पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सौमीं गायत्रीं नैध्रुविः कश्यपः ॥ ३३ ॥ इति० संहितायामष्टमोऽध्यायः ॥ ८॥
अथ वाजपेयो बृहस्पतेरार्षमिन्द्रस्य च देवसवितः सावित्री त्रिष्टुप् ध्रुवसदमैन्द्राणि त्रीण्यपाᳪरसदेवत्यानुष्टब् ग्रहा लिङ्गोक्तदेवतानुष्टुप्संपृचौ यजुषीन्द्रस्य रथो वाजस्य पार्थिव्यतिजगत्यन्त्यः पादः सावित्रोऽप्स्वन्तरश्वदेवत्यानवसाना पुरउष्णिग्वातो वा तिस्रोऽश्वस्तुतय उष्णिक्त्रिष्टुब्जगत्यो वाजिनोऽश्वा देवस्याहं लिङ्गोक्तानि वाजिनोऽश्वा एषस्य द्वे दधिक्रावावामदेव्योक्तदेवत्ये जगत्यौ शंनो वसिष्ठो विराजं तेनो नाभानेदिष्ठो जगतीं वाजेवाजे वसिष्ठस्त्रिष्टुभमामा प्राजापत्यां वाजिनोक्ताः ॥३४॥ आपय आयुर्यज्ञेन प्राजापत्यानि प्रजापतेः स्वरमृता यजमानोस्मे दिशो नमः पृथिवीयमासंदीयं तासुन्वन्वाजस्य प्राजापत्यं तृचं त्रैष्टुभᳪ सोमं तृचं तापस आद्या वैश्वदेव्यनिरुक्तानुष्टुब्द्वितीया लिङ्गोक्तदेवता तृतीयाग्नेयी प्रनो लिङ्गोक्ता गायत्री सरस्वत्यै सुन्वन्नग्निः सप्तदश लिङ्गोक्तदेवतानि ॥३५॥ अथ राजसूयो वरुणस्यार्षमेष ते पार्थिवमग्निनेत्रेभ्यो देवार्षाण्याध्यायाद्दशाद्यानि दैवान्यग्ने सहस्व देवश्रवा देववातश्च भारतावाग्नेयीमनुष्टुभमुपाᳪशोस्त्रीणि रक्षोघ्नानि सविता द्वे यजमानः ॥ ३६॥ इति० संहितायां नवमोध्यायः ॥ ९ ॥
अपोदेवा आपत्रिष्टुप् वृष्ण ऊर्मिर्लिङ्गोक्तानि मधुमतीरनाधृष्टा आपः सोमस्य चर्माग्नये लिङ्गोक्तान्यनिभृष्टमापसधमादो वारुणी त्रिष्टुप् क्षरस्य चतुर्णां तार्प्यपाण्ड्वाधीवासोष्णीषाणीन्द्रस्य धनुर्मित्रस्य बाहू त्वयायं धनुर्द्वातिसृणामिषव आविः प्राजापत्यं पराणि लिङ्गोक्तानि ॥३७॥ अवेष्टा मृत्युनाशनं प्राचीं पञ्चानां यजमानः प्रत्यस्तमासुरं मृत्योरोजोऽसि रुक्मो हिरण्यरूपौ मैत्रावारुणी त्रिष्टुब्यजुरन्ता सोमस्य सुन्वन्प्रपर्वतस्यापी त्रिष्टुब् विष्णोस्त्रीणि लिङ्गोक्तानि सुन्वन्प्रजापतेन प्राजापत्या त्रिष्टुब्यजुर्मध्योयममुष्यजू रुद्रयद्रौद्रम् ॥३८॥ इन्द्रस्य लिङ्गोक्तानि मा ते संवरणः प्राजापत्य ऐन्द्रीं त्रिष्टुभमग्नये लिङ्गोक्तानि पृथिवि मातर्भूमिर्हᳪसो वामदेवः सौरीᳪ सप्रपञ्चपरब्रह्माभिधायिनीमतिजगतीमियच्छतमानावूर्गसि शाखेन्द्रस्य बाहू स्योनास्यासंदी क्षत्रस्याधीवासᳪ स्योनाᳪ, सुन्वन्निषसाद शुनःशेपो वारुणीं गायत्रीमभिभूरस्यक्षा यजमानो वा ब्रह्मᳪस्त्वमामन्त्रणानि पञ्च लिङ्गोक्तानीन्द्रस्य स्फ्योऽग्निः पृथुराग्नेयᳪ स्वाहाकृता अक्षाः सवित्रा लिङ्गोक्तदैवतम् ॥ ३९ ॥ अथ चरकसौत्रामण्यश्विनोरार्षमश्विभ्यां त्रीणि लिङ्गोक्तानि वायुः सौमी गायत्री कुवित्तृचᳪ सुकीर्तिः काक्षीवत आद्या सौम्यनिरुक्ता त्रिष्टुब्युवमनुष्टुप् पुत्रमिव त्रिष्टुबश्विसरस्वतीन्द्रदेवत्ये अश्विसरस्वतीन्द्रदेवत्ये ॥ ४० ॥ इति० संहितायां दशमोऽध्यायः ॥ १० ॥
इति सर्वानुक्रमणिकायां प्रथमोऽध्यायः ॥ १॥
अथाग्निं प्रजापतिरपश्यत्साध्या वापश्यन्सोऽग्निः पञ्चचितिकः प्रथमा चितिः प्रजापतेर्द्वितीया देवानां तृतीयेन्द्राग्न्योविश्वकर्मणश्चतुर्थ्यृषीणां पञ्चमी परमेष्ठिनोऽथ प्रतिकर्मदर्शिनो युञ्जानोष्टौ सावित्राणि सवितापश्यदाद्या तृतीया चानुष्टुप् चतुर्थीषष्ठ्यौ जगत्यौ द्वितीया गायत्री पञ्चमी त्रिष्टुबिमं नो यजुरन्ता गायत्र्यनवसानाददेऽभ्रिर्हस्तेऽनुष्टुब्यजुरन्ता ॥ १॥ प्रतूर्तं नाभानेदिष्ठ आश्वीमास्तारपङ्क्तिर्युञ्जाथां कुश्रिर्गार्दभीं गायत्रीं योगेयोगे शुनःशेप आजीं प्रतूर्वस्त्रिष्टुब्विराड्रूपा यजुर्गर्भोरुयजुः पृथिव्यास्त्रीण्याग्नेयान्यन्वग्निराग्नेयीं त्रिष्टुभं पुरोधस आगत्य मयोभुव आश्वीनमनुष्टुभमाक्रम्यानुष्टुप् द्यौस्ते बृहत्युत्क्राम विराडुदक्रमीत्त्रिष्टुबात्वा द्वे गृत्समद आग्नेय्यौ परिसोमको गायत्रीं परित्वा पायुरानुष्टुभं त्वमग्ने गृत्समदो जगतीम् ॥२॥ पृथिव्या आग्नेयमपां पुष्करपर्णᳪ स्वराट्पङ्क्तिः शर्म द्वे अनुष्टुभौ कृष्णाजिनपुष्करपर्णे पुरीष्योऽग्निस्त्वामग्ने तृचं भारद्वाज आग्नेयं गायत्रᳪ सीद होतर्देवश्रवा देववातश्च त्रिष्टुभं निहोता गृत्समदः सᳪसीदस्व प्रस्कण्वो बृहतीम् ॥ ३ ॥ अपोदेवीः सिन्धुद्वीप आपीं न्यङ्कुसारिणीᳪसंते त्रिष्टुप्पार्थिवोऽर्धो वायव्योऽर्धः सुजातोऽनुष्टुबाग्नेय्युदुतिष्ठ विश्वमनाः पथ्याबृहतीमूर्ध्वः कण्व उपरिष्टाद्बृहतीᳪ, सजातस्त्रितस्त्रिष्टुभᳪ, स्थिरो रासभेय्यनुष्टुबुष्णिग्वा शिवोभवाजी पथ्याबृहती प्रैतु लिङ्गोक्तमहापङ्क्तिस्त्र्यवसानाग्नेगायव्येकपदाग्नेय्यं तमग्निमाग्नेये ओषधयस्त्रिष्टुबनुष्टुभावोषधिदेवत्ये व्यस्यन्नाग्नेयोऽर्धर्चो विपाजसोत्कीलः कात्य आग्नेयीं त्रिष्टुभम् ॥ ४ ॥ आपो ह्यापᳪ, सिन्धुद्वीपस्तृचं गायत्रं मित्र उपरिष्टाद्बृहती मैत्री रुद्रा अनुष्टुब् रौद्री सᳪसृष्टां द्वे सिनीवालीदेवत्ये उखामादित्या मखस्य मृत्पिण्डो वसवस्त्वा लिङ्गोक्तानि सर्वत्रादित्यै रास्नादितिरौषं कृत्वायादित्योष्णिगदितिरावटं देवानां पञ्चौखानि मित्रस्य विश्वामित्रो मैत्रीं देवस्त्वा सावित्री बृहत्युत्थाय पूर्वोर्धर्च औष उत्तरो मैत्रः ॥५॥ आकूतिं लिङ्गोक्तान्यौद्ग्रभणानि मास्वौख्यौ गायत्रीत्रिष्टुभावग्निश्च पाद आग्नेयो द्र्वंनः सोमाहुतिराग्नेयीं गायत्रीं परस्या विरूप आङ्गिरसः परमस्या आरुणिरनुष्टुभं यदग्ने द्वे जमदग्निरहरहर्नाभानेदिष्ठस्त्रिष्टुभौ याः सेना अनुष्टुभः सर्वा आग्नेय्योऽन्त्योपरिष्टाद्बृहती ॥ इति० संहितायां
एकादशोऽध्यायः ॥ ११॥
दृशानो वत्सप्री त्रिष्टुभᳪ रौक्मीं नक्तोषासा कुत्स आग्नेयीं विश्वा श्यावाश्वः सावित्रीं जगतीᳪ, सुपर्णः कृतिश्चतुरवसाना गारुत्मती विषघ्नी विष्णोर्लिङ्गोक्ता न्यक्रन्दद्वत्सप्रीराग्नेयीं त्रिष्टुभमग्न ऊर्ध्वबृहती पुनर्गायत्र्यावात्वाध्रुवोऽनुष्टुभमुदुत्तमᳪ शुनःशेपो वारुणीं त्रिष्टुभमग्रे त्रित आग्नेयीᳪ हᳪस उक्ता जगतीह यजुरन्तान्ते बृहद्यजुः सीदत्वमाग्नेयी त्रिष्टुभमन्तरग्नेऽनुष्टुभौ ॥ ७ ॥ दिवस्पर्याग्नेयं त्रैष्टुभं द्वादशर्चं वत्सप्रीर्भालन्दनः समिधाग्निं विरूपाक्ष आङ्गिरस आग्नेयं