पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पृथक्कुरु च अस्मत् अस्मत्तः जुहुराणं प्रतिबन्धकमेनः पापम्। यतो भूयिष्ठां ते नमउक्तिं विधेम बहुतरां तव नमस्कारोक्तिं कुर्मः । व्याख्यातायाः पुनर्वचनं विशेषार्थम् ॥ १६ ॥
म०. पुनरन्येन मन्त्रेणाग्न्याख्यं ब्रह्मप्रति योगी मार्गं याचते । अगस्त्यदृष्टाग्नेयी त्रिष्टुप् ( अ० ५ । क० ३६ )। व्याख्यातापि विशेषाय पुनर्व्याख्यायते । हे देव दानादिगुणयुक्त हे अग्ने, अस्मान् सुपथा शोभनेन मार्गेण देवयानेन नय । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । गतागतलक्षणेन दक्षिणमार्गेण निर्विष्टोऽहम् अतोऽग्ने, त्वां याचे पुनर्गमनागमनवर्जितेन शोभनेन पथास्मान्कर्मफलविशिष्टान्नय । किमर्थम् । राये धनाय मुक्तिलक्षणाय । कर्मफलभोगायेत्यर्थः । किंविधस्त्वम् । विश्वानि सर्वाणि वयुनानि कर्माणि प्रज्ञानानि वा विद्वान् जानन् । किंच जुहुराणं । 'हुर्च्छा कौटिल्ये' शानचि जुहोत्यादित्वेन रूपम् । कुटिलं प्रतिबन्धकं वञ्चनात्मकमेनः पापमस्मत् अस्मत्तः सकाशात् युयोधि पृथक्कुरु वियोजय । नाशयेत्यर्थः । 'यु मिश्रणामिश्रणयोः' ह्वादित्वाश्छब्लोपद्वित्वे छान्दसं हेर्धित्वम्। ततो विशुद्धा वयं ते तुभ्यं भूयिष्ठां बहुतरां नमउक्तिं नमस्कारवचनं विधेम कुर्याम । इदानीं सपापत्वात्तव परिचर्यां कर्तुं न शक्नुमस्ततस्त्वया पापनाशे कृते शुद्धा वयं नमस्कारेण त्वां परिचरेमेत्यर्थः ॥ १६ ॥

सप्तदशी।
हि॒र॒ण्मये॑न॒ पात्रे॑ण स॒त्यस्यापि॑हितं॒ मुख॑म् । यो॒ऽसावा॑दि॒त्ये पुरु॑ष॒: सोऽसाव॒हम् ।
ओ३म् खं ब्रह्म॑ ।। १७ ।।
इति माध्यन्दिनीयायां वाजसनेयसंहितायां चत्वारिंशोऽध्यायः ॥ ४० ॥
उ० इदानीमादित्योपासनमाह । हिरण्मयेन । यद्यपि हिरण्मयरूपेण पात्रेण येन रौप्यमयेन पात्रेण । पिबन्त्यस्मिन्निवस्थितान् रसान् रश्मय इति पात्रं मण्डलं तेन पात्रेण मण्डलेन सत्यस्याविनाशिनः पुरुषस्य अपिहितमन्तर्हितम् । मुखं शरीरम् । तथापि यः असौ आदित्यः पुरुषः योगिभिरुपलक्ष्यते । सः असौ अहम् अस्मि । एतां चोपासनां कुर्यात् ॥ १७॥ ॐ खं ब्रह्म । ओमिति नामनिर्देशः।आकाशस्वरूपं ब्रह्म ध्यायेत् आत्मत्वेन । नन्वचेतन आकाशः चेतन आत्मा । तद्यथा 'विज्ञानमानन्दं ब्रह्म' इति तत्रानन्दप्रतिपादकं वाक्यम् । स यो मनुष्याणां राद्धः समृद्धो भवति' इत्युपक्रम्य 'अथ ये शतं प्रजापतिलोक आनन्दाः स एको ब्रह्मलोक आनन्दः' इति । तथा सर्वनियन्तृत्वं दर्शयति 'एतस्य वा अक्षरस्य प्रशासने गार्गी' त्युपक्रम्य 'द्यावापृथिवी विधृते तिष्ठतः' इत्यादि । तथा सर्वज्ञत्वं दर्शयति । 'यद्वा एतमक्षरं गार्गि अदृष्टं द्रष्टृ' इत्यादि । तथा सत्यसंकल्पादयोऽस्य गुणाः श्रूयन्ते 'सत्यसंकल्पः सत्यधृष्टि' रित्यादि । यद्येवं तर्हि एतद्वै तदक्षरं गार्गि अस्मिन्वा आकाश ओतश्च प्रोतश्वेति ओतप्रोतसामान्यात् आकाशेनैवैतद्रूपं ब्रह्माभिहितं स्यादिति । अयमेव च ब्रह्माभिहितं स्यादिति अयमेव च ब्रह्मवित्सिद्धान्तः ॥
इति उवटकृतौ मन्त्रभाष्ये चत्वारिंशोऽध्यायः समाप्तः॥४०॥
आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना ।
उवटेन कृतं भाष्यं पदवाक्यैः सुनिश्चितैः ॥ १॥
ऋष्यादींश्च नमस्कृत्य अवन्त्यामुवटोऽवसन् ।
मन्त्राणां कृतवान्भाष्यं महीं भोजे प्रशासति ॥ २ ॥
म० पुनरादित्योपासनमाह । उष्णिक् यजुर्द्वयान्ता 'उष्णिक् त्रिपादान्त्यो द्वादशक' इति वचनात् । हिरण्मयमिव हिरण्मयं ज्योतिर्मयं यत् पात्रम् पिबन्ति यत्र स्थिता रश्मयो रसानिति पात्रं मण्डलम् तेन तेजोरूपेण मण्डलेन सत्यस्यादित्यमण्डलस्थस्याविनाशिनः पुरुषस्य मुखं शरीरमपिहितमाच्छादितं वर्तते । तथापि यः असौ प्रत्यक्षः आदित्ये रविमण्डले पुरुषः पुरुषाकारत्वात् पूर्णमनेन प्राणबुद्ध्यात्मना जगत्समस्तमिति वा पुरुषः पुरिशयनाद्वा स मण्डलस्थः पुरुषः असौ प्रत्यक्षः कार्यकारणसंघातप्रविष्टोऽहमस्मि । एतां चोपासनां कुर्यादित्यर्थः । ओम् खं ब्रह्मेति यजुषी । ओ३मिति नामनिर्देशो ब्रह्मणः खं ब्रह्मेत्याकाशरूपमन्ते ब्रह्म ध्यायेत् ( अनु० ४ । ९)। यद्यपि ब्रह्म चेतनमाकाशस्त्वचेतनस्तथाप्येकदेशे सादृश्यम् । नभोवद्व्यापकं ब्रह्म ओमिति जपन्ध्यायेदित्यर्थः । सूर्यमण्डलस्थः पुरुषोऽहमेवेत्यभेदेन चिन्तयेत् ॥ १७ ॥
अथ विचारः । विद्यां चाविद्यां चेत्यत्र विद्याशब्देन किं मुख्या परमात्मविद्योच्यते उतोपासना वा । अमृतमश्नुत इत्यत्र अमृतशब्देन साक्षान्मुक्तिरुत्तरमार्गेण परम्परया वा । नाद्यः । विद्याकर्मणोर्यस्तद्वेदोभयᳪ सहेति समुच्चयानुपपत्तेस्तयोर्विरोधात् विद्योत्पत्तौ तदाश्रयेऽविद्यानुत्पत्तेः । वह्निरुष्णः प्रकाशश्चेति ज्ञानोत्पत्तौ शीतोऽग्निरप्रकाशश्चेति अविद्योत्पत्तिर्न संभवति नापि संशयोऽज्ञानं वा 'यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोकः' इत्युक्तत्वात् । किंच विद्याशब्देन परमात्मविद्याग्रहणे अग्ने नयेति सुपथयाचनमनुपपन्नम् । तस्माद्विद्योपासना अमृतं चापेक्षितमिति दिक् ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
व्यरमच्चरमोऽध्यायः परमात्मनिरूपकः ॥ ४० ॥
शुक्लयजुर्वेदस्य मन्त्रभागः समाप्तः ।
समाप्तोऽयं ग्रन्थः ।
१ दशाध्याये समाख्यातानुवाकाः सर्वसंख्यया। शतं दशानुवाकाश्च नवान्ये च मनीषिभिः ॥ सप्तषष्टिश्चितौ ज्ञेयाः सौत्रे द्वाविंशतिस्तथा । अश्व एकोनपञ्चाशत्पञ्चत्रिंशत्खिले स्मृताः ॥ शुक्रियेषु तु विज्ञेया एकादश मनीषिभिः । एकीकृत्य समाख्यातं त्रिशतं त्र्यधिकं मतम् ॥

समाप्तोयं ग्रन्थः।