पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

योग्यत्वात् । अथ मन्त्रार्थः । य एते उग्रादिनामकाः सप्त मरुतः तेभ्यः स्वाहा सुहुतमस्तु । उग्रः उत्कृष्टः । बिभेत्यस्मादसौ भीमः । ध्वनति शब्दं करोतीति ध्वान्तः । धूनयति कम्पयति शत्रूनिति धुनिः । सहते शत्रूनभिभवति ससह्वान् ‘सहतेः क्वसुश्च' (पा० ३।२।१०७) इति क्वसुप्रत्ययः। संहितायामभ्यासदीर्घश्छान्दसः । अभियुनक्ति अस्मत्संमुखं योगं प्राप्नोतीत्यभियुग्वा । 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३।२।७५) इति युजेः क्वनिप्प्रत्ययः । विक्षिपः विविधं क्षिपति रिपूनिति विक्षिपः 'इगुपध-' (पा० ३। १।१३५) इति कप्रत्ययः ॥७॥

अष्टमी।
अ॒ग्निᳪ हृद॑येना॒शनि॑ᳪ हृदया॒ग्रेण॑ पशु॒पतिं॑ कृत्स्न॒हृद॑येन भ॒वं य॒क्ना ।
श॒र्वं मत॑स्नाभ्या॒मीशा॑नं म॒न्युना॑ महादे॒वम॑न्तःपर्श॒व्येनो॒ग्रं दे॒वं व॑नि॒ष्ठुना॑ वसिष्ठ॒हनुः॒ शिङ्गी॑नि को॒श्याभ्या॑म् ।। ८ ।।
उ० अग्निं हृदयेन । आश्वमेधिकं आ अध्यायसमाप्तेः। अरण्येऽध्येयत्वादिह पाठः । द्वे कण्डिके श्रुतिर्देवताश्वावयवसंबन्धविधानात् ॥८॥
म० 'विमुखाच्च परेभ्यो मा नो मित्र इति प्रत्यृचमनुवाकाभ्यामन्त्यां द्यावापृथिवीयामिति' (का० २०।८।६-८)। अस्यार्थः-उग्रश्चेति मन्त्रो विमुखः ततः परेभ्यो देवताश्वाङ्गेभ्योऽग्निं हृदयेनेत्यादिभ्यश्चतुर्गृहीतमाज्यं गृहीत्वा जुहोति । तत्रापि पक्षद्वयम् । अग्नये स्वाहा हृदयाय स्वाहा अशनये स्वाहा हृदयाग्राय स्वाहा इत्यादि कात्यायनादीनामभिप्रायः । अग्निं हृदयेन प्रीणामि स्वाहेत्यादि हरिस्वामिमते प्रयोगः । ततश्चाग्निं हृदयेनेत्यादीन् विश्वेभ्यो देवेभ्यः स्वाहेत्यन्तान्होमान्कृत्वा मा न इत्यनुवाकाभ्यां (२५ । २४-३९) षोडशाहुतीर्हुत्वा द्यावापृथिवीभ्यां स्वाहेति चरमामाहुतिं जुहोतीति सूत्रार्थः । 'अरण्येऽनूच्यान्हुत्वा द्यावापृथिव्यामुत्तमामाहुतिं जुहोती ति श्रुतेः अरण्येऽनूच्यानरण्ये पठितानग्निं हृदयेनेत्यादीन्विश्वेभ्यो देवेभ्यः स्वाहेत्येवमन्तान्होमान्कृत्वा द्यावापृथिवीयामुत्तमामाहुतिं जुहोतीति श्रुतेरर्थः । तथा चानुक्रमणी 'अग्निᳪ हृदयेनाश्वमेधिकानि तत्रत्य एवर्षिर्लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिᳪशत् (४।८)। तत्राग्निं हृदयेन उग्रं लोहितेन द्वे कण्डिके ब्राह्मणरूपे देवताश्वावयवसंबन्धविधानात् । अरण्येऽध्येयत्वादिह पाठः । लोमादीन्यङ्गान्येव पठितानि । आयासादयो देवता एव । अथ मन्त्रार्थः । हृदयेनाङ्गेनाग्निं देवं प्रीणामि । हृदयस्याग्रभागेनाशनिं देवं प्रीणामि । समग्रहृदयेन पशुपतिं देवं प्रीणामि । यक्ना यकृता कालखण्डेन भवं प्रीणामि । 'पद्देन्न-' (पा० ६ । १।६३) इत्यादिना यकृच्छब्दस्य यकन्नादेशः । मतस्ने हृदयास्थिविशेषौ ताभ्यां शर्वं देवं प्रीणामि । मन्युना अश्वसंबन्धिक्रोधेन ईशानं देवं प्रीणामि । अन्तर्वर्तमानेन पर्शव्येन पार्श्वास्थिसंबन्धिना मांसेन महादेवं देवं प्रीणामि । पर्शवः पार्श्वास्थीनि । वनिष्ठुः स्थूलान्त्रं तेनोग्रं देवं प्रीणामि । वसिष्ठहनुः वसिष्ठस्य देवस्य हनुः कपोलैकदेशो ज्ञातव्यः । यद्वा वसिष्ठा या हनुः कपोलाधोदेशः 'तत्परा हनुः' इत्यमरः । तत्परा कपोलाधोभागस्था हन्त्याहारमिति हनुः लिङ्गव्यत्ययः । वसिष्ठहन्वा कोशाभ्यां कोशो हृदयकोशः तत्स्थाभ्यां मांसपिण्डाभ्यां च शिङ्गीनि शिङ्गिसंज्ञानि दैवतानि प्रीणामि ॥८॥

नवमी। . .
उ॒ग्रँल्लोहि॑तेन मि॒त्रᳪ सौ॑व्रत्येन रु॒द्रं दौर्व्र॑त्ये॒नेन्द्रं॑ प्रक्री॒डेन॑ म॒रुतो॒ बले॑न सा॒ध्यान् प्र॒मुदा॑ । भ॒वस्य॒ कण्ठ्य॑ᳪ रु॒द्रस्या॑न्तः पा॒र्श्व्यं म॑हादे॒वस्य॒ यकृ॑च्छ॒र्वस्य॑ वनि॒ष्ठुः प॑शु॒पते॑: पुरी॒तत् ।। ९ ।।
उ० उग्रेति स्पष्टार्थः ॥ ९॥
म०. लोहितेनासृजा उग्रं देवं प्रीणामि । शोभनं व्रतं कर्म यस्य स सुव्रतस्तस्य भावः सौव्रत्यं शोभनगत्यादिकर्मकर्तृत्वं तेन मित्रं देवं प्रीणामि । दुष्टं स्खलनोच्छलनादि व्रतं यस्य स दुर्र्ततः तस्य भावो दौर्व्रत्यम् तेन रुद्रं देवं प्रीणामि । प्रकृष्टं क्रीडनं प्रक्रीडः तेनेन्द्रं देवं प्रीणामि । बलेन सामर्थ्यन मरुतो देवान्प्रीणामि । प्रमुदा प्रकृष्टा मुत् हर्षः प्रमुत् तया साध्यान्देवान्प्रीणामि । भवस्य कण्ठ्यम् अत्र षष्ठ्यन्तो देवः अङ्गं प्रथमान्तम् कण्ठ्यं कण्ठे भवं मांसं भवस्यास्तु । विभक्तिव्यत्ययो वा। कण्ठ्येन भवं देवं प्रीणामि । एवमग्रेऽपि । पार्श्वस्यान्तर्मध्ये भवं मांसमन्तःपार्श्व्यं तद्रुद्रस्यास्तु । यकृत् कालखण्डं महादेवस्यास्तु । वनिष्ठुः स्थूलान्त्रं शर्वस्यास्तु । पुरीतत् हृदयाच्छादकमन्त्रं पशुपतेर्देवस्यास्तु ॥ ९ ॥

दशमी।
लोम॑भ्य॒: स्वाहा॒ लोम॑भ्य॒: स्वाहा॑ त्व॒चे स्वाहा॑ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ लोहि॑ताय॒ स्वाहा॒ मेदो॑भ्य॒: स्वाहा॒ मेदो॑भ्य॒: स्वाहा॑ ।
मा॒ᳪसेभ्य॒: स्वाहा॑ मा॒ᳪसेभ्य॒: स्वाहा॒ स्नाव॑भ्य॒: स्वाहा॒ स्नाव॑भ्य॒: स्वाहा॒ ऽस्थभ्य॒: स्वाहा॒ ऽस्थभ्य॒: स्वाहा॑ म॒ज्जभ्य॒: स्वाहा॑ म॒ज्जभ्य॒: स्वाहा॑ ।
रेत॑से॒ स्वाहा॑ पा॒यवे॒ स्वाहा॑ ।। १० ।।
उ० तथाचानुक्रमणी 'अग्निᳪ हृदयेनाश्वमेधिका तत्रत्य एवर्षिलोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् १०
म० लोमभ्यः स्वाहेति प्रायश्चित्ताहुतयो द्विचत्वारिंशत् । लोमादीन्यङ्गानि । लोमभ्यः स्वाहा लोमानि जुहोमीत्यर्थः । २, त्वचे ४, लोहिताय ६, मेदोभ्यः मेदो धातुविशेषः, - मांसेभ्यः १०, स्नावभ्यः स्नावानः-स्नायवो नसा १२, अस्थभ्यः