पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तमः प्रविशन्ति । ये उ ये पुनः । विद्यायामेव रताः आत्मज्ञान एवाकृतकर्माणो रता नराः ॥ १२ ॥
म० ये तु कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषन्ति तान्प्रत्युच्यते । विद्याविद्ययोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । विद्याया अन्या अविद्या कर्म । ये जना अविद्यामग्निहोत्रादिलक्षणां केवलामुपासते स्वर्गार्थानि कर्माणि केवलमनुतिष्ठन्ति ते अन्धमदर्शनात्मकं तमोऽज्ञानं प्रविशन्ति । संसारपरम्परामनुभवन्तीत्यर्थः । ततस्तस्मादन्धात्मकात्तमसो भूय इव बहुतरमेव तमः ते प्रविशन्ति । ये उ ये पुनर्विद्यायामात्मज्ञाने देवताज्ञाने एव रताः कर्माणि हित्वा कर्माकरणे प्रत्यवायोत्पत्यान्तःकरणशुद्ध्यभावेन ज्ञानानुदयादिति भावः ॥ १२ ॥

त्रयोदशी ।
अ॒न्यदे॒वाहुर्वि॒द्याया॑ अ॒न्यदा॑हु॒रवि॑द्यायाः ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ।। १३ ।।
उ० अन्यदेव । अन्यदेव फलमाहुः विद्यायाः । आत्मज्ञानादन्यच्च आहुः अविद्यायाः । कर्मण इति शुश्रुमेत्यादिव्याख्यातम् ॥ १३ ॥
म० तयोः फलभेदमाह । विद्याया आत्मज्ञानस्य फलमन्यदेवाहुरमृतरूपम् । अविद्यायाः कर्मणश्च फलं पितृलोकरूपमन्यदेवाहुः । धीराः । 'कर्मणा पितृलोको विद्यया देवलोक' इति श्रुतेः । ये धीराः धीमन्तः आचार्याः नोऽस्मभ्यं ज्ञानं कर्म च विचचक्षिरे व्याचख्युः । तदुक्तमित्येवं धीराणां वचः शुश्रुम श्रुतवन्तः ॥ १३ ॥

चतुर्दशी।
वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते ।। १४ ।।
उ० विद्यां च आत्मज्ञानं च अविद्यां कर्म च यस्तदुभयं वेद जानाति सह एकीभूतं कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतम् अथ कर्मकाण्डं ज्ञानकाण्डं च एकीकृत्य अविद्यया कर्मकाण्डेन मृत्युं तीर्त्वोत्तीर्य कृतकृत्यो भूत्वा विद्यया ब्रह्मपरिज्ञानेनामृतत्वं मोक्षमश्नुते प्राप्नोति ॥ १४ ॥
म० समुच्चयमाह । विद्यां देवताज्ञानं अविद्यां कर्म च तदुभयं विद्याविद्यारूपं द्वयं यः सह वेद एकीकृत्य वेद एकेन पुरुषेणानुष्ठेयं जानाति । कर्मकाण्डं ज्ञानकाण्डस्य गुणभूतमित्यर्थः। सोऽविद्ययाग्निहोत्रादिकर्मणा मृत्युं स्वाभाविककर्मज्ञानं मृत्युशब्दवाच्यं तीर्त्वोत्तार्यान्तःशुद्ध्या कृतकृत्यो भूला विद्यया देवताज्ञानेनामृतं देवतात्मभावमश्नुते प्राप्नोति 'तद्धि अमृतमुच्यते यद्देवतात्मगमनम्' इति श्रुतेः ॥ १४ ॥

पञ्चदशी।
वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा॑न्त॒ᳪ शरी॑रम् ।
ओ३म् क्रतो॑ स्मर । क्लि॒बे स्म॑र । कृ॒तᳪ स्म॑र ।। १५ ।।
उ० इदानीमित्थं कृतब्रह्मोपासनस्य योगिनः शरीरपातोत्तरकाले यद्भवति तदाह । वायुरनिलम् । वायुग्रहणमिन्द्रियाण्येकादश महाभूतानि पञ्च जीवात्मैकः एवं सप्तदशकलिङ्गोपलक्षणार्थं । वायुः प्राणोऽनिलं स्वकीयां प्रकृतिमापद्यते अमृतं परं ब्रह्म तद्धि तद्विज्ञाय संपद्यते । अथेदं स्थूलशरीरं कीदृशं तदा भवति । भस्मान्तं भस्मैव भवति कृतप्रयोजनकत्वात् । इदानीं योगिनः आलम्बनभूतमक्षरं कथ्यते । ॐ इति नाम वा प्रतिमा वा ब्रह्मणः । इदानीमन्तकाले योगी स्मरणं करोति । क्रतो स्मर । योऽग्निर्ब्रह्मचर्यादारभ्य परिचरितः सः मनःश्वासरूपेणावस्थितः संबोध्यते । हे क्रतो, मां स्मर इदानीमुपस्थितः प्रत्युपकारस्य काल इत्यभिप्रायः । ऋतुर्वा यज्ञः संबोध्यते । क्रतो स्मर क्लिबे स्मर क्लृप्ताय लोकाय स्मर । कृतं स्मर मया यत्कृतं तत्स्मर ॥ १५॥
म० अथ कृतोपासनो योगी अन्तकाले प्रार्थयते । द्वे यजुषी । अथेदानीं परोष्यतो मम वायुः प्राणः । वायुग्रहणं | सप्तदशकलिङ्गोपलक्षणार्थम् । सप्तदशात्मकलिङ्गरूपः प्राणोऽध्यात्मपरिच्छेदं हित्वाधिदैवतरूपं सर्वात्मकममृतं सूत्रात्मानमनिलं वायुं प्रतिपाद्यतामिति वाक्यशेषः । 'वायुर्वाव गौतम सूत्रं वायुना गौतम सूत्रेणेदᳪ सर्वᳪ संदृब्धम्' (बृह० माध्य. ३ । ५ । ६) इति श्रुतेः ज्ञानकर्मसंस्कृतं लिङ्गमुत्रातममत्वित्यर्थः । अथ इदं स्थूलं शरीरमग्नौ हुतं सत् भस्मान्तं भस्मरूपं भूयात् । भस्मान्तः स्वरूपं यस्य तत्कृतप्रयोजनत्वात् । अथ योगिनोऽवलम्बभूतमक्षरमुच्यते । ओमिति ब्रह्मणः प्रतिमा नाम वा । अस्य ब्रह्म ऋषिः गायत्रीच्छन्दः परमात्मा देवता वेदारम्भे होमे शान्तिपुष्टिकर्मसु काम्येषु नैमित्तिकेष्वपि कर्मसु विनियोगः । ओंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते। हे ओम् , हे क्रतो संकल्पात्मक, स्मर यन्मम स्मर्तव्यं तस्यायं कालः प्रत्युपस्थितोऽतः स्मर । यस्त्वं ब्रह्मचर्ये गार्हपत्ये च मया परिचरितस्तत् स्मर । क्लिबे स्मर कल्प्यते भोगायेति क्लृप् लोकः तस्मै स्मर । जशादेश आर्षः 'छन्दस्युभयथा' इति पदान्तत्वात् । मयास्मै अयं लोको दातव्यस्तस्मै क्लृप्ताय लोकाय स्मर। कृतं स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । स्मरेत्यस्यावृत्तिरादरार्था । 'क्रतो इत्यादि त्रिभिर्यजुर्भिरन्ते यज्ञान्योगी स्मारयति' ( अनु० ४ । ९) इति कात्यायनः ॥ १५॥

षोडशी।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ।। १६ ।।
उ० अग्ने नय । हे अग्ने, नय सुपथा देवयानेन मार्गेण राये मुक्तिलक्षणाय धनायास्मान् विश्वानि सर्वाणि । देव दानादिगुणयुक्त, वयुनानि प्रज्ञानानि विद्वाञ्जानानः युयोधि