पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दस्तीति चिन्तयेदित्यर्थः । यत् किंचेति भिन्नक्रमः । किंच यत् जगत्यां लोकत्रये जगत् जङ्गमादिकं स्वामिसंबन्धालिङ्गितं भवेत् तेन सर्वेण त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन भुञ्जीथाः भोगमनुभवेः। मा गृधः 'गृधु अभिकाङ्क्षायाम्' आकाङ्क्षां मा कृथाः । ममेदमिति धियं त्यजेत्यर्थः । किमिति । स्विदिति निपातौ वितर्के । धनं कस्य स्वित् । न कस्यापीत्यर्थः । सर्वाणि द्रव्याण्यन्योन्यमुपगच्छन्ति दृश्यन्ते अतो ममेदमिति बुद्धिरविद्या तां त्यजतो योगेऽधिकार इत्यर्थः ॥ १ ॥

द्वितीया ।
कु॒र्वन्ने॒वेह कर्मा॑णि जिजीवि॒षेच्छ॒तᳪ समा॑: ।
ए॒वं त्वयि॒ नान्यथे॒तो॒ऽस्ति॒ न कर्म॑ लिप्यते॒ नरे॑ ।। २ ।।
उ०. निःस्पृहस्यापि योगिनो ज्ञाननिमित्ते कर्मण्यधिकार इत्येतमर्थमाह । कुर्वन्नेव । कुर्वन्नेव कर्माणि मुक्तिहेतुकानि । इह लोके जिजीविषेत् । जिजीविषेरिति पुरुषव्यत्ययः । प्रत्यक्षकृतत्वान्मन्त्रस्य । जीवितुमिच्छेः पथ्यहितमितभक्षणेन । शतं समाः इत्युपलक्षणार्थम् । यावदायुःपर्यवसानमित्यर्थः । एवम् त्वयि तवेति विभक्तिव्यत्ययः । मुक्तिरस्तीति शेषः । नान्यथेतोऽस्ति इतः प्रकारात् अन्यथा मुक्तिर्नास्ति । एतदुक्तं भवति । यथा स्वर्गप्राप्तौ नानाभूताः प्रकाराः सन्ति न तथा मुक्तावित्यर्थः । ननु कर्मणः फलेन भवितव्यमथ कथं मुक्तिप्राप्तिरित्येतदाशङ्क्याह । न कर्म लिप्यते नरे । नहि मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये संबध्यते । मुक्तिप्रदानेनोपक्षीणशक्तित्वात् । तथाच बृहदारण्यकम् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन' इति । विविदिषन्ति वेदितुमिच्छन्ति । अनेनैतद्दर्शयति यावदिच्छाप्रवृत्तिस्तावत्कर्मस्वधिकार इति ॥२॥
म० आत्मज्ञानाशक्तस्य कर्मोपदेशमाह । कर्माणि अग्निहोत्रादीनि निष्कामानि मुक्तिहेतुकानि कुर्वन्नेवेह लोके शतं समाः शतवर्षपर्यन्तं जिजीविषेत् । पुरुषव्यत्ययः । त्वं जिजीविषेः जीवितुमिच्छेः । पुरुषायुषः शतवर्षत्वाच्छतग्रहणम् । त्वयीति विभक्तिव्यत्ययः। तवैवं कर्म कुर्वतो जिजीविषतो मुक्तिरस्तीति शेषः । इतः प्रकारादन्यथा प्रकारान्तरेण मुक्तिर्नास्ति । अयमर्थः । स्वर्गादिप्राप्तौ यथा नानाप्रकाराः सन्ति न तथा मुक्तावित्यर्थः । निष्कामकर्मानुष्ठानेन शुद्धान्तःकरणस्यैव मुक्तिरित्यर्थः । ननु कर्मणः फलेन भाव्यम् , कथं मुक्तिरित्यत आह न कर्मेति । मुक्त्यर्थं क्रियमाणं कर्म नरे मनुष्ये न लिप्यते न संबध्यते । मुक्तिकारणान्तःकरणशुद्ध्यापादकत्वेनोपक्षीणशक्तित्वात् यावदिच्छा तावत्कर्मस्वधिकार इति दर्शितम् । उत्तरार्धस्वार्थान्तरं वा । एवंप्रकारे त्वयि जिजीविषति नरे नरमात्राभिमानिनि इतः एतस्मात्कर्मकरणादन्यथा प्रकारान्तरं नास्ति येन प्रकारेणाशुभं कर्म न लिप्यते । अतः शास्त्रविहितं कर्म कुर्वन्नेव जीवितुमिच्छेत् प्रत्यवायपरिहारायेत्यर्थः । तदुक्तम् 'द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मो निवृत्तौ च विभाषितः' इति ॥ २॥

तृतीया।
अ॒सु॒र्या नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।
ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जना॑: ।। ३ ।।
उ० इदानीं स्वर्गादिप्राप्तिहेतुभूतानि कर्माणि ये कुर्वन्ति ते निन्द्यन्ते । असुर्या नामेति । असुर्याः । परमात्मभावमद्वयमपेक्ष्य देवा अप्यसुराः । असुराणां स्वभूता असुर्याः एवंसंज्ञकास्ते लोकाः अन्धेन तमसा अज्ञानलक्षणेन तमसा आवृताः सर्वतोवृताः । तान् लोकान् ते जनाः प्रेत्य मृत्वा अपिगच्छन्ति । ये केचात्महनो जनाः आत्मानं घ्नन्ति ये जनाः ते आत्महनः । आत्मानं च ते घ्नन्ति ये स्वर्गप्राप्तिहेतूनि कर्माणि कुर्वन्ति । ते हि जनित्वा म्रियन्ते मृत्वा च जायन्ते । एवमहर्निशं नाशं प्राप्नुवन्ति ॥३॥
म० अथ काम्यकर्मपरान्निन्दति । ये के च ये केचित् जनाः नराः आत्महनः आत्मानं घ्नन्तीत्यात्महनः अविद्वांसः काम्यकर्मपराः विद्यमानस्याजरामरस्यात्मनोऽविद्यादोषेण तिरस्करणादात्महन्तारः। ते प्रेत्य मृत्वा देहं त्यक्त्वा तान् लोकान् जन्मानि स्थावरान्तानि अपिगच्छन्ति प्राप्नुवन्ति । तान् कान् नाम प्रसिद्धम् । ते ये यत्तदोर्व्यत्ययः । ये लोकाः लोक्यन्ते दृश्यन्ते भुज्यन्ते कर्मफलानि यत्रेति लोका जन्मानि । असुर्याः असुराणामिमे असुर्याः, असुषु प्राणेषु रमन्तेऽसुराः प्राणपोषणपराः । अद्वैतमपेक्ष्य देवा अपि असुराः । कीदृशा लोकाः । अन्धेन तमसा अदर्शनात्मकेनाज्ञानेन आवृताः आच्छादिताः । अनात्मज्ञाः पुनर्जायन्ते म्रियन्ते चेत्यर्थः ॥ ३ ॥

चतुर्थी ।
अने॑ज॒देकं॒ मन॑सो॒ जवी॑यो नैन॑द्दे॒वा आ॑प्नुव॒न्पूर्व॒मर्श॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये॑ति॒ तिष्ठ॒त्तस्मि॑न्न॒पो मा॑त॒रिश्वा॑ दधाति ।। ४ ।।
उ० इदानीमधस्तनयमनियमवता मुमुक्षूणां यथाभूतं परब्रह्म आत्मत्वेनोपास्यं तदाह । उक्तंच 'अहं ब्रह्मास्मि संरुध्य इदं सर्वं च मन्मयम् । इयं विद्या समुद्दिष्टा विमुक्तिर्यन्निबन्धनी' इति । अनेजदेकम् । त्रिष्टुप् । यत् अनेजत् अचलत् तत्त्वमस्ति एकमद्वितीयं विज्ञानघनरूपेण । मनसो जवीयः । मनस्तावच्छीघ्रं भवति ततोऽपि शीघ्रतरं प्रसवदानेन कारणभूतत्वात् । नैनद्देवा आप्नुवन् नचैतत्तत्वं देवा अपि प्राप्तुं शक्ताः । सूक्ष्मत्वात् पूर्वम् अर्शत् । रिशतिर्हिंसाकर्मा अविनश्यदास्ते। अनादिनिधनमित्यर्थः। तद्धावतः तदः स्थाने यदो वृत्तिरुद्देश्यत्वात् । यच्च धावतः अन्यान्पुरुषादीनत्येति