पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनीषी मनस ईषिता सर्वज्ञः । परिभूः परि सर्वेषामुपर्युपरि भवतीति परिभूः । स्वयंभूः स्वयमेव भवतीति येषामुपरि भवति यश्चोपरि भवति स स्वयमेव भवतीति स्वयंभूः । स नित्य ईश्वरः सर्वं कृतवानित्यर्थः ॥ ८॥

नवमी।
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽसं॑भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ सम्भू॑त्याᳪ र॒ताः ।। ९ ।।
उ० इत उत्तरमुपासनामन्त्राः प्रोच्यन्ते । अन्धं तमः षडनुष्टुभः । लोकायतिकाः प्रस्तूय निन्द्यन्ते । येषामेतद्दर्शनम् । जलबुबुदवज्जीवाः । मदशक्तिवद्विज्ञानमिति । अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते। मृतस्य सतः पुनःसंभवो नास्ति । अतः शरीरग्रहणादस्माकं मुक्तिरेव । नहि विज्ञानात्मा कश्चिदनुच्छित्तिधर्मास्ति यो यमनियमैः संबध्यते । एवं ये उपासते ते अन्धं अज्ञानलक्षणं तमः प्रविशन्ति ततो भूय इव ते तमः। ततोपि बहुतरम् । इवोऽनर्थकः । ते तमः प्रविशन्ति ये उ । उकारः कर्मोपसंग्रहार्थीयः । ये संभूत्यामेव रताः । आत्मैवास्मि नान्यत्किंचिदस्तीत्ययमभिप्रायः । कर्मपराङ्मुखाय तत्कर्मकाण्डज्ञानकाण्डयोरसंभव इत्ययमभिप्रेत्य स्वबुद्धिमद्भुतां विभावयन्तः आत्मज्ञान एव रताः ॥९॥
म० अतः परमुपासनामन्त्रा उच्यन्ते षडनुष्टुभः । यमनियमसंबन्धवान्विज्ञानात्मा कश्चिन्नास्ति जलबुद्बुदवज्जीवाः मदशक्तिवद्विज्ञानमित्यादिमतवादिनो बौद्धाः प्रस्तूय निन्द्यन्ते । ये नराः असंभूतिमसंभवमुपासते मृतस्य पुनः संभवो नास्ति अतः शरीरान्तेऽस्माकं मुक्तिरेवेति वदन्ति ते अन्धं तमोऽज्ञानलक्षणं प्रविशन्ति । ये उ ये च संभूत्यामेव रताः संभवत्यस्या इति संभूतिरात्मा तत्रैवासक्ताः कर्मपराङ्मुखाः स्वबुद्धिलाघवमजानाना आत्मज्ञानमात्ररताः आत्मैवास्ति नान्यत् कर्मादीनि कर्मकाण्डज्ञानकाण्डयोः संबन्धो नास्तीत्यभिप्रायवन्त इत्यर्थः । ते नराः ततोऽन्धात्तमसो भूय इव । इवशब्दोऽनर्थकः । बहुतरं तमोऽज्ञानं विशन्ति । अस्या ऋचोऽर्थान्तरमुच्यते । अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते । संभवनं संभूतिः कार्यस्योत्पत्तिः तस्या अन्या असंभूतिः प्रकृतिः कारणमव्याकृताख्यं तामसंभूतिमव्याकृताख्यां प्रकृतिं कारणमविद्याकामकर्मबीजभूतामदर्शनात्मिकां ये उपासते ते तदनुरूपमेवान्धं तमोऽदर्शनात्मकं संसारं प्रविशन्ति । ये संभूत्यां कार्यब्रह्मणि हिरण्यगर्भाख्ये रताः ते ततस्तस्मादपि भूयो बहुतरमिव तमः प्रविशन्ति ॥ ९॥

दशमी।
अ॒न्यदे॒वाहुः स॑म्भ॒वाद॒न्यदा॑हु॒रस॑म्भवात् ।
इति॑ शुश्रुम॒ धीरा॑णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ।। १० ।।
उ० अन्यदेव । अन्यदेव फलं आहुः संभवात् संभवपरिज्ञानात् । अन्यच्च आहुः फलम् संभवपरिज्ञानात् । इति एवं शुश्रुम श्रुतवन्तो वयम् धीराणां वचांसि । ये धीराः नः अस्माकम् । तत् ब्रह्म विचचक्षिरे आख्यातवन्तः ॥१०॥
म० अथोभयोरुपासनयोः समुच्चयकारणमवयवबलभेदमाह । संभवात्संभूतेः कार्यब्रह्मोपासनात् अन्यदेव पृथगेवाणिमाद्यैश्वर्यलक्षणं फलमाहुः कथयन्ति धीराः। तथा असंभवात् असंभूतेरव्याकृतादव्याकृतोपासनादन्यदेव बलमुक्तम् । | अन्धं तमः प्रविशन्तीत्युक्तं प्रकृतिलय इति पौराणिकोक्तं फलमाहुः इत्येवंविधं धीराणां विदुषां वचः शुश्रुम वयं श्रुतवन्तः। | ये धीराः नोऽस्माकं तत् पूर्वोक्तं संभूत्यसंभूत्युपासनाफलं | विचचक्षिरे व्याख्यातवन्तः ॥ १०॥

एकादशी। |
सम्भू॑तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ᳪ स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा सम्भू॑त्या॒मृत॑मश्नुते ।। ११ ।।
उ० संभूतिं च समस्तस्य जगतः संभवैकहेतुं च परं ब्रह्म । विनाशं च विनाशिशरीरं च । यः योगी तदुभयं वेद जानाति । सह एकीभूतम् । शरीरग्रहणेन ज्ञानोत्पत्तिहेतूनि कर्माणि करोति । सः विनाशेन । विनाशिना शरीरेण । मृत्युं तीर्त्वा उत्तीर्य । संभूत्या आत्मविज्ञानेन । अमृतमश्नुते । अमृतत्वमश्नातीत्यर्थः ॥ ११ ॥
म० संभूतिं सर्वजगत्संभवैकहेतुं परं ब्रह्म । विनाशं विनाशोऽस्यास्तीति विनाशः अर्शआदित्वादच्प्रत्ययः। विनाशधर्मकं शरीरम् । तदुभयं शरीरिशरीररूपं द्वयं यो योगी सह एकीभूतं वेद जानाति । देहभिन्नोऽहं देहीवासे कर्मवशादिति ज्ञात्वा शरीरेण ज्ञानोत्पत्तिकराणि निष्कामकर्माणि करोतीत्यर्थः । स विनाशेन विनाशिना शरीरेण मृत्युं तीर्त्वान्तःकरणशुद्धिं संपाद्य संभूत्यात्मज्ञानेनामृतमश्नुते मुक्तिं प्राप्नोति । अस्या ऋचोऽर्थान्तरम् । यथा । संभूत्युपासनयोरेकपुरुषार्थत्वात्समुच्चय एव युक्त इत्याह । अत्र विनाशशब्दद्वये अवर्णलोपो द्रष्टव्यः पृषोदरादित्वात् । अन्यदाहुरसंभवादित्युक्तेः । संभूतिमविनाशं च व्याकृताव्याकृतोपासनद्वयं यः सह वेद । उभयमुपास्त इत्यर्थः । स योगी अविनाशेनाव्याकृतोपासनेन मृत्युमनैश्वर्यमधर्मकामादिदोषजातं च तीर्त्वातिक्रम्य संभूत्या हिरण्यगर्भोपासनेनामृतं प्रकृतिलयलक्षणमश्नुते ॥ ११ ॥

द्वादशी।
अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया॑ᳪ र॒ताः ।। १२ ।।
उ० अन्धं तमः अज्ञानलक्षणं तमः प्रविशन्ति । ये अविद्यां स्वर्गाद्यर्थानि कर्माणि उपासतेऽनुतिष्ठन्ति । ततो भूय इव ते तमः । ततोपि बहुतरम् । इवोऽनर्थकः । ते