पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नीयाद्दीर्घहस्वविवर्जितम् । हरिवरुणवरेण्येषु धारापुरुषेषु च । स्वरिते रेफवैश्वानरो नकारः शेषाकारः स्वरिता नकाराः ॥ ३२ ॥ द्वौ वरुणौ च स्वरितौ । उदुत्तमं वरुणधारयंवरोरुधारा उरुधारा च होइते(१) मात्रिकं वा द्विमानं वा स्वरितं यदिहाक्षरम् । तस्यादितोऽर्धमात्रा वै शेषं च परतो भवेत् ॥३३॥ नकारान्ते पदे पूर्वे श्मश्रुभिः परतः स्थिते । छकारं न प्रयुजीत अशसंधि समुच्चरेत् ॥ ३४ ॥ ओकारं प्लुतविज्ञेयं प्लुतमन्ना द्वितीयकम् । लाजी छाची तृतीयं च विवेशेति चतुर्थकम् ॥ ३५ ॥ अधःस्विदासीत्पञ्चमं चोपरिविदासीच्च षष्ठकम् । सप्तमं तु ध्रुवोः स्मार अष्टमं नैव विद्यते ॥ ३६॥ उच्चस्थानगते हस्ते स्वरितं नोपपद्यते । अधस्था तु यदा गच्छेत्स्वरितं न तदा भवेत् । कचटतपा दृश्यन्ते संधिस्थानेषु नित्यशः । स्ववर्गेणैव संयुक्ता मोक्षं तत्र न कारयेत् । तकारान्ते पदे पूर्व सकारे परतः स्थिते । प्रत्यारम्भं न कुर्वीत पापाविति निदर्शनम् । ककारान्ते पदे पूर्वे सकारे परतः स्थिते । खसवर्ण विजानीयात् भिखक्सेति निदर्शनम् । तकारान्ते पदे पूर्व चवर्गे परतः स्थिते । मोक्षं तत्र च कुर्वीत यच्च पापौ निदर्शनम् ।ङकारान्ते पदे पूर्व सकारे परतः स्थिते। कसवर्ण विजानीयायाङ्सोमेति निदर्शनम् । टकारान्ते पदे पूर्वे सकारे परतः स्थिते । टसवर्ण विजानीयात्संम्राट् संभृतेति निदर्शनम् । तकारान्ते पदे पूर्वे सकारे परतः स्थिते । छसवर्ण विजानीयात् तत्सवितुरिति निदर्शनम् । नकारान्ते पदे पूर्वे सकारे परतः स्थिते । तसवर्ण विजानीयात्रीन्समुद्रेति निदर्शनम् । पकारान्ते पदे पूर्वे शकारे परतः स्थिते । छासवर्ण विजानीयादनुष्टुप्छारदीति निदर्शनम् । मकारान्ते पदे पूर्व सवर्णे परतः स्थिते । मसवर्ण विजानीयादिममेति निदर्शनम् । वणे तु मात्रिके पूर्व अनुस्वारो द्विमात्रकः । द्विमात्रे मात्रिको ज्ञेयः संयोगाद्यस्य यो भवेत् । अनुस्वारो द्विमात्रः स्यादृवर्णव्यञ्जनादिगः । हस्वाद्वा यदि वा दीर्वाद्दे. वाना हृदयेभ्य इति।अनुस्वारस्योपरिष्टात्संवृतं यत्र दृश्यते। दीर्घ तं तु विजानीयाच्छ्रोताग्रावाणेति निदर्शनम् । अनुस्वारस्योपरिष्टात्संयोगो यत्र दृश्यते । हस्खं तं तु विजानीयासस्थेति निदर्शनम् । अनुस्वारश्च यो दीर्घादक्षराच्च भवेत्परः । स तु ह्रस्व इति ज्ञेयो मन्त्रेष्वेव विभाषया । ओभावश्च विवृत्तिश्च शषसा रेफ एव च । जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः । यथा भावप्रसंधानमुकारादिपरं पदम् । स्वरान्तं तादृशं विद्याद्यन्यद्यक्तमूष्मणः । उभावादुस्थितश्चोष्मा तां तु केलिं विनिर्दिशेत् । विवृतं प्रति या ऊष्मा विज्ञेया विकटानना । लीढातिलीढविद्युच्च शषसेषु प्रकीर्तिताः । जिह्वामूले च रेफे च विज्ञेया विठकाशठा । उपध्मानीयसहिता पुष्पिणीं तां विनिर्दिशेत् । अन्यत्र यो भवेदूष्मा सुलभां तां विनिर्दिशेत् । पादाद्यन्तं पदाद्यन्तं तथावग्रहकालि. कम् । ईपत्स्पृष्टं विजानीयात्तस्मिन्काले तु कारयेत् । पादादौ
च पदादौ च संयोगावग्रहेषु च। यः शब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः । उपसर्गपरो यस्तु पदादिरपि दृश्यते । ईषत्स्पृष्टं यथा विद्युत्पदच्छन्दात्परं भवेत् । त्वदर्थवाचिनौ वोवां वावै यदि निपातजौ । आदेराजविकल्पार्था ईषत्स्पृष्टा इति स्मृताः । विभाषायामेकारः स्यात्तथा नेतैः पदात्परः । भवन्तेत्यपि पूर्वैव तथा च स पदादपि । यदेव लक्षणं यस्य वकारस्यापि तद्भवेत् । यत्र यत्र विशेषः स्यादिदानी स स कथ्यते । वकारस्त्रिविधः प्रोक्तो गुरु घुर्लघूत्तरः । आदौ गुरुलघुर्मध्ये पदान्ते तु लघूत्तरः । उपांशु त्वरितं चैव योऽधीते हृदि संज्ञकः । अपि रूपसहस्रेषु सदेहेषु प्रवर्तते । पञ्चविद्यां न गृह्णन्ति जडाः स्तब्धाश्च ये नराः । आलस्याश्चैव रोगाश्च येषां च विस्मृतं मनः) अहिरिव गुणागीतः संमानानरकादिव । राक्षसीभ्य इव स्वीभ्यः स विद्यामधिगच्छति । न भोजनविलम्बी स्थान च नारीनिबन्धनः । सुदूरमपि विद्यार्थी व्रजेद्गरुडहंसवत् । यथा खनन्खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति । सुखार्थी चेत्यजेद्विद्यां विद्यार्थी चेत्यजेत्सुखम् । सुखिनस्तु कुतो विद्या सुखं विद्यार्थिनः कुतः । गुणिता शतशो विद्या सहस्रावर्तिता पुनः । आगमिष्यति जिह्वाग्रे स्थलनिम्नमिवो. दकम् । शतेन गुणिता विद्या सहस्त्रेण च तिष्ठति । शतानां च सहस्रेण प्रत्यञ्चदवतिष्ठति । जलमभ्यासयोगेन शिलाया: कुरुते क्षयम् । कीर्णामृदुतस्तस्य किमभ्यासान साध्यते । गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा । अथवा विद्यया । विद्या चतुर्थ नोपलभ्यते । शुश्रूषारहिता विद्या झल्पमेधा. गुणैः सह । वन्ध्या च यौवनी तस्या न विद्या फलिनी भवेत्।। हयानामिव जात्यानामर्धमात्रार्धशायिनाम् । न हि विद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति । यथा पिपीलिकाभिः पांसुभिर्वल्मीक क्रियते महत् । न तत्र बलसामर्थ्य मुद्यम. स्तन कारणम् । अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य तु संचयम्। अवन्ध्यं दिवसं कुर्यादानाध्ययनकर्मसु । अबव्यञ्जनयोभीगस्तृतीयमुदकस्य च । वायोः संचारणार्थाय चतुर्थमुपकल्पयेत् । हकारं पञ्चमैर्युक्तमन्तस्यैश्चापि संयुतम् । औरस्यं तं विजानीकण्ठ्यमाहुरसंयुतम् । हकारो यत्र पूर्वस्थो सन्तस्थाद्यो भवेत्परः। पदकाले वियुज्येत संहितायां स औरसः। मेघदुन्दुभिनिर्घोषो ज्ञायते पयसो हृदात् । एवं नादं प्रयोक्तव्यं सिंहस्य रुदितं यथा । मासे भाद्रपदे मेघाः शब्दं कुर्वन्ति यादृशम् । एवं गह्वरमासाद्य शुक्रं दुदुहेति दर्शनम् । शेषाणां वानरा युद्धमुत्पतन्ति पतन्ति च । एवं वर्णाः प्रयोक्तव्या इहेहैषां निदर्शनम् । यथा पुत्रवती नेहाचुम्बते निजमौरसम् । एवं वर्णाः प्रयोक्तव्या युञ्जानेति निदर्शनम् । दुर्दरो जयदेशे च प्रफतेषुर्नयाप्यया(?)। एवं वर्णाः प्रयोक्तव्या अपां फेनेति । निदर्शनम् । यथा भारभराकान्ता निश्वसन्ति नरा भुवि।। एवं वर्णाः प्रयोक्तव्या अन्यः संभृत इत्यपि । कुक्कुटः कामलु