पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० मनसः कामम् । पूर्णाहुतिहोमः अनुष्टुप् श्रीदेवत्या यजमानाशीः । मनसः कामं कामप्राप्तिः । आकूतिं आकवनम् । आत्मनो धर्मो मनसः संयोगे सति जायते । वाचः सत्यम् । यष्टव्यं मयेत्यादि । अशीय प्राप्नुयाम् । अनया पूर्णाहुत्या । किंच । पशूनां रूपं पशूपकारः । अन्नस्य रसः। यशश्च श्रीश्च श्रयतां आश्रयन्तु । मयि मामिति विभक्तिव्यत्ययो वा । यन्महावीरभेदनेनापचितं तत्सर्वमुपचीयतामित्यर्थः ॥ ४॥ . . -
म० द्वितीयः पूर्णाहुतिमन्त्रः । अहं मनसः कामममिलाषम् । आकुञ्चनमाकूतिः प्रयत्नस्तं चाशीय प्राप्नुयाम् । वाचः सत्यं चाशीय मद्वाक् सत्यं वदतु । मयि एतत्सर्वं श्रयतां तिष्ठतु। पशूनां रूपं पशुसंबन्धिनी शोभा अन्नस्य रसः स्वादुत्वम् यशः कीर्तिः श्रीर्लक्ष्मीश्च ॥४॥ ...

पञ्चमी। .
प्र॒जाप॑तिः सम्भ्रि॒यमा॑णः स॒म्राट् सम्भृ॑तो वैश्वदे॒वः स॑ᳪस॒न्नो घ॒र्मः प्रवृ॑क्त॒स्तेज॒ उद्य॑त आश्वि॒नः पय॑स्यानी॒यमा॑ने पौ॒ष्णो वि॑ष्य॒न्दमा॑ने मारु॒तः क्लथ॑न् । मै॒त्रः शर॑सि सन्ता॒य्यमा॑ने वाय॒व्यो॒ ध्रि॒यमा॑ण आग्ने॒यो हू॒यमा॑नो॒ वाग्घु॒तः ।। ५ ।।
उ० प्रजापतिः संभ्रियमाण इति महावीरावस्थानप्रतिपादिका श्रुतिः ॥ ५॥ . :
म० 'प्रजापतिः संभ्रियमाण इति यथाकालमिति' ( का० २६ । ७ । ५०)। संभ्रियमाणाद्यवस्थायां महावीरमेदे प्रजापतये स्वाहेत्याद्या यथाकालमाहुतयो होतव्या इति सूत्रार्थः । तद्यथा मन्त्रो दर्शयति । संभ्रियमाणो महावीरो यदि भिद्यते तदा प्रायश्चित्तहोमे प्रजापतिर्देवता । प्रजापतये स्वाहेति प्रायश्चित्ताहुतिर्होतव्येत्यर्थः । प्रजापतिः संभ्रियमाणो यथाकालं प्रायश्चित्तदेवतेत्युक्तत्वात् ( अनु० ४ । ८)। निष्ठिताभिमर्शनादारभ्याजापयोऽवसेचनान्तं संभ्रियमाणः। सम्राट् संभृतः पयोऽवसेकानन्तरं कुशासादनात्प्राक् संभृत इत्युच्यते । तत्र भेदे सम्राट प्रायश्चित्तदेवता सम्राजे स्वाहेति । वैश्वदेवः संसन्नः। आसादनादारभ्य मुञ्जप्रलवेष्वधिश्रयणात् प्राक् संसन्नः । तत्र भेदे विश्वदेवदैवतः विश्वेभ्यो देवेभ्यः स्वाहेति । घर्मः प्रवृक्तः। अधिश्रयणादारभ्य परिशासाभ्यां ग्रहणात्प्राक् प्रवृक्तः प्रवृज्यत इति । तत्र भेदे घर्माय स्वाहेति । तेज उद्यतः । उद्यम्यत इत्युद्यतः उद्यमनादारभ्य प्रागजापयोऽवसेकादुद्यतः । तत्र भेदे तेजसे स्वाहेति । आश्विनः पयस्थानीयमाने । अजापयस्यासिच्यमाने घर्मभेदे आश्विनः अश्विदेवत्यो घर्मः अश्विभ्यां स्वाहेति जुहोति । पौष्णी विष्यन्दमाने 'स्यन्दू प्रस्रवणे' विशेषेण स्यन्दमाने घृते बहिर्निःसरति सति भेदे घर्मः पौष्णः पूषदेवत्यः पूष्णे स्वाहेति जुहोति । मारुतः क्लथन् । क्लथनं मध्ये घृतस्यावर्तनम् तदा मरुद्देवत्यः तत्र भेदे मरुद्भ्यः स्वाहेति जुहोति । मैत्रः शरसि संताय्यमाने पयोऽवसेके योपरि तरिका जायते सा शरःशब्देनोच्यते तस्मिन् संताय्यमाने मथ्यमाने मैत्रो मित्रदेवत्यः 'तायृ पालनसंतत्योः' कर्मणि यकि | शानचि रूपम् । तत्र शरआदिहरणात् प्राक् भेदे मित्राय स्वाहेति जुहोति । वायव्यो ह्रियमाणः । आहवनीयं ह्रियमाणो होमात्प्राक् वायुदेवतः तत्र भेदे वायवे स्वाहेति जुहोति । आग्नेयो हूयमानः । हूयमानो घर्मोऽग्निदेवतः तत्र तद्भेदे अग्नये स्वाहेति जुहोति । वाग्घुतः हुतो हुतहोमादूर्ध्वं प्रागुत्तरघर्मारम्भात् वाक् वाग्दैवतः तत्र भेदे वाचे स्वाहेति जुहोति । एता आहुतयः सकृद्गृहीताज्यैः ॥ ५ ॥

षष्ठी।
स॒वि॒ता प्र॑थ॒मेऽह॑न्न॒ग्निर्द्वि॒तीये॑ वा॒युस्तृ॒तीय॑ आदि॒त्यश्च॑तु॒र्थे च॒न्द्रमा॑: पञ्च॒म ऋ॒तुः ष॒ष्ठे म॒रुत॑: सप्त॒मे बृह॒स्पति॑रष्ट॒मे मि॒त्रो न॑व॒मे वरु॑णो दश॒म इन्द्र॑ एकाद॒शे विश्वे॑दे॒वा द्वा॑द॒शे ।। ६ ।।
उ० सविता प्रथमेऽहन्नित्याह । देवतासंबन्धविधाना श्रुतिः ॥ ६ ॥ महावीरप्रायश्चित्तानि समाप्तानि ॥
म० 'सविता प्रथमेऽहन्निति च प्रत्यहमिति' ( का० २६ । ७ । ५१)। प्रथमे अहन् दिने घर्मभेदे सविता देवता सवित्रे स्वाहेति जुहोति । एवमग्रेऽपि । अग्निर्द्वितीये द्वितीयेऽहनि घर्ममेदेऽग्निर्देवता । वायुस्तृतीये तृतीयेऽहनि वायुर्देवता । चतुर्थे आदित्यो देवता । चन्द्रमाः पञ्चमेऽह्नि । ऋतुः षष्ठेऽह्नि । मरुतः सप्तमेऽह्नि । बृहस्पतिरष्टमेऽह्नि । मित्रो नवमेऽह्नि । वरुणो दशमेऽह्नि । इन्द्र एकादशेऽह्नि । विश्वेदेवाः द्वादशेऽह्नि देवता । तत्र भेदे विश्वेभ्यो देवेभ्यः स्वाहेति जुहोति । उपसत्प्रवृद्धौ एता एवाहुतयः पुनरादित आरभ्यावर्त्यन्ते ॥ ६ ॥
महावीरप्रायश्चित्तानि समाप्तानि ॥

सप्तमी।।
उ॒ग्रश्च॑ भी॒मश्च॒ ध्वा॒न्तश्च॒ धुनि॑श्च ।
सा॒स॒ह्वाँश्चा॑भियु॒ग्वा च॑ वि॒क्षिप॒: स्वाहा॑ ।। ७ ।।
उ० उग्रश्च । अग्निकण्डिका । अरण्याध्ययनसामान्यादिह पाठः। मारुती गायत्री विमुखाख्या। भीमश्च । ध्वान्तश्च । धुनिश्च । सासह्वांश्च । अभियुग्वा च । विक्षिपश्च । अत्रापि चकारः समुच्चयार्थीयः । एवं सप्त मरुतः ॥ ७ ॥
म० 'विमुखेनारण्येऽनूच्यमिति' ( का० १८ । ४ । २४)। चयने मारुतान् षट् पुरोडाशान् शुक्रज्योतिश्चेत्यादिषण्मारुतमन्त्रैः ( १७ । ८०-८५) हुत्वारण्येऽनूच्यसंज्ञं सप्तमं पुरोडाशं विमुखसंज्ञेनोग्रश्चेति मन्त्रेण जुहुयात् । तथाचानुक्रमणी 'उग्रश्च मारुती गायत्री विमुखाख्यो मन्त्रोऽग्नौ विनियुक्तस्तस्मादाग्निक एवास्यर्षिः परमेष्ठी प्राजापत्यो वेति' ( ४।८।) आग्निकः प्रजापतिर्ऋषिः । अस्य मन्त्रस्यात्र पाठोऽरण्ये पाठ