पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नस्त्रिष्टुब्यजुरन्ताग्नेय्युरुविष्णो वैष्णव्यनुष्टुब्यजुरन्ता देवसवितः सावित्रमेतत्वᳪ सौम्यᳪ स्वाहा निर्लिङ्गोक्तदेवतामग्ने व्रतपा आग्नेयमत्यन्यान्वनस्पतिरोषधे कुशतरुणᳪ स्वधिते परशुर्द्यां मातस्त्वं वनस्पतिः ॥ २२ ॥ इति० संहितायां पञ्चमोऽध्यायः ॥ ५॥
अग्रेणीः शकलं देवस्त्वा यूपः सुपिप्पलाभ्यश्च बालंद्यामग्रेण यूपो याते दीर्घतमा यूपदेवत्या त्रिष्टुभं ब्रह्म दृᳪह यूपदेवत्ये विष्णोः कर्माणि द्वे मेधातिथिर्वैष्णव्यौ गायत्र्यौ परिवीर्यूपो दिवस्वरुरेष ते यूप उपावीस्तृणमुपदेवा लिङ्गोक्तमृतस्य त्वा पशुरग्नीषोमाभ्यां लिङ्गोक्तमद्भ्योऽपां पशुरापोदेवीरापᳪसं ते पशुर्घृतेन स्वरुशासौ रेवती वाग्वर्षो तृणᳪ स्वाहा दैवे ॥ २३ ॥ माहिर्भूरज्जुर्नमस्ते यज्ञो देवीरापोर्धमापमर्धमाशीर्वाचं ते मनस्ते पशुशं लिङ्गोक्तमोषधे तृणᳪ स्वधितेऽसी रक्षसां लिङ्गोक्तं निरस्तमिदमहᳪ, रक्षोहणी घृतेन द्यावापृथिव्यं वायो वायव्यमग्निराज्यस्याग्नेयᳪ स्वाहाकृते वपाश्रपण्याविदमाप आपी महापङ्क्तिस्त्र्यवसाना पावमानश्चान्त्यः पादः सं ते हृदयᳪ रेडसि वसाप्रयुतं लिङ्गोक्तं घृतं वैश्वदेवं दिशः पञ्चदिश्यान्यैन्द्रः प्राणः पश्वङ्गः प्राणदानं लिङ्गोक्तं देवत्वाष्ट्री त्रिष्टुप् ॥ २४ ॥ समुद्रं लिङ्गोक्तानि द्वादश दिवं ते स्वरुर्मापो हृदयशूलं धाम्नो वारुणं यदाहुर्वारुणी गायत्र्यनवसाना सुमित्रिया न आपᳪ हविष्मतीर्लिङ्गोक्तदेवतानुष्टुबग्नेर्वश्चत्वार्यपां न्यमूरापीं गायत्रीं मेधातिथिर्हृदे त्वा सौम्यनुष्टप् सोमराजन्त्सौम्ये शृणोतु लिङ्गोक्तदेवता त्रिष्टुब्देवीराप आपी पङ्क्तिः कार्षिराज्यमनुष्टुप्समुद्रस्य समाप आपो यमग्ने मधुच्छन्दा आग्नेयीं गायत्रीमाददे ग्रावा निग्राभ्या आपमिन्द्राय त्वा पञ्च सौम्यानि यत्ते सौमी विपरीता बृहती श्वात्राः पथ्याबृहती माभेः सौम्यमर्धं द्यावापृथिव्यमर्धं प्रागपाक्सौम्युष्णिक् त्वमङ्ग गोतम ऐन्द्रीं पथ्याबृहतीम् ॥ २५॥ इति संहितायां षष्ठोऽध्यायः ॥ ६॥
वाचस्पतये प्राणदेवत्या विराट् मधुमतीर्लिङ्गोक्तं यत्ते सौम्यᳪ स्वाहोरुयजुषी लिङ्गोक्ते स्वांकृतोस्युपाᳪ शुर्देवेभ्यस्त्वा दैवं देवाᳪशो लिङ्गोक्तमाभिचारिकं प्राणायग्रहो व्यानाय उपाᳪशुसवन उपयामगृहीतोस्यन्तरैन्द्रमन्तस्ते मघवदेवत्या त्रिष्टुबुदानाय ग्रह आवायो वसिष्ठो वायव्यां त्रिष्टुभमिन्द्रवायू मधुच्छन्दा ऐन्द्रवायवीं गायत्रीमयं वा गृत्समदो मैत्रावरुणीᳪ रायावयं त्रसदस्युस्त्रिष्टुभं यावां मेधातिथिराश्विनीं गायत्रीं तं प्रत्नथावत्सारः काश्यपो वैश्वदेवीं जगतीमच्छिन्नस्य सौम्यᳪ सा प्रथमैन्द्री त्रिष्टुप्तृपं त्वयाडग्नी लिङ्गोक्ते ॥ २६॥ अयं वेनो वेनस्य त्रिष्टुप् सोमस्तुतिरधिदैवतमधियज्ञं च मनोन त्रिष्टुप्सोमस्तुतिरधियज्ञानुवादिन्यपमृष्टः शण्डोऽपमृष्टो मर्क आभिचारिके देवास्त्वा शुक्रामन्थिनावनाधृष्टासि दक्षिणोत्तरवेदिश्रोण्यौ सुवीरः सुप्रजाः शुक्रामन्थिनौ निरस्तो द्वे आभिचारिके शुक्रस्य मन्थिनः शकलं ये देवासः परुच्छेपो वैश्वदेवीं त्रिष्टुभमाग्रयणोसि लिङ्गोक्तदैवतम् ॥२७॥ सोमः पवते वैश्वदेवमिन्द्राय त्वा पञ्च लिङ्गोक्तानि मूर्धानं भरद्वाजो वैश्वानरीं त्रिष्टुभं ध्रुवोसि ध्रुवो ध्रुवं ध्रुवेण बृहती पूर्वोऽर्धर्चो ध्रौव उत्तर ऐन्द्रो यस्ते देवश्रवाः सौमीं त्रिष्टुभं यजुरन्ता देवानां चात्वालदैवतं प्राणाय मे लिङ्गोक्तदेवतान्येकादश कोऽसि प्राजापत्योष्णिग्वर्धमाना मधवे त्वा लिङ्गोक्तदेवतानि त्रयोदश ॥ २८ ॥ इन्द्राग्नीं विश्वामित्र ऐन्द्राग्नी गायत्रीमाघात्रिशोक आग्नैन्द्रीमोमासो मधुच्छन्दा वैश्वदेवीं विश्वेदेवासो गृत्समद इन्द्रमरुत्वश्चतस्रो । विश्वामित्र ऐन्द्रामारुतीस्त्रिष्ट्रभो मरुतात्वा यजुर्मरुत्वतीयं महाँइन्द्रो भरद्वाजो माहेन्द्री त्रिष्टुभमोजसा वत्सो गायत्रीमुदुत्यं प्रस्कण्वः सौरीं गायत्री चित्रं कुत्स आङ्गिरसस्त्रिष्टुभᳪरूपेण वो दक्षिणाश्चतुर्णां ब्राह्मणमद्य लिङ्गोक्तदेवतान्यष्टौ ॥ २९ ॥ इति० संहितायां सप्तमोऽध्यायः ॥ ७ ॥
विष्णो वैष्णवं कदाचनादित्यदेवत्ये बृहत्यौ यज्ञो देवानां कुत्सस्त्रिष्टुभं विवस्वन्यजुः श्रदस्मै जगत्याशीर्वाममद्य भरद्वाजो बार्हस्पत्यः सावित्रीं त्रिष्टुभᳪ सावित्रोऽसि सावित्रᳪ सुशर्मासि वैश्वदेवं बृहस्पतिसुतस्य लिङ्गोक्तमहं प्रजापतिरूपेणात्मादेवतात्रिष्टुबग्नाँ ३ इ पत्नीवन्नाग्नेयं प्रजापतिः प्राजापत्यᳪ हरिरस्यृक्सामे हर्योर्यस्ते लिङ्गोक्ते देवकृतस्याग्नेयानि षट् ॥ ३० ॥ समिन्द्रात्रिर्वैश्वदेवीं त्रिष्टुभं धाता लिङ्गोक्तबहुदेवत्या सुगावो देवीयाँ २ आवहो वयमाग्नेय्यौ यज्ञायज्ञमेष ते लिङ्गोक्ते यजुषी उरुᳪ हि शुनःशेपो वारुणीं त्रिष्टुभं नमो वारुणमग्नेरनीकमाग्नेयी त्रिष्टुप् समुद्रे ते सौमी विराड्देवीरापः पङ्क्तिर्बृहती वा पूर्वोऽर्धर्च आप उत्तरः सौम्यो देवानामाग्नेयमेजतु त्र्यवसाना महापङ्क्तिर्यस्यै ते वशा पुरुदस्मोगर्भो मरुतो यस्य गोतमो मारुतीं गायत्रीं महीद्यौर्मेधातिथिर्द्यावापृथिव्यामित्यग्निष्टोमः ॥ ३१ ॥ अथ षोडश्यातिष्ठ गोतम ऐन्द्रीमनुष्टुभं युक्ष्वाहि मधुच्छन्दा इन्द्रमिद्गोतमो यस्मान्नैन्द्री त्रिष्टुप्परब्रह्मरूपेण षोडशिनस्तुरिन्द्रश्चैन्द्रावारुणी षोडशिदेवत्या वा यजुरन्ताग्नेपवस्व वैखानस आग्नेयीं गायत्रीमुत्तिष्ठन्कुरुस्तुतिरैन्द्रीमदृश्रं प्रस्कण्वः सौरीं तिस्रोऽपि यजुरन्ता उदुत्यं देवानामार्षमाजिघ्रेडे कुसुरुबिन्दुर्गव्ये महापङ्क्तिप्रस्तारपङ्क्ती विनः शासो भारद्वाज ऐन्द्रीमनुष्टुभं वाचस्पतिं वैश्वकर्मणीं त्रिष्टुभं विश्वकर्मन्नैन्द्री वैश्वकर्मण्यग्नये त्वा देवार्षाण्यदाभ्यदेवत्यानि व्रेशीनां त्वा सौम्यानि ॥३२॥ सत्रोत्थानं देवानामार्षमिह रतिः पशुदैवतमुपसृजन्नुष्णिगाग्नेयी सत्रस्य बृहती यजमानानामात्मस्तुतिर्युवन्तं परुच्छेप ऐन्द्रीमत्यष्टिं त्र्यवसानामाद्योऽर्धर्च ऐन्द्रापार्वतः परमेष्ठी नैमित्तिकान्याध्यायाद्वसिष्ठस्यार्षं लिङ्गोक्तदेवतानि चतुस्त्रिᳪशद्ययोर्वैष्णववारुणीं त्रिष्टुब्देवा दिवमाशीर्लिङ्गोक्तदेवताश्चतुस्त्रिᳪशद्वर्मदेवत्या पङ्क्तिस्त्रिष्टुब्वा यज्ञस्य यज्ञदेवत्या त्रिष्टुबापवस्व