पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

जननमरणे अशुची इति । नाशुचिहेतुभूते इत्यर्थः । नान्तरा व्याहरेदिति। उपक्रान्तवेदपारायणमध्ये न व्याहरेन्नाध्यापयेत् तथा लौकिकवचनमपि न ब्रूयात् । विहितं नित्यनैमित्तिकं कर्मानुपयुक्त्वा वक्तिं न कुर्यादित्यर्थः । निशोनिशान्तरं संग्रामारण्यसलिलं लोप्य परिदध्यादिति लोप्य छित्त्वा परिहार्य वर्जयित्वेत्यर्थ इति यावत् । परिध्यात् समापयेत्। निशान्तरं निशीथः संध्या वा । सलिलं वृष्टिरुदकसमीपभूमिका वा । निशादिकालान्देशांश्च वर्जयित्वा समापयेदित्यर्थः । सततः पूतो वेदो भवतीति । वेदो भवति वेदात्मको भवति उत्कृष्टज्ञानवान्भवेदित्यर्थः । द्वाभ्यां पारायणाभ्यां ऋग्भिश्चेति । ऋग्भिः पावमानीभिः पारायणद्वयं पावमान्यश्च मिलित्वोक्तफलाय कल्प्येते इत्यर्थः । एवमुत्तरत्र पारायणत्रयं गङ्गास्नानं च मिलित्वा साधनम् । निमज्जंश्च भवति पूतो भवतीत्यर्थः । प्राजापत्यानाचरणं प्रक्रान्तप्राजापत्यानामननुष्ठानं एवं चान्द्रायणस्थानाचरणं । यज्ञोपवेधनं यज्ञविनाशः। इत्यनश्नत्पारायणविधिः ॥

.
.:
.
याज्ञवल्क श्रीः ॥ अथातस्वैस्वर्यलक्षणं व्याख्यास्यामः । उदात्तश्चानुदात्तश्च स्वरितश्च तथैव च । लक्षणं वर्णयिष्यामि दैवतं स्थानमेव च ॥ १ ॥ शुक्लमुच्चं विजानीयान्नीचं लोहितमुच्यते । श्यामं तु स्वरितं विन्द्यादग्निमुच्चस्य दैवतम् ॥ २ ॥ नीचे सोमं विजानीयात्स्वरिते सविता भवेत् । उदात्तं ब्राह्मणं विन्द्यान्नीचं क्षत्रियमुच्यते ॥ ३ ॥ वैश्यं तु स्वरितं विन्द्याद्भारद्वाजमुदात्तकम् । नीचं गौतममित्याहुर्गाग्यं च स्वरितं विदुः ॥ ४ ॥ विन्द्यादुदात्तं गायत्रं नीचं त्रैष्टुभमुच्यते । जागतं स्वरितं विन्द्यादत एवं नियोगतः ॥ ५॥ गान्धर्ववेदे ये प्रोक्ताः सप्त षड्जादयः स्वराः । त एवं वेदे विज्ञेयास्त्रय उच्चादयः स्वराः ॥ ६॥ उच्चौ निषादगा. न्धारौ नीचौ ऋषभधैवतौ । शेषास्तु स्वरिता ज्ञेयाः षड्जमध्यमपञ्चमाः ॥ ७ ॥ षड्जो वेदे शिखण्डिः स्यादृपभः स्थादजामुखे । गवा रम्भन्ति गान्धारं कौञ्चाश्चैव तु मध्यमम् ॥ ८॥ कौकिलः पञ्चमो ज्ञेयो निषादं तु वदेद्वजः। आश्वश्च धैवतो ज्ञेयः स्वराः सप्त विधीयते ॥ ९॥ निमेषमात्रः कालः स्याद्विद्युत्कालस्तथापरे । अक्षरात्तुल्ययोगाच्च मतिः स्यात्सोमशर्मणः ॥१०॥ सूर्यरश्मिप्रतीकाशात्कणिका यत्र दृश्यते । अणवस्य तु सा मात्रा मात्रा च चतुराणवा ॥ ११॥ मानसे चाणवं विन्द्यात्कण्ठे विन्द्याविरावणम् । त्रिराणवं तु जिह्वाग्रे निःसृतं मात्रिकं विदुः॥१२॥ अवग्रहे तु कालः स्यादर्धमात्रा विधीयते । पदयोरन्तरे काल एकमात्रा विधीयते ॥ १३ ॥ ऋचोर्धे तु द्विमानः स्यात्रिमात्रः स्यादृगन्तके । रिक्तं तु पाणिमुत्क्षिप्य द्वे मात्रे धारयेद्बुधः ॥ १४॥ एकमात्रो भवेद्रखो द्विमात्रो दीर्घ उच्यते । त्रिमावस्तु प्लुतो ज्ञेयो व्यञ्जनं चार्धमात्रकम् ॥१५॥ विवृतौ चावसाने च ऋचोर्धे च तथापरे । पदे च पादसंस्थाने शून्यहस्तं विधीयते । प्रणवं तु प्लुतं कुर्याद्याहृतीर्मातृका विदुः ॥ १६ ॥ चाषस्तु वदते मात्रां द्विमात्रां वायसोऽब्रवीत् । शिखी वदति त्रिमात्रां मात्राणामिति संस्थितिः ॥ १७ ॥ वर्णो जातिश्च मात्रा च गोत्रं छन्दश्च दैवतम्। एतत्सर्व समाख्यातं याज्ञवल्क्येन धीमता ॥ १८ ॥ हस्तौ ।
यशिक्षा। | तु संयतौ धायौँ जानुभ्यामुपरि स्थितौ । गुरोरनुमतं कु.
र्यात्पठन्नान्यमतिर्भवेत् ॥ १९ ॥ अरुभागे तृतीये तु करं विन्यस्य दक्षिणम् । प्रसन्नमानसो भूत्वा किंचिनिम्नमधोमुखम् ॥ २० ॥ प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् ।
सावित्रीं चानुपूर्येण ततो वेदान्समारभेत् ॥ २१ ॥ । कूर्मोऽङ्गानीव संहृत्य चेष्टां दृष्टिं दृढं मनः । स्वस्थः प्रशान्तो | निर्भीको वर्णानुच्चारयेदुधः ॥ २२ ॥ नाभ्याहन्यान निहन्यान गायेनैव कम्पयेत् । यथैवोच्चारयेद्वांस्तथैवैतान्समापयेत् ॥ २३ ॥ निवेश्य दृष्टिं हस्ताने शास्त्रार्थमनुचिन्त. येत् । सममुच्चारयेद्वर्णान्हस्तेन च मुखेन च ॥ २४ ॥ स्वरश्चैव तु हस्तश्च द्वावेतौ युगपद्भवेत् । हस्तभ्रष्टः स्वरभ्रष्टो न वेदः | फलमश्नुते ॥२५॥ न करालो न लम्बोष्ठो नाव्यक्तो नानुना. . | सिकः । गद्गदो बद्धजिह्वश्च न वर्णान्वक्तुमर्हति ॥ २६ ॥ प्रक
तिर्यस्य कल्याणी दन्तष्ठौ यस्य शोभनौ । प्रगल्भश्च विनीतश्च !स वर्णान्वक्तुमर्हति ॥ २७ ॥ शङ्कितं भीतमुद्दष्टमव्यक्तम
नुनासिकम् । काकस्वरं मूर्धिगतं तथा स्थानविवर्जितम् | ॥२८॥ विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् । व्याकुलं तालुहीनं च पाठदोषाश्चतुर्दश ॥ २९ ॥ संहितासारबहुलः पदसंज्ञासमाकुलः। क्रमसंधिसमाकीर्णो दुस्तरो | मन्त्रसागरः ॥ ३० ॥ ऋक्संहितां निरभ्यस्य यजुषां वा | समाहितः । साम्नां वा सरहस्यां च सर्वपापैः प्रमुच्यते ॥३१॥
संहिता नयते सौर्य पदं च शशिनः पदम् । क्रमश्च नयते । सूक्ष्मं यत्तत्पदमनामयम् ॥ ३२॥ कालिन्दी संहिता ज्ञेया पदयुक्ता सरस्वती । क्रमेणावर्तयेद्गङ्गा शंभोर्वाणी तु नान्यथा ॥ ३३ ॥ यथा महाहदं प्राप्य क्षिप्तो लोष्टो विनश्यति । एवं दुश्चरितं सर्व वेदे त्रिवृति मजति ॥ ३४ ॥ आम्रपालाश बिल्वानामपामार्गशिरीषयोः । वाग्यतः प्रातरुत्थाय भक्षयेद्दन्तधावनम् ॥ ३५ ॥ खदिरश्च कदम्बश्च करवीरकरञ्जको । एते कण्टकिनः पुण्याः क्षीरिणस्तु यशस्विनः ॥ ३६ ॥ तेनास्यकरणे सूक्ष्मं माधुर्य चैव जायते । त्रिफला लवणाक्तेन भक्षयेच्छिष्यकः सदा । क्षीणमेधाजनन्येषा स्व. रवर्णकरी तथा ॥ ३७॥ हस्तहीनं तु योऽधीते मत्रं वेद