्वापामिदं बृहत्यग्ने पावक व सूयवः स नो मेधातिथिराग्नेय्यौ गायत्र्यौ पावकया जगतीं भरद्वाजो नमस्ते बृहतीमाग्नेयीमृषिसुता लोपामुद्रा ॥ २४ ॥ नृषदे