पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्धश्च ककारद्वयमुच्चरेत् । एवं वर्णाः प्रयोक्तव्याः कुक्कुटोसीति दर्शनम् । वडवा च हयं दृष्ट्वा योनि विकुरुते यथा । एवं वर्णाः प्रयोक्तव्याः सदुन्दुभेति दर्शनम् । रङ्गे चैव समुत्पन्ने नो ग्रसेत्पूर्वमक्षरम् । स्वरं दीर्घ प्रयुञ्जीत पश्चान्नासिक्यमाचरेत् । यथा सौराष्ट्रिका नारी अराँ इत्यभिभाषते । एवं रङ्गः प्रवक्तव्यो डकारः परिवर्जितः । द्विमात्रिको मात्रिको वा नासामूलं समाश्रितः । अन्ते प्रयुअते रङ्गः पञ्चमैः सानुनासिकः । यथा सौराष्ट्रिका नारी अरा इत्यभिभाषते । एवं रङ्गं विजानीयात् डकारपरिवर्जितम् । अनन्तरं मकारस्य यो रङ्गस्तत्र रक्ष्यते । सर्वानुनासिकं विन्द्यादेषा मध्योपधानिका । यरलवशषसहरज्यन्ते चोपधानिका । गर्वान्ते रङ्गते यस्तु सर्वैः सर्वानुनासिका । नासादुत्पद्यते रङ्गः कांस्येन समनिःस्वनः । मृदुश्चैव द्विमात्रः स्थादृष्टिमान्स्थानिदर्शनम् । यथा व्याघ्री हरेत्पुत्रान्दंष्ट्राभिर्न च पीडयेत् । भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् । मधुरं च न चाव्यक्तं व्यक्तं चापि न पीडितम् । सनाथस्यैकदेशस्य न वर्णाः शंकरं गताः । यथा सुमत्तनागेन्द्रः पदात्पदं निधापयेत् । एवं पदं पदाद्यन्तं दर्शनीयं पृथक् पृथक् । गीती शीघ्री शिरःकम्पी यथा लिखितपाठकः । अनर्थज्ञोल्पकण्ठश्च षडेते पाठकाधमाः । माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः । धैर्य लयसमत्वं च पडेते पाठका गुणाः । चतुरक्षरषदं च निवर्तेत पुनःपुनः । आवर्तते पदं यच्च द्विस्त्रिरामेडितं हि तत् । यथा धाम्ने धाम्नेति यजुषे यजुषेति निदर्शनम् । हीयते वर्धते चापि पदं यत्र कृशोदरम् । उपचारः स विज्ञेय उभे सुश्चन्द्रेति निदर्शनम् ॥ ___ अथ सप्तविधाः संयोगपिण्डाः । अयःपिण्डो दारुपिण्ड ऊर्णापिण्डो ज्वालापिण्डो मृत्पिण्डो वायुपिण्डो वज्रपिण्डश्वेति । यमान्विद्यादयःपिण्डान् सान्तस्थं दारुपिण्डवत् । अन्तस्थं यमवर्ज तु ऊर्णापिण्डं विनिर्दिशेत् । अन्तस्थं यमसंयोगे विशेषो नोपलभ्यते । अशरीरं यमं विन्द्यादन्तस्थः पिण्डनायकम् । ज्वालापिण्डान्सनासिक्यान्सानुस्वारांस्तु मृन्मयान् । सोपध्मा वायुपिण्डाश्च जिह्वामूले तु वज्रिणः । अयःपिण्डो नाम यथा । अग्नीः पक्तीः नातनच्मि । दारुपिण्डो नाम यथा । अश्वः सूर्यः विश्वाजतीति भवति । तत्र ऊर्णापिण्डो नाम यथा । यस्मिन् अत्यस्मिन् अमुष्मिन् इति
भवति । तत्र ज्वालापिण्डो नाम यथा । ब्रह्मा वह्निः गृह्णामीति भवति । तत्र मृत्पिण्डो नाम यथा । सास्था सस्कर्तारः सास्वत इति । तत्र वायुपिण्डो नाम यथा । देव सवितः । युञ्जानः प्रथमम् । प्रादिवः ककुत्सुप्तमिति भवति । तत्र वज्रपिण्डो नाम यथा । इष्कृतिः निष्कृतिः ऋक्साम इति भवति । प्रथममेव षकारेण सकारेणैव संयुतम् । एतत्स्वरं समासाद्य अग्निष्वात्ता निदर्शनम् । प्रथमेन ठकारेण थकारेणैव संयुतम् । एतत्स्वरं समासाद्य = अधिष्ठाननिदर्शनम् । प्रथममेव णकारेण नकारेणैव संयुतम् । | एतत्स्वरं समासाद्य त्रिणवत्रयस्त्रिशाविति निदर्शनम् । प्रथममेव रङ्गेण नकारेणैव संयुतम् । एतद्रञ्जितमासाद्य वृष्टिमानिति निदर्शनम् । एते ककारादयो मकारपर्यवसानाः कृष्णा व्याख्याताः शनैश्चरदैवत्याः । चत्वार्यन्तस्था यरलवाः कपिलवा अग्निदेवत्याः । चत्वार्दूष्माणः शषसहा अरुणवर्णा आदित्यदैवत्याः । त्रयस्त्रि शब्यञ्जनानि स्पर्शा अन्तस्था ऊष्माणश्चेति । चतुर्विधं करणं स्पृष्टमस्पृष्टं संवृतं विवृतं चेति । संवृतो घोषा विवृता अघोषाः । विशतिघोषास्ते गजडदबा घझढधभा उजणनमाः यरलवाश्चेति । | त्रयोदश अघोपास्ते कचटतपाः खछठथफाः शपसाश्चेति । अष्टौ वर्णस्थानानि भवन्ति । उरःकण्ठ्यमूर्धन्यतालुदन्त्यजिह्वामूलयमानुनासिक्याश्चेति । द्वौ औरस्यौ हहा इति । अआआ ३ | त्रयः कण्ठ्याः । पदमूर्धन्याः ऋटठडढणष इति । दश | तालव्याः चछजझजयशइईई ३ इति । अष्ट दन्त्याः तथदध
नललसाः । एकादश ओष्ठ्याः पफबभममाउऊऊ ३ छउप| ध्माचेत्यादयः । एको दन्तमूलीयो रेफः । जिह्वामूलीयाः पञ्च कुंखुगुधुंडुइति । क्मख्मग्मध्मकुंखुंगुंधूइति यमाश्चत्वारः। रुक्मेति प्रथमोज्ञेयः सक् इत्यपरो भवेत् । तृतीयः सद्म इत्याहुरुपध्मेति चतुर्थकः । प्रथमौ चौष्ठनासिक्यावोष्ठनासे उपाश्रितौ । द्वितीयः कण्ठ्यदन्त्यश्च नासामूलमुपाश्रितः । तृतीयः कण्ठ्यजिह्वाग्रे नासायामेव निर्दिशेत् । चतुर्थों हृदि नासिक्यः कण्ठे चाभिहिता यमाः । आपञ्चमैश्चैकपादः संयुक्तं पञ्चमाक्षरम् । यस्मात्तत्र निवर्तन्ते श्मशानादिव बान्धवाः । यत्किचिद्वाङ्मयं लोके सर्वमत्र प्रतिष्ठितं सर्वमत्र प्रतिष्ठितमिति ।
ऋवणे तित्परे सादावनुस्वारो द्विमात्रकः । संयोगे परभूतेषु | ह्रस्व एवोच्यते बुधैः ॥ इति श्रीयाज्ञवल्क्यशिक्षा समाप्ता॥

प्रतिज्ञासूत्रम्
श्रीवेदपुरुषाय नमः। अथ प्रतिज्ञा मन्त्रब्राह्मणयोर्वेदनामधेयं तस्मिञ्छुक्ले याजुषाम्नाये माध्यन्दिनीयके मन्त्रे स्वरप्रक्रिया हृद्यनुदात्तो मूर्ध्न्युदात्तः श्रुतिमूले स्वरितः एवं जात्यादयोऽभिहिता ब्राह्मणे तूदात्तानुदात्तौ भाषिकस्वारौ तानस्वराणि छन्दोवत्सूत्राणि ॥ १ ॥ अथान्तस्थानामाद्यस्य पदादिस्थस्थान्यहलसंयुक्तस्य संयुक्तस्यापि रेफोष्मान्त्याभ्यामृकारेण चाविशेषेणादिमध्यावसानेषूच्चारणे जकारोचारणं द्विर्भावेऽप्येवमथापरान्तस्थस्यायुक्तान्यहलसंयुक्तस्योष्मsऋकारैरेकारसहितोच्चारणमेवं तृतीयान्तस्थस्य क्वचिदृकारस्य तु संयुक्तासंयुक्तस्याविशेषेण सर्वत्रैवमथान्त्यस्यान्तस्थानां पदा