पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथा भाव्यं भवेत्कम्पस्तनूनप्त्रेति निदर्शनम् ॥ ७८ ॥ यथा तनूनप्त्र इति तनू-नप्ने । तनूनपादिति तनू-नपात् । सनूनपातमिति तनू-नपातम् । एवम्याह यानि पदानि लक्षणानि भवन्ति । इत्यष्टपदसमानाये वैशेषिके याज्ञवल्क्यवचनानां पदानां पाठः समाप्तः ॥
माध्यंदिनविरोधि स्यात्तथा भाव्यस्तु यः स्मृतः । स्वरो नैवात्र दृश्येत भिन्नोदात्तानुदात्तकौ ॥ १॥ स्वराः स्पर्शान्तःस्थोष्माणः । कण्ठ्यजिह्वामूलीयतालव्यमूर्धन्यदन्त्योष्ठ्ययमा विसर्जनीयनिपाताद्याश्च किंवर्णदेवत्यलिङ्गाः स्वराः शुक्लाः नानादेवत्याः । स्पर्शाः कृष्णाः । कपिला अन्तस्थाः । ऊष्माणोऽरुणाः । नीला यमाः । हरिता नासिक्याः। पीतोऽनुस्वारः । रक्को जिह्वामूलीयः । पीत उपध्मानीयः । श्वेतो विसर्जनीयः । शबलो रङ्गः । नीलोऽनुनासिक्यः । इत्यन्तर्मध्यमयो सिक्यं विद्यात् । द्विरुदात्ताख्या इति स्मृतः । उदमनुदनिपाते आधे चोपसर्गे नामाख्याते चोपसर्गनिपाताश्चेति किंदैवत्याः । अक्षराणां च के पुरुषाः काः स्त्रियः कानि नपुंसकानीत्यत्र ब्रूमः । कण्ठ्या आग्नेया अकारादयः । जिह्वामूलीया नैर्ऋत्याः ककारादयः । तालव्याः सौम्याश्चकारादयः । वायव्या मूर्धन्याष्टकारादयः । रौद्रा दन्त्यास्तकारादयः । औष्ट्या आश्विन्याः पकारादयः । शेषा वैश्वदेवाः अं इत्येवमादयः । स्वरास्तु ब्राह्मणा ज्ञेया वर्गाणां प्रथमाश्च ये। द्वितीयाश्च तृतीयाश्च चतुर्थाश्चापि भूमिपाः ॥ २॥ वर्गाणां पञ्चमा वैश्या अन्तस्थाश्च तथैव च । ऊष्माणश्च हकारश्च शूद्रा एव प्रकीर्तिताः ॥३॥ शुक्लवर्णानि नामानि आख्याता रोहिता मताः । कपिञ्जलास्तूपसाः कृष्णाश्चैव निपातकाः ॥ ४॥ भार्गवगोत्राणि नामानि भारद्वाजा आख्याताः । वासिष्ठा उपसर्गास्तु निपाताः काश्यपाः स्मृताः । पीतवर्णवोपसर्गो निपातः कृष्णवर्णकः । सर्व तु सौम्यमाख्यातं नाम वायव्यं दृश्यते । आग्नेयस्तूपसर्गः स्यान्निपातो वारुणः स्मृतः ॥५॥ प्रथमाश्च तथान्तस्थाः स्त्रीलिङ्गाः परिकीर्तिताः। शेषाक्षराणि षण्ढानि प्राहुर्लिङ्गविवेचकाः ॥ ६ ॥ नाम्नामिन्द्रो देवता वरुणः उपसर्गाणामादित्यः सर्वस्याक्षरगणस्य स्वरा विसर्जनीयो यमाश्च पुंल्लिङ्गाः । अणनमा यरलवाः स्त्रीलिङ्गाः । शेषाण्यक्षराणि नपुंसकलिङ्गानीति । संधिश्वतुर्विधो भवति लोपागमौ वर्णविकारः प्रकृतिभावश्चेति । तयथा-तत्र लोपो भवति अयक्ष्माः-मा अयक्ष्मामा । शततेजाः-वायुः शततेजावायुः । तिग्मतेजाः-द्विषतः तिग्मतेजाद्विषतः ॥ इति लोपः॥ आगमो भवति-यथा प्रत्यक् सोमः प्रत्यङ् सोमः प्राक्सोमः प्राङ्सोमः अस्मान् सीते अस्मान्त्सीते ॥ त्रीन् समुद्रान् त्रीन्समुद्रान् । इति आगमः। विकारो भवति आ-इदम् एदम् । आ-इमे एमे । आइष्टयः एष्टयः । प्र-इपितः प्रेषितः इति विकारः प्रकृतिभावः यथा-आशुः शिशानः । युञ्जानः प्रथमम् । अदितिः ।
षोडशाक्षरेण । देवो वः सविता । इति प्रकृतिभावः ॥ । आकाशस्था यथा विद्युत्स्फुटितं मणिसूत्रवत् । एष च्छेदो | विवृतीनां यथा बालेषु कर्तरी ॥ ७ ॥ द्वयोस्तु स्वरयोर्मध्ये | संधिर्यत्र न दृश्यते । विवृतिस्तत्र विज्ञेया यईशेति निदर्शनम् ॥ ८॥ पिपीलिका पाकवती तथा वत्सानुसारिणी। वत्सानुसंसृता चैव चतस्रस्तु विवृत्तयः ॥ ९॥ पञ्च रङ्गाः | प्रवर्तन्ते घातनिर्घातवत्रिणः । अहरप्रहरो ज्ञेय अइउऋओइति निदर्शनम् ॥ १० ॥ पिपीलिका आद्यन्तदीर्घा नाभ्या आसीदिति निदर्शनम् । पाकवत्युभयोर्हस्वा विन इन्द्रेति | निदर्शनम् ॥११॥ अन्ते च वत्सानुसृजतातानेत्यसौ आवोढमश्विनेति नि० । वत्सानुसारिणी चादौ दीर्घा ताअस्येति नि० ॥ १२ ॥ करिणी कुर्विणी चैव हरिणी हारिणीति च । | तथाहंसपदा नाम पञ्चैताः स्वरभक्तयः ॥ १३ ॥ करिणी | रहयोोंगे कुर्विणी लहकारयोः । हरिणी रषयोर्योंगे हारितं
ऋषकारयोः ॥ १४ ॥ या तु हंसपदा नाम सा तु रेफषकारयोः । हरिणी हरयोर्विद्यात्कुर्विणी लहकारयोः ॥ १५॥ देवं बर्हिरिति करिणी उपहरेति कुर्विणी । हरिणी अरेपस इत्याहुारिणी शतवल्हेति च ॥ १६ ॥ वर्षोवर्षीयतेसीति तथा हंसपदेति च । स्वरभक्तिं प्रयुञानस्त्रीन्दोषान्परिवर्जयेत् ॥ १७ ॥ इकारं चाप्युकारं च ग्रस्तदोषं तथैव च । एतल्लक्षणमाख्यातं याज्ञवल्क्येन धीमता ॥ १८॥ सम्यक् . पाठस्य सिद्ध्यर्थ शिष्याणां हितकाम्यया । अर्धमात्रास्वरं किंचित्पृथङ्न्यूनमिवोच्चरन् । प्रकारे च हकारे च हृत्कण्ठमनसानि च ॥ १९ ॥ नैतत्स्वरितपूर्वाङ्गे नापराङ्गे कथंचन । न स्वरे न च मात्रायां कथं स्वारो विधीयते ॥२०॥ पराङ्गस्य तु यत्पूर्व पूर्वाङ्गस्य तु यत्परम् । उभयार्धार्धसंयोगे स्वारं कुर्याद्विचक्षणः ॥२१॥ संयोगे तु परं स्वार्थ परं संयोगनामकम् । संयुक्तस्य तु वर्णस्य न स्वार्थ पूर्वमक्षरम् ॥ २२ ॥ उदात्तेप्यनुदात्ते तु वामाया ध्रुव आरभेत् । उदात्तात्स्वरितोदात्तौ क्रमाद्दक्षिणतो न्यसेत् ॥ २३ ॥ स्वरितादनुदात्ता ये प्रचयांस्तान्प्रचक्षते । एकस्वरंरापिचाता(?)नाहुस्तत्वार्थचिन्तिकाः ॥ २४ ॥ प्रचयो यत्र दृश्येत तत्र हन्यारस्वरं बुधः । स्वरितः केवलो यत्र मृदुस्तत्र निपातयेत् ॥ २५ ॥ दुर्वलस्य यथा राष्ट्र हरते बलवान्नृपः । एवं व्यञ्जनमासाद्य अकारो हरते स्वरम् ॥ २६ ॥ उच्चादुच्चतरं नास्ति नीचानीचतरं तथा । अक्षरात्तुल्ययोगाच्च नीचे नीचगतानि च ॥ २७ ॥ स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च । स्वरप्रधानैस्तैः स्वार्य व्यञ्जनं तेन सस्वरम् ॥ २८ ॥ व्यञ्ज. नान्यनुवर्तन्ते यत्र तिष्ठति स स्वरः । स्वरप्रधानं त्रैस्वर्य|माचार्याः प्रवदन्ति हि ॥२९॥ मणिवद्यञ्जनं विद्यात्सूत्रवच स्वरं विदुः । आचार्याः सममिच्छन्ति पदच्छेदं तु पण्डिताः ॥३०॥ स्त्रियो मधुरमिच्छन्ति विकृष्टमितरे जनाः । उदात्तं । नानुवर्तन्ते नीचं न स्वरितं तथा ॥३१॥ विस्वरं तं विजा