पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वायुसूर्यदेवत्याः क्रमेण द्यौरिव यजमानाशीर्लिङ्गोक्तदेवतायं गौः सार्पराज्ञ्यस्तृचो गायत्रोऽग्निः परावररूपेण देवता ॥१०॥ अग्निहोत्रं प्रजापतेरार्षमग्निर्ज्योतिः सप्त लिङ्गोक्तदेवता गायत्र्य आद्याः पञ्चैकपदा अग्निर्वर्चो द्वे तक्षापश्यत्परा जीवलश्चैलकिः ॥११॥ यजमानाग्न्युपस्थानं बृहद्देवानामार्षं उपप्रयन्त इत्यनुवाक आद्ये द्वे आग्नेय्यौ गायत्र्यावुपवत्या गोतमो राहूगणो मूर्धन्वत्या विरूप उभा वां भरद्वाज ऐन्द्राग्नीं त्रिष्टुभमयं ते देवश्रवा देववातश्च भारतावाग्नेयीमनुष्टुभमयमिह वामदेवो जगतीमस्य प्रत्नामवत्सारो गव्या वाग्नेयी वा पयोदेवत्या वा गायत्रीं तनूपा आग्नेयानीन्धाना आग्नेयीं महापङ्क्तिस्त्र्यवसाना ॥ १२ ॥ चित्रावसोरात्रिदेवत्यमृषयोऽपश्यन्त्संत्वमाग्नेयमन्धस्थ रेवतीः सᳪहितेति त्रीणि गव्यान्युपत्वाग्नेयं तृचं गायत्रं मधुच्छन्दा वैश्वामित्रोऽग्ने त्वं चतस्रो द्विपदा आग्नेयीर्बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुरेकैकश इडे काम्या गव्ये सोमानं ब्राह्मणस्पत्यं तृचं गायत्रं ब्रह्मणस्पतिर्मेधातिथिर्वा महित्रीणाᳪ सत्यधृतिर्वारुणिरादित्यदैवतं तृचं गायत्रं पथि स्वस्त्ययनं कदाचनैन्द्रीं पथ्याबृहतीं मधुच्छन्दास्तत्सवितुर्विश्वामित्रः सावित्रीं गायत्री परिते वामदेव आग्नेयीमनिरुक्तां गायत्रीम् ॥ १३ ॥ क्षुल्लकोपस्थानमासुरेरार्षं भूर्भुवः स्वः प्रवत्स्यदुपस्थानमागतोपस्थानं चादित्यस्यार्षं नर्यगार्हपत्यः शᳪस्याहवनीयोऽथर्वदक्षिणाग्निरागन्माहवनीयोऽनुष्टुबयमग्निर्न्यङ्कुसारिणीबृहती गार्हपत्योऽयमग्निरन्वाहार्यपचनोऽनुष्टुब्गृहामा त्रिष्टुब्बिराड्रूपा येषामानुष्टुबुपहूता महापङ्क्तिस्त्र्यवसानास्तिस्रोपि वास्तवीः शंयुर्बार्हस्पत्यः॥१४॥ चातुर्मास्यानि प्रजापतेरार्षं प्रघासिनो मारुती गायत्री यद्ग्राममारुत्यनुष्टुबनिरुक्ता मोषूणोऽगस्त्य ऐन्द्रामारुतीं विराजमक्रं न निरुक्ताग्नेय्यनुष्टुबवभृथ यज्ञदैवतं पूर्णादर्वि द्वे और्णवाभ ऐन्द्र्यावनुष्टुभावक्षं द्वे गोतम ऐन्द्र्यौ पङ्क्ती मनोनुमानसं तृचं बन्धुर्गायत्रं वयᳪ सौमीं गायत्रीं बन्धुरेष ते द्वे रौद्रे अवरुद्रᳪ रौद्र्यावेकापङ्क्तिरपरा ककुप् त्र्यम्बकं द्वे अनुष्टुभौ पूर्वस्या वसिष्ठ आस्तारपङ्क्तिस्त्र्यायुषं नारायण उष्णिहं यजमानाशीः शिवोनाम क्षौरं निवर्तयामि लिङ्गोक्तदैवतमाशीःप्रायम् ॥ १५ ॥ इति० संहितायां तृतीयोऽध्यायः ॥ ३ ॥
अग्निष्टोमः प्रजापतेरार्षभेदं द्वे अत्यष्टी त्र्यवसाने आद्यावर्धर्चौ देवयजनदेवत्याविमा आप ओषधे कुशतरुणᳪ स्वधिते क्षौरमापो अस्मानापं दीक्षातपसोर्वासो महीनां नवनीतं वृत्रस्याजनं चित्पतिर्द्वे प्राजापत्ये देवो मा सावित्रमावोदैव्यनुष्टुबाशीःस्वाहायज्ञं चतुर्णां यज्ञ आकूत्यै चतुर्णामौद्ग्रभणानामग्निरापोदेवीर्लिङ्गोक्तदेवता विराट् ॥१६॥ विश्वो देवस्य स्वस्त्यात्रेयः सावित्रीमनुष्टुभमृक्सामयोः कृष्णाजिने शर्मासि कृष्णाजिनमूर्गस्याङ्गिरोभिर्दृष्टं मैखलᳪ सोमस्य नीविर्विष्णोर्वास इन्द्रस्य सुसस्याः कृष्णविषाणोच्छ्रयस्व दण्डो व्रतं यज्ञो दैवीं धीर्ये देवा वाक्प्राणोदानौ चक्षुःश्रोत्रमध्यात्ममग्निर्मित्रावरुणावादित्यो विश्वेदेवा अधिदैवतᳪ श्वात्रा आपो जगतीयं ते लोष्टमपो मूत्रं पृथिव्या लोष्टमग्ने त्वमाग्नेय्यनुष्टुप्पुनर्मन आग्नेयं त्वमग्ने वत्स आग्नेयीं गायत्रीᳪ रास्वेयत्सौम्यमेषा ते हिरण्याज्यदैवतं जूरसि वाग्दैवतᳪ शुक्रमसि हिरण्यं चिदसि गौः सोमक्रयणी वाग्रूपाध्यारोपकल्पनया ॥ १७॥ वस्व्यस्यनुष्टुब्बृहती सोमक्रयण्याः स्तुतिरदित्या आज्यमस्मे षण्णां लिङ्गोक्ता देवताः समख्ये पत्न्याशीरास्तारपङ्क्तिरेष ते लिङ्गोक्तदेवतमास्माकोऽसि सौम्यमभित्यᳪ सावित्र्यष्टिः प्रजाभ्यस्त्वा प्रजास्त्वा शुक्रं त्वा सौम्यानि सग्मेऽस्मे लिङ्गोक्ते तपसोर्धेजार्धे सोमो मित्रो न इन्द्रस्य सौम्ये स्वानादीनि धिष्ण्यानामानि परिमाग्नेयी पुरस्ताद्बृहती प्रतिपन्थामनुष्टुप्पथिदेवत्यादित्याः कृष्णाजिनमदित्यै सौम्यमस्तभ्नात्त्रिष्टुभौ वारुण्यौ सूर्यस्यानुष्टुप् कृष्णाजिनमुस्रावूर्ध्वबृहत्यानडुही भद्रो मे सौम्यं नमो मित्रस्याभितपनः सूर्यः सौरीं जगतीं वरुणस्य पञ्च वारुणानि या ते सौमीं त्रिष्टुभं गौतमः ॥ १८ ॥ इति० संहितायां चतुर्थोऽध्यायः ॥ ४ ॥
अग्नेस्तनूरसि पञ्च वैष्णवान्यग्नेः शकलं वृषणा दर्भतरुणैके उर्वश्यसि त्रयाणां लिङ्गोक्ता देवता गायत्रेण त्रीण्याग्नेयानि भवतं नः पङ्क्तीरग्नावग्निर्विराडेतयोर्निर्मथ्याहवनीयावग्नी देवते आपतये वायव्यमनाधृष्टमाज्यमग्नेव्रतपा आग्नेयमᳪशुरᳪशुः प्रकृतिश्चतुरवसाना सौम्यन्त्योर्धर्चो लिङ्गोक्तदैवतो याते त्रीण्याग्नेयानि तप्तायनी चत्वारि पार्थिवानि विदेदाग्नेयमग्ने अङ्गिरोऽस्यामनुत्वा लिङ्गोक्तानि सिᳪह्यसि त्रयाणां वेदिरिन्द्रघोषश्चतुर्णामुत्तरवेदिरिदमहमापᳪ सिᳪह्यसि पञ्चानां वाग्भूतेभ्यः स्रुग्ध्रुवोऽसि परिधयस्त्रयाणामग्नेः संभारा गुल्गुल्वादयः ॥ १९॥ युञ्जते श्यावाश्वः सावित्रीं जगतीमिदं विष्णुर्मेधातिथिर्वैष्णवीं गायत्रीमिरावती वसिष्ठस्त्रिष्टुभं देवश्रुतावक्षधुरौ प्राचीस्वं गोष्ठमत्र हविर्धाने विष्णोर्नु तिस्रो वैष्णव्यस्त्रिष्टुभ आद्ये द्वे यजुरन्ते विष्णोर्नु प्रदीर्घतमा ओतथ्यो विष्णोरराटं पञ्च वैष्णवान्याददेऽभ्रिरिदमहᳪरक्षोघ्नं बृहन्नौ पर्वाणीदमहं पञ्च लिङ्गोक्तानि स्वराडस्यौपर्वाणि चत्वारि रक्षोहणो वः सप्त वैष्णवानि यवोऽसि यवो दिवेत्वौदुम्बरी शुन्धन्तां पित्र्ये उद्दिवं पञ्चानामौदुम्बरी घृतेन द्यावापृथिव्यमिन्द्रस्यैन्द्रं परि त्वा मधुच्छन्दा अनिरुक्तामैन्द्रीमनुष्टुभमिन्द्रस्यैन्द्राणि त्रीणि चतुर्थं वैश्वदेवम् ॥ २० ॥ विभूरत्यष्टानां धिष्ण्या अग्नयः सम्राडाहवनीयः परिषद्यो बहिष्पवमानदेशो नभोऽसि चात्वालो मृष्टोऽसि शामित्र ऋतधामौदुम्बरी समुद्रोऽसि ब्रह्मासनमजोऽसि शालाद्वार्योऽहिरसि प्राजहितो वागसि सद ऋतस्य द्वार्ये अध्वनाᳪ सूर्यो मित्रस्यर्त्विजोऽग्नयो धिष्ण्याः ॥ २१ ॥ ज्योतिरसि वैश्वदेवं त्वᳪ सोमक्रतुर्भार्गवः सौमीं गायत्रीमनवसानां जुषाणो अप्तुदेवत्यैकपदा विराड्यजुरन्ताग्नेनयाऽगस्त्य आग्नेयीं त्रिष्टुभमयं