पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विदो विदुः । न साधयति यजूपि भुक्तमव्यञ्जनं यथा ॥३८॥ हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् । ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥३९॥ ऋचो यजूषि सामानि हस्तहीनानि यः पठेत् । अनुचो ब्राह्मणस्तावद्यावस्वारं न विन्दति ॥ ४० ॥ ज्ञातव्यश्च तथैवार्थों वेदानां कर्मसिद्धये । पठन्मात्रापपाठात्तु पङ्के गौरिव सीदति ॥४॥ स्वरवर्णप्रयुञ्जानो हस्तेनाधीतमाचरन् । ऋग्यजुःसामभिः पूतो ब्रह्मलोकमवाप्नुयात् ॥ ४२ ॥ न कुर्वीत पदं दीर्घ न कुर्वीत विलम्बितम् । पदस्य ग्रहमोक्षौ च यथा शीघ्रगतिहयः ॥ ४३ ॥ आगमं कुरु यत्नेन कारणं हि तदात्मकम् । आस्येन च शयं कुर्यात्पठनान्यमतिर्भवेत् ॥ ४४ ॥ न चास्य मुष्टिबन्धी स्यान्न चात्युत्तममाचरेत् । चुलुनौका स्फुटो दण्डी स्वस्तिको मुष्टिराकृतिः । एते वै हस्तदोषाः स्युः परशुश्चैव सप्तमः ॥४५॥ यथा वाणी तथा पाणी रिक्तं तु परिवर्जयेत् । यत्र यत्र स्थिता वाणी पाणिस्तत्रैव तिष्ठति ॥ ४६ ॥ यथा धनुष्यावितते शरे क्षिप्ते पुनर्गुणः । स्वस्थानं प्रतिपद्येत तद्वद्धस्तगतः स्वरः ॥ ४७ ॥ उत्तानं सोन्नतं किंचित्सुव्यक्ताङ्गुलिरञ्जितम् । स्वरविद्धं करं कुर्यात्प्रादेशोद्देशगामिनम् ॥४८॥ अङ्गुष्ठस्योत्तरे पर्वे तर्जन्योपरि यद्भवेत् । प्रादेशस्य तु सोद्देशस्तन्मात्रं चालयेत्करम् ॥ ४९ ॥ मनुष्यतीर्थोच्च कृत्वा पितृतीर्थोदकं व्रजेत् । नामितं करपृष्ठे तु सुव्यक्ताङ्गुलिमोक्षणम् ॥ ५० ॥ स्वरिते व्यङ्गुलं विन्द्यान्निपाते तु षडमुलम् । उत्थाने तु नवाङ्गुल्यमेतत्स्वरस्य लक्षणम् ॥ ५१ ॥ अभ्यासार्थे द्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् । शिष्याणामुपदेशार्थ कुर्याद्वृत्तिं विलम्बिताम् ॥५२॥ ऐन्द्री तु मध्यमा वृत्तिः प्राजापत्या विलम्बिता । अग्निमारुतयोवृत्तिः सर्वशास्नेषु निन्दिता ॥५३॥ मुष्ट्याकृतिर्मकारे तु नकारे तु नखाप्रतः । अनुस्वारेऽङ्गुष्टक्षेप ऊष्मान्तेऽङ्गुलिमोक्षणम् ॥ ५४॥ उदात्तं भुवि पातेन प्रचयं नोग्र एव च । शेषं षडङ्गुलं विन्द्यान्निचितं तु विधीयते ॥ ५५ ॥ षडङ्गुलं तु जात्यस्य हस्तस्यानुपथस्य च । तच्चतुर्भागमानं तु हस्तस्तेनैव वर्तयेत् ॥५६॥ ककारान्ते टकारान्ते डणे चाङ्गुलि नामयेत् । पञ्चामुल्यमकारे च तकारे कुण्डलाकृतिः ॥ ५७ ॥ ऊर्ध्वक्षेपाच्च योष्मा च अधःक्षेपाच्च यो भवेत् । एकैकमुत्सृजेद्धीरः स्वरिते तूभयं क्षिपेत् ॥५८॥ अङ्गुष्ठाकुञ्जनं लब्धौ अनुस्वारे त्वपा
रसम् । दीर्धे रङ्गे च तर्जन्याः प्रसारः परिकीर्तितः ॥५९॥ तर्जन्यङ्गुष्ठयोः स्पर्शेऽप्युदात्तं प्रतिविद्यते । नीचं तु मध्यम कुर्याच्छेषं नीचतरं क्रमात् ॥ ६० ॥ स्वरितं यद्भवेत्किंचिद्वकारसहसंयुतम् । ऊष्माणं तद्विजानीयानिक्षिपेदुभयोरपि ॥६१॥ स्वरिते च विनिक्षिप्ते संयोगो यत्र दृश्यते । द्विमात्रिके भवेदेकमात्रिके तूभयं क्षिपेत् ॥६२॥ जात्ये च स्वरिते चैव वकारो यत्र दृश्यते । कर्तव्यस्तूभयोः क्षेपो वायव्य इति दर्शनम् ॥ ६३ ॥ शृङ्गवद्वाथ वत्सस्य कुमारीकुचयुग्मवत् ।
| उभक्षेपस्वरो यत्र स विसर्ग उदाहृतः॥६॥ विसर्गान्तस्वरो | यत्र स्वरितो यत्र दृश्यते । दीर्घश्चैव तुकारश्च तत्रोभक्षेप | उच्यते ॥६५॥ त्रिविधस्तु भवेदूष्मा प्रचिता बलकान्तरा । | स्वरित प्रचितां विद्यान्निपाते बलका विदुः ॥ ६६ ॥ उत्थाने |तु तथा तारा एताभिस्त्रिभिरूष्मभिः । मात्रामात्रां विदित्वा
तु ततः क्षेपं प्रयोजयेत् ॥ ६७ ॥ अक्षरं भजते काचित्का. | चिद्वित्ते प्रतिष्ठिता। समाने जातिका काचित्काचिदूष्माप्रदायिका ॥ ६८ ॥ यथा बालस्य सर्पस्य उच्छ्वासो लघुचेतसः । एवमूष्मा प्रयोक्तव्यो हकारः परिवर्जितः ॥ ६९ ॥ विवृति प्रत्यया ऊष्मां प्रवदन्ति मनीषिणः । तामेव प्रतिषेधन्ति
आईऊए इति निदर्शनम् ॥ ७० ॥ अष्टौ स्वरान्प्रवक्ष्यामि | तेषामेव तु लक्षणम् । जात्योऽभिनिहितः क्षेप्रः प्रश्लिष्टश्च । तथापरः ॥ ७१ ॥ पादवृत्तस्तथा भाव्य इतिस्वराः । एकपदे | नीचपूर्वः सयवो जात्यः एकपद इत्याह ॥ ७२ ॥ नीचपूर्वः | सयकारवकारौ वा जात्यः स्वरितो भवति । यथाजात्यं मनुप्यानिति सुद्येति चम्वीव धान्यम् कन्या इव स्वः वीर्य एवह्याह यानि चान्यानीग्लक्षणानि पदानि भवन्ति । एओ
आभ्यामुदात्ताभ्यामकारो रिफितश्च यः। अकारो यत्र लुप्येत | तं चाभिनिहितं विदुः ॥७३॥ यथा कुक्कुट:-असि कुक्कुटोसि । वेदः-असि वेदोसि । भागः-असि भागोसि । मारुतः-असि मारुतोसि । श्वानः-असि श्वात्रोसि । ते-अप्सरसाम् तेप्सर- . साम् । ते-अवन्तु तेवन्तु । कः-असि कोसि। सः-अहं सोहं । एव हि यानि चान्यानीहग्लक्षणानि पदानि भवन्ति । इउवौँ यदोदात्तावापद्येते यवौ कचित् । अनुदात्ते पदे नित्यं विन्द्यात्क्षप्रस्य लक्षणम् ॥ ७४ ॥ यथा त्रि-अम्बकम् त्र्यम्बकम् । द्रु-अन्नः इनः । वीडु-अङ्गः वीडङ्गः । वाजी। अर्वन् वाज्यर्वन् । एवद्याह यानि० । इकारो यत्र दृश्येत इकारेणैव संयुतः । उदात्तश्चानुदात्तेन प्रश्लिष्टो भवति स्वरः ॥ ७५ ॥ अभि-इन्धताम् अभीन्धताम् । अभि-इमं अभीमम् । वि-इहि वीहि । स्रुचि-इव सुचीव । चम्बी-इव
चम्बीवेति । एव ह्याह यानि चान्यानि० । उदात्तपूर्व | यत्किंचिच्छन्दसि स्वरितं पदम् । एष सर्व बहुस्वारस्तैरो
व्यञ्जन उच्यते ॥ ७६ ॥ इडे रन्ते हव्ये काम्ये चन्द्रे ज्योते. | अदिति सरस्वति महि विश्रुतीति भवन्ति । एव ह्याह यानि भवन्ति । अवग्रहात्परो यस्तु स्वरितः स्यादनन्तरम् । तैरो विरामं तं विन्द्यादुदात्तो यद्यवग्रहः ॥७७॥ यथा गोमदिति गो-मत् । गोपताविति गो-पतौ । प्रति प्र-प्र। | विततेति वि-तता । समिद्ध इति सम्-इछः । एवम्याह यानि० भवन्ति । स्वरेति स्वरिते चैव विवृतियंत्र दृश्यते । पादवृत्तो भवेत्स्वारः श्वित्र आदित्येति निदर्शनम् । श्वित्र:| आदित्यानाम् श्वित्र आदित्यानां । पुत्रः-ईधे-पुत्रईधे। दावे
एधि दात्रएधि । कः-ईम् कईम् । ता:-अस्य ताअस्य । | एव" ह्याह यानि० । उदात्ताक्षरयोमध्ये भवेत्रीचस्त्वषग्रहः ।