पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'छन्दस्यपि दृश्यते' (पा० ७।१।७६) इत्यस्थिशब्दस्य हलादिविभक्तावप्यनङादेशः १४, मजभ्यः मज्जा षष्ठी धातुः १६, रेतसे रेतो वीर्यम् १७, पायवे पायुर्गुदम् १८॥१०॥

एकादशी।
आ॒या॒साय॒ स्वाहा॑ प्राया॒साय॒ स्वाहा॑ संया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहो॑द्या॒साय॒ स्वाहा॑ ।
शु॒चे स्वाहा॒ शोच॑ते॒ स्वाहा॒ शोच॑मानाय॒ स्वाहा॒ शोका॑य॒ स्वाहा॑ ।। ११ ।।
उ०. आयासायेत्यादयः स्पष्टार्थाः ॥ ११ ॥ १२॥ १३॥
म० आयासाय आयासादयो देवविशेषाः १९, प्रायासाय २०, संयासाय २१, विवासाय २२, उद्यासाय २३, शुचे २४, शोचते २५, शोचमानाय २६, शोकाय २७ ॥ ११ ॥

द्वादशी।
तप॑से॒ स्वाहा॒ तप्य॑ते॒ स्वाहा॒ तप्य॑मानाय॒ स्वाहा॑ त॒प्ताय॒ स्वाहा॑ घ॒र्माय॒ स्वाहा॑ ।
निष्कृ॑त्यै॒ स्वाहा॒ प्राय॑श्चित्त्यै॒ स्वाहा॑ भेष॒जाय॒ स्वाहा॑ ।। १२ ।।
म० तपसे २८, तप्यते २९, तप्यमानाय ३०, तप्ताय ३१, घर्माय ३२, निष्कृत्यै ३३, प्रायश्चित्त्यै ३४, भेषजाय ३५॥ १२॥

त्रयोदशी।
य॒माय॒ स्वाहा ऽन्त॑काय॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहा॒ ब्रह्म॑णे॒ स्वाहा॑ ब्रह्मह॒त्यायै॒ स्वाहा॑। विश्वे॑भ्यो दे॒वेभ्य॒: स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॑ ।।१३ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकोनचत्वारिंशोऽध्यायः ॥ ३९॥
इति उवटकृतौ मन्त्रभाष्ये एकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
म० यमाय ३६, अन्तकाय ३७, मृत्यवे ३८, ब्रह्मणे ३९, ब्रह्महत्यायै ४०, विश्वेभ्यो देवेभ्यः ४१, एतेभ्यो देवेभ्यः सुहुतमस्तु । एता आहुतीर्हुत्वा द्यावापृथिवीभ्यः स्वाहेत्यन्त्यामाहुतिं जुहुयात् ४२ । एतावता कर्मकाण्डं समाप्तम् ॥ १३ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे।
गतोऽध्याय उपान्त्योऽयं प्रोक्तघर्मादिनिष्कृतिः ॥ ३९॥


चत्वारिंशोऽध्यायः।
तत्र प्रथमा। .
ई॒शा वा॒स्य॒मि॒दᳪ सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒: कस्य॑ स्वि॒द्धन॑म् ।। १ ।।
उ० समाप्तं कर्मकाण्डमिदानीं ज्ञानकाण्डं प्रस्तूयते । ईशावास्यम् । तिस्रोऽनुष्टुभः । दध्यङ्ङाथर्वणऋषिः स्वशिष्यं पुत्रं वा गर्भाधानादिभिः संस्कारैः संस्कृतशरीरमधीतवेदमुत्पादितपुत्रं यथाशक्ति अनुष्ठितयज्ञमपापं निस्पृहं यमनियमवन्तमतिथिपूजापनीतकिल्बिषं मुमुक्षुमुपसन्नं शिक्षयन्नाह । ईशा वास्यम् । इदं सर्वम् ईशा 'ईश ऐश्वर्ये' तृतीयान्तस्यैतद्रूपम् । यदीशनेन । वास्यं वसनीयम् ममेदमित्यनया भावनया आच्छादनीयम् । इदं सर्वमिति प्रत्यक्षतो निर्दिश्यत इति। यत्किंच यत्किंचशब्दो भिन्नक्रमः। किंच । यत् जगत्यां पृथिव्यां जगत् जङ्गमादि स्वस्वामिसंबन्धाभिलक्षितं स्यात् । तेनानेन सर्वेण । त्यक्तेन त्यक्तस्वस्वामिसंबन्धेन । भोगान्भुञ्जीथाः अनुभावयस्व । मा गृधः। 'गृधु अभिकाङ्क्षायाम्' । माभिकाङ्क्षीः ममेदमिति धियं त्यज । कस्यस्विद्धनम् । स्विन्निपातो वितर्कवचनः । कस्य पुनरेतद्धनं न कस्यचिदपीत्यभिप्रायः । सर्वाण्ययथार्थानि हि द्रव्याण्युत्पद्यन्ते । तद्यथा । स्त्रियमिति अन्यथा भुङ्क्ते अन्यथा पुत्र अन्यथा प्राघूर्णकः । तथा कटककेयूरादीन्यलंकरणानि अन्यं चान्यं च पुरुषमुपतिष्ठमानानि दृश्यन्ते । अतः सर्वार्थस्य यस्य स्वस्वामिसंबन्धः सा त्वविद्या। निःस्पृहस्य योगेऽधिकार इति वाक्यार्थः ॥ १ ॥
गणेशनरहरिलक्ष्मीर्नत्वा तत्कृपया मया ।
संहिताचरमाध्याये वेददीपो वितन्यते ॥
म० एकोनचत्वारिंशताध्यायैः कर्मकाण्डं निरूपितम् । इदानीं कर्माचरणशुद्धान्तःकरणं प्रति ज्ञानकाण्डमेकेनाध्यायेन निरूप्यते । ईशावास्यमित्यादिमन्त्राणां कर्मसु विनियोगो नास्ति तेषां शुद्धत्वैकत्वापापविद्धत्वाशरीरत्वसर्वगतत्वाद्यात्मयाथात्म्यप्रतिपादनात् । तच्च कर्मणा विरुध्यते । नहीदृगात्मोत्पाद्यो विकार्य आप्यः संस्कार्यः कर्ता भोक्ता वा भवेद्येन कर्मशेषता स्यात् । तस्मादविद्याकृतमात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वाशुद्धत्वपापविद्धत्वाद्यङ्गीकृत्य लोकबुद्धिसिद्धानि कर्माणि विहितानि । यो हि दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना कर्मफलेनार्थी सन्नहं द्विजातिः कर्माधिकारवानित्यात्मानं मन्यते तस्य कर्माधिकारः । तस्मादेते मन्त्रा आत्मयाथात्म्यप्रकाशनेन शोकमोहादिसाधनमज्ञानं विनिवर्त्यात्मज्ञानं जनयन्तीत्यभिधेयसंबन्धप्रयोजनानि । इदानीं ते मन्त्रा व्याख्यायन्ते । ईशा वास्यम् । | आत्मदेवत्य अनुष्टुप्छन्दस्कोऽध्यायो दधीचाथर्वणेन दृष्टः । गर्भाधानादिसंस्कारसंस्कृतमधीतवेदं जनितसुतं यथाशक्तिकृतयज्ञं निष्पापं निःस्पृहं यमनियमोपेतं मुमुक्षुमुपसन्नं शिष्यं पुत्रं वा ऋषिरुपदिशन्नाह । 'ईश ऐश्वर्ये' क्विप् ईष्ट इतीदं ईशिता परमेश्वरः । स हि सर्वजन्तूनामात्मा सन् सर्वमीष्टे । तेन स्वेनात्मनेशा इदं प्रत्यक्षतो दृश्यमानं सर्वं वास्यम् 'वस आच्छादने' 'ऋहलोर्ण्यत्' (पा० ३।१।१२४) इति ण्यत्प्रत्ययः । आच्छादनीयं परमात्माहमेवेदं सर्वमिति परमार्थसत्यरूपेणात्मना सर्वमिदमनृतमाच्छादनीयम् । परमात्माहमेवास्मि नान्य