पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वेदपारायणविधिः।
श्रीवेदपुरुषाय नमः ॥ स्थण्डिलं कल्पयित्वाग्निमुपसमाधाय संपरिस्तीर्याज्येनैताभ्यो देवताभ्यो जुहोति अग्नये सोमायेन्द्राय विश्वेभ्योदेवेभ्यः ऋषिभ्य ऋग्भ्यो यजुर्भ्यः सामभ्यः श्रद्धायै प्रज्ञायै मेधायै धारणायै श्रियै ह्रियै सावित्र्यै सवित्रे प्रजापतये काण्डऋषये सोमाय काण्डऋषये अग्नये काण्डऋषये विश्वेभ्योदेवेभ्यः काण्डऋषिभ्यः संहिताभ्यो देवताभ्य उपनिषद्भ्यो याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो वारुणीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्य ऋग्गणेभ्योऽनुमत्यै स्विष्टकृते च पृथक्स्वाहाकारेण हुत्वा व्याहृतिभिश्च पुनः परिषिञ्चति । समाप्ते चैता यजुषा तर्पयति । एवमृग्वेदस्य काण्डर्ष्यादिवर्ज्यमास्विष्टकृतस्तेषां स्थाने शतर्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायाऽत्रये भरद्वाजाय जामदग्न्याय गौतमाय वसिष्ठाय प्रगाथेभ्यः पावमानीभ्यो देवताभ्यः क्षुद्रसूक्तेभ्यो महासूक्तेभ्यो महानाम्नीभ्य इति । ततो वेदादिमारभ्य संततमधीयीतेत्याह भगवान्बौधायनः । इति वेदपारायणोपक्रमविधिः ॥ ॥ अथ वेदपारायणे कलशप्रतिष्ठापनादिप्रकारः ॥ तीर्थे देवालये गेहे प्रशस्ते सुपरिष्कृते । कलशं सुदृढं तत्र सुनिर्णिक्तं(१) विभूषितम् । पुष्पपल्लवमालाभिश्चन्दनैः कुङ्कुमादिभिः । मृत्तिकाभिश्च संमिश्रवेदिमध्ये न्यसेत्ततः । पञ्चाशद्भिः, कुशैः कार्यों ब्रह्मा पश्चान्मुखस्थितः । स्नापितः स्थापितः कुम्भे चतुर्बाहुश्चतुर्मुखः । वत्सजान्वाकृतिं दण्डमुत्तराग्रैः कुशैः कृतम् । ब्रह्मोपधाने दत्त्वा तं ततः स्वस्त्ययनं पठेत् । प्रतिष्ठां कारयेत्पश्चात्पूजाद्रव्यमथोच्यते । यज्ञोपवीतनैवेद्यवस्त्रचन्दकुङ्कुमैः । स्रग्धूपदीपताम्बूलैरक्षतैश्च पितामहम् । ब्रह्मजज्ञानमिति वा गायत्र्या वा प्रपूजयेत् । उपध्यायश्च संपूज्यो यथापाठं पठेत्ततः । इति वेदपारायणे कलशप्रतिष्ठापनादिप्रकारः ॥
अनश्नत्पारायणविधिः।
श्रीः॥ अथातोऽनश्नत्पारायणविधिं व्याख्यास्याम आसमाप्तेर्नाश्नीयात् यथाशक्ति वापः पयः फलान्योदनं वा हविष्यमल्पं भुक्त्वा तदा शेषमधीयीत । ग्रामात्प्राचीमुदीचीं वा दिशमुपगम्याग्निमुपसमाधाय परिस्तीर्येध्मं प्रदायाज्येनैताभ्यो देवताभ्यो जुहोति अग्नये सोमायेन्द्राय प्रजापतये बृहस्पतये विश्वेभ्यो देवेभ्यो ब्रह्मणे ऋषिभ्य ऋग्भ्यो यजुर्भ्यः


१ निर्णिक्तं प्रक्षालितम् ।


श्रद्धायै मेधायै प्रज्ञायै धारणायै सदसस्पतये अनुमतये श्रियै ह्रियै सावित्र्यै सवित्रे प्रजापतये काण्डऋषये सोमाय काण्डऋषये विश्वेभ्योदेवेभ्यः काण्डऋषिभ्यः संहिताभ्यो देवताभ्य उपनिषद्भ्यो याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यो वारुणीभ्यो देवताभ्य उपनिषद्भ्यो हव्यवाहाय विश्वेभ्य ऋग्गणेभ्य अनुमत्यै स्विष्टकृते च पृथक् स्वाहाकारेण हुत्वा व्याहृतिभिश्च पुनः परिषिञ्चति । समाप्ते चैता यजुषा तर्पयति । एवमृग्वेदिनां काण्डर्ष्यादिवर्जमास्विष्टकृतस्तेषां स्थाने शतर्चिभ्यो माध्यमेभ्यो गृत्समदाय विश्वामित्राय वामदेवायात्रये भरद्वाजाय जामदग्न्याय गौतमाय वसिष्ठाय प्रगाथेभ्यः पावमानिभ्यः क्षुद्रसूक्तेभ्यो महानाम्नीभ्य इति । ततो वेदादिमारभ्य संततमधीयीत नास्यान्तरानध्यायो नास्यान्तरा जननमरणे अशुची नान्तरा व्याहरेन्नान्तरा विरमेद्यावन्तमधीयीत । यद्यन्तरा विरमेत्त्रीन्प्राणायामानायम्य प्रणवं वा प्रणिधाय यावत्कालमधीयीत । ततः सर्वं निशो निशान्तरं संग्रामारण्यसलिलं प्रलोप्य परिदध्यात् । आदावन्ते च ब्राह्मणभोजनं दक्षिणादानं च दद्यात् । परातेन विधिना वेदमधीयीत स ततः पूतो वेदो भवति मनःशुद्धश्च भवति द्वाभ्यां पारायणाभ्यां ऋग्भिश्च भोजन इहाधीते अनृतेभ्यः प्रमुच्यते त्रिभिर्बहुभ्यः पातकोपपातकेभ्यः शूद्रायां रेतःसिक्त्वा गङ्गासु निमज्जंश्च भवति । चतुर्थ्यः शूद्रान्नभोजनात्तत्सेवनात्तत्स्त्रीसेवनाच पञ्चभिरयाज्ययाजनात्पूतो भवति । अग्राह्यग्रहणाद्ग्राह्याग्रहणादभ्यासोपासनाच्च षड्भिर्ब्राह्मणस्य लोहितकरणात्स्त्रीलोहितकरणात्पशुहननात्सुवर्णस्तेयात्पतिसंप्रयोगाच्च सप्तभिः प्राजापत्यानां हीनाचरणात् । यज्ञोपवेधनाच्च अष्टभिश्चान्द्रायणस्यान्तरानाचरणाद्गुरुतल्पगमनाद्रजस्वलागमनाच्च नवभिः सुरापानाच्च दशभिरश्रोत्रिययाजनात् असोमपानात् अन्यायतश्च एकादशभिर्ब्राह्मणहननाद्गर्भहननाद्द्वादशभिः पूर्वजन्मेहजन्मकृतैः सर्वैः पापैः प्रमुच्यते स्वर्गलोकं गच्छति पितॄन्स्वर्गलोकं गमयति अग्निष्टोमादीन्क्रतून्यजति तैः क्रतुभिरिष्टं भवति । वेदाध्यायी सदैव स्याद्यथा हि सत्यवाक्शुचिः। यं यं कामयते कामं तं तं वेदेन साधयेत् । असाध्यं नास्ति यत्किंचिद्ब्रह्मणो हि फलं महत् ब्रह्मणो हि फलं महदिति । समाप्तौ यजुषा तर्पयतीति । वेदपारायणे समाप्ते एता देवताः पूर्वोक्ता अग्निसोमाद्यायजुषा तर्पयति यजुर्वेदपारायणे तस्य वेदस्य प्राधान्यमुच्यते । अथवा भूरादिव्याहृतिचतुष्टयात्मकं यजुःशब्देन गृह्यते तेनैतदुक्तं भवति । भूर्देवांस्तर्पयामीत्यनेन प्रकारेण तर्पयित्वा अग्निसोमादींस्तर्पयेदिति । नास्यान्तरा