पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० यस्तु । तुशब्दो विशेषणार्थः । यः पुनः सर्वाणि भूतानि चेतनाचेतनानि आत्मन्नेव अनुपश्यति । मय्येव सर्वाणि भूतान्यवस्थितानि न मद्व्यतिरिक्तानि । अहमेव परं ब्रह्मेति । सर्वभूतेषु चात्मानं अवस्थितं तद्व्यतिरिक्तं पश्यति । ततो न विचिकित्सति न संशेते । एवं पश्यतो योगिनः परब्रह्मरूपाण्यात्मसंस्थानि भवन्ति विज्ञानघनानन्दैकत्वादिति अतो विचारान्न विनिवर्तते ॥ ६ ॥
म० अथोपासनप्रकारमाह । यस्तु यः पुनः मुमुक्षुः सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि चेतनानि आत्मन् । सप्तम्या लुक् । आत्मनि एवानुपश्यति मय्येव सर्वभूतानि स्थितानि न मद्व्यतिरिक्तानीति पश्यति । आत्मव्यतिरिक्तानि न पश्यतीत्यर्थः । सर्वभूतेषु चात्मानमवस्थितमव्यतिरिक्तं पश्यति तेषां भूतानां स्वं आत्मानमात्मत्वेन पश्यतीत्यर्थः । अयमर्थः । अस्य कार्यकारणसंघातस्यात्माहं सर्वप्रत्ययसाक्षिभूतश्चेतयिता निर्गुणश्च तथा तेनैव स्वरूपेणाव्यक्तादीनां स्थावरान्तानामहमेवात्मेति सर्वेषु चात्मानं निर्विशेषं पश्यति । ततस्तस्माद्दर्शनान्न विचिकित्सति न संशेते 'कित रोगापनयने संशये च' इति धातोः 'गुप्तिज्किद्भ्यः सन्' (पा० ३ । १।५) इति स्वार्थे सन्प्रत्ययः। आत्मनोऽन्यत्पश्यतः सर्वः संदेहो भवत्यात्मानमेवात्यन्तं शुद्धं निरन्तरं पश्यतो न संदेहावकाश इति भावः । अत आत्मज्ञस्य विचारनिवृत्तिः ॥ ६॥

सप्तमी।
यस्मि॒न्त्सर्वा॑णि भू॒तान्यात्मै॒वाभू॑द्विजान॒तः ।
तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ।। ७ ।।
उ० किंच । यस्मिन् अवस्थाविशेषे । सर्वाणि भूतानि चेतनाचेतनानि । आत्मैव अभूत् संभवन्ति । विजानतः आत्मैवेदं सर्वं' । 'सर्वं खल्विदं ब्रह्मेत्येवमादिवाक्यविचारेण विधृतविज्ञानस्य । तत्र अवस्थाविशेषे कृतचेतसो योगिनः कः मोहः कश्च शोकः न कश्चिदपीत्यभिप्रायः। शोकमोहौ ह्यपरिज्ञाततत्वस्य भवतः । हेतुगर्भं विशेषणमाह । एकत्वमनुपश्यतः सर्वाणि भूतानि ध्यायतः॥७॥. .
म० इममेवार्थमन्यो मन्त्रो वदति । यस्मिन्नवस्थाविशेषे विजानतः 'आत्मैवेदम्' 'सर्वं खल्विदं ब्रह्मे'त्यादिवाक्यविचारेणावधृतपरमार्थस्य सतः सर्वाणि भूतानि आत्मैवाभूत् परमार्थदर्शनादात्मैव संवृत्तः । तत्र तस्यामवस्थायामेकत्वं विशुद्धं गगनोपममात्मैकलं पश्यतः जानतः को मोहः कः शोकश्च । अविद्याकार्ययोः शोकमोहयोरसंभवात्सकारणस्य संसारस्यात्यन्तमुच्छेद इति भावः ॥ ७ ॥

अष्टमी।
स पर्य॑गाच्छु॒क्रम॑का॒यम॑व्र॒णम॑स्नावि॒रᳪ शु॒द्धमपा॑पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑य॒म्भूर्या॑थातथ्य॒तोऽर्था॒न् व्य॒दधाच्छाश्व॒तीभ्य॒: समा॑भ्यः ।। ८ ।।
उ० स पर्यगात् । जगती । य एवमात्मानमुपास्ते स पर्यगात्परिगच्छति शुक्रं शुक्लं विज्ञानानन्दस्वभावमचिन्यशक्तिम् । अकायं न विद्यते कायः शरीरं यस्य स तथोक्तः । अव्रणं कायरहितत्वादेव । अस्नाविरं स्नायुरहितमकायत्वादेव शुद्धमनुपहतं सत्वरजस्तमोभिरपापविद्धं क्लेशकर्मविपाकाशयैरसंस्पृष्टम् । अकायमव्रणमस्नाविरमिति पुनरुक्तान्यभ्यासे भूयांसमर्थं मन्यन्त इत्यदोषः । इत्थंभूतं ब्रह्म प्रतिपद्यते । अथात्मोपासनायुक्तस्य फलमाह । यश्च कविः कान्तदर्शनः मनीषी मेधावी परिभूः सर्वतो भविता विज्ञानबलात्स्वयंभूः स्वयं ज्ञानबलाद्ब्रह्मरूपेण भविता सः याथातथ्यतोऽर्थान्व्यदघाद्यथास्वरूपमर्थान्विहितवान् त्यक्तस्वस्वामिसंबन्धैरर्थैश्चेतनाचेतनैरुपभोगं कृतवान् । शाश्वतीभ्योऽनन्ताभ्यः समाभ्योऽर्थाय अनन्तवर्षप्राप्तये च कर्म कृतवान् । ननु कर्मजाड्याल्लोकः कर्मवान्भवति । सत्यम् । आत्मसंस्कारकं तु कर्म ब्रह्मभावजनकं स्यात् । तस्मात्सोपि गच्छति शुक्रमकायं ब्रह्म इति ॥ ८ ॥
म० एवंभूतात्मज्ञस्य फलमाह । य एवमात्मानं पश्यति स ईदृशं ब्रह्म पर्यगात् परिगच्छति प्राप्नोतीत्यर्थः । कीदृशम् । शुक्रं शुद्धं विज्ञानानन्दस्वभावमचिन्त्यशक्ति । अकायं न कायः शरीरं यस्य तत् । अकायत्वादेवाव्रणमक्षतम् । अस्नाविरं न विद्यन्ते स्नावाः शिरा यत्र तदस्नाविरं स्नायुरहितम् । अकायत्वादेव शुद्धमनुपहतं सत्त्वरजस्तमोमिः । अपापविद्धं न पापैर्विद्धं क्लेशकर्मविपाकाशयैरस्पृष्टम् । अकायमव्रणमस्नाविरमिति पुनरुक्तिरर्थातिशयद्योतनाय । 'अभ्यासे भूयांसमर्थं मन्यन्ते' (निरु.१०।४२) इति यास्कोक्तेः । ईदृशं ब्रह्मात्मज्ञः प्रतिपद्यत इत्यर्थः । पुनस्तस्यैव फलान्तरमाह । य ईदृश उपासकः स शाश्वतीभ्यः समाभ्यः निरन्तरमनन्तवर्षेभ्योऽर्थाय अनन्तवर्षप्राप्तये याथातथ्यतः यथातथाभावो याथातथ्यं तेन यथास्वरूपमर्थान् व्यदधाद्विहितवान् । त्यक्तस्वस्वामिसंबन्धैश्चेतनाचेतनैरर्थैरुपभोगं कृतवानित्यर्थः । कीदृशः । कविः क्रान्तदर्शी । मनीषी मेधावी । परि सर्वतो भवतीति परिभूः ज्ञानबलात्सर्वरूपः । स्वयं भवतीति स्वयंभूः ब्रह्मरूपेण भविता । ईदृशोऽपि पूर्वोक्तं शुक्रमकायमित्यादिविशेषणविशिष्टं ब्रह्म प्राप्नोतीत्यर्थः । एतस्या ऋचोऽर्थान्तरं यथा । योऽयमतीतमन्त्रोक्त आत्मा स पर्यगात् परितः सर्वत्र गच्छति नभोवत्सर्वं व्याप्नोति । व्याप्य च शाश्वतीभ्यो नित्याभ्यः समाभ्यः संवत्सराख्येभ्यः प्रजापतिभ्यो याथातथ्यतः यथाभूतकर्मफलसाधनतः अर्थान्कर्तव्यपदार्थान् व्यदधात् । यथानुरूपं व्यभजदित्यर्थः । स कीदृशः । शुक्रमित्यादिविशेषणानि लिङ्गव्यत्ययेन पुंलिङ्गे नेतव्यानि । शुक्रः शुद्धो दीप्तिमान् । अकायोऽशरीरः । लिङ्गशरीरवर्जित इत्यर्थः । अव्रणोऽक्षतः । अस्नाविरः शिरारहितः । अव्रणोऽस्नाविर इति विशेषणद्वयेन स्थूलशरीरप्रतिषेधः । शुद्धो निर्मलः । अपापविद्धोऽधर्मादिवर्जितः । क्रविः सर्वदृक् 'नान्यदतोऽस्ति द्रष्टृ इति श्रुतेः ।