पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इति माध्यन्दिनीयायां वाजसनेयिसंहितायां अष्टत्रिंशोऽध्यायः ॥ ३८ ॥
उ० किंच । पयसो रेतः पयसः यत् रेतः जगदुत्पत्तिबीजम् । आभृतमाहृतम् तस्य दोहं प्रपूरणम् । अशीमहि व्याप्नुयाम । उत्तरामुत्तरां समाम् । उत्तरामुत्तरामिति वीप्सावचनम् । समाशब्दः संवत्सरवचनः । प्रतिसंवत्सरं च अशीमहि । सदाकालं यायजूकाः स्यामेत्यर्थः। त्विषः संवृक् महाव्रतीये भक्षणं दधिघर्मस्य । यस्त्वं त्विषः दीप्तेः संवृक् । संपूर्वो वृजिः स्वीकरणे वर्तते । दीप्तेः स्वीकरणः । तस्य तव । क्रत्वे क्रत्वोरिति विभक्तिव्यत्ययः । साधुक्रतुभूतस्य । दक्षस्य संकल्पसिद्धिभूतस्य च । सुषुम्णस्य साधुसुखभूतस्य । हे सुषुम्ण सुसुखस्वभाव, ते सुषुम्णाग्निहुतः । षष्ठ्यन्तमेतत् । अग्नौ हूयत इत्यग्निहुत् तस्याग्निहुतः । अपिच इन्द्रपीतस्य प्रजापतिभक्षितस्य । मधुमतः रसवतः उपहूतः उपहूतस्य ग्रहस्य भक्षयामि ॥ २८॥
इति उवटकृतौ मन्त्रभाष्येऽष्टत्रिंशत्तमोऽध्यायः ॥ ३८ ॥
म०. गायत्र्यवसानहीना दधिघर्मभक्षणे एवं विनियुक्ता । पयसो रेतो वीर्यं सारं जगदुत्पत्तिबीजं यत् आभृतमाहृतम् दधिघर्मरूपं यत् तस्य दोहं प्रपूरणं वयमुत्तरामुत्तरां समामुत्तरोत्तरस्मिन् वर्षे अशीमहि व्याप्नुयाम 'कालाध्वनोः-(पा० २।३।५) इति द्वितीया । वयं सर्वदा यायजूकाः स्यामेत्यर्थः। 'त्विषः संवृगिति महाव्रतीये' ( का० २६ । ७।५६) महाव्रतीयेऽहनि त्विष इति मन्त्रेण हुतशेषदधिघर्मभक्षणं कार्यमित्यर्थः । अतिजगती दधिघर्मदेवत्या । संवृणक्ति स्वीकरोतीति संवृक् स्वीकर्ता । संपूर्वो वृजिः स्वीकरणार्थः । हे त्विषः संवृक् कान्तेः स्वीकर्तः, हे सुषुम्ण, शोभनं सुम्नं सुखं यस्मात् सुषुम्णः तत्संबोधनम् हे सुखदातः, हे दधिघर्म, अहमुपहूतः कृतोपहवः सन् ते तवांशं भक्षयामि । कर्मणि षष्ठी वा । त्वां भक्षयामि । एकस्तेशब्दः पादपूरणः । कीदृशस्य ते । क्रत्वे दक्षस्य । चतुर्थी षष्ठ्यर्थे । क्रतोः संकल्पस्य दक्षः सिद्धिदाता तस्य संकल्पसिद्धिदातुः । क्रतुशब्दस्य चतुर्थ्येकवचने गुणाभाव आर्षः । तथा सुषुम्णस्य शोभनसुखभूतस्य । अग्निहुतः अग्नौ हूयत इत्यग्निहुत् तस्य अग्नौ हुतस्य । इन्द्रपीतस्य इन्द्रेण पीतो भक्षितस्तस्य । प्रजापतिभक्षितस्य प्रजापतिना भक्षितस्तस्य । मधुमतः मधुरस्वादोपेतस्य । उपहूतस्य कृतोपहवस्य । एवंविधस्य तवांशं हे दधिघर्म, अहं भक्षयामीत्यर्थः । समाप्ता घर्मेतिकर्तव्यता ॥ २८ ॥
श्रीमन्महीधरकृते वेददीपे निरूपितः। अष्टत्रिंशोऽयमध्यायो महावीरनिरूपणः ॥ ३८ ॥

एकोनचत्वारिंशोऽध्यायः।
तत्र प्रथमा।
स्वाहा॑ प्रा॒णेभ्य॒: साधि॑पतिकेभ्यः । पृ॒थि॒व्यै स्वाहा॒ ऽग्नये॒ स्वाहा॒ ऽन्तरि॑क्षाय॒ स्वाहा॑ वा॒यवे॒ स्वाहा॑ ।
दि॒वे स्वाहा॒ सूर्या॑य॒ स्वाहा॑ ।। १ ।।
उ० इतउत्तरं प्रवर्ग्यभेदं प्रायश्चित्तं स्वाहाप्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिं यावत् जुहोति । स्वाहा प्राणेभ्यः मनो वै प्राणानामधिपतिः । सुहुतमस्तु प्राणेभ्यः मनसा सहितेभ्यः। पृथिव्यै स्वाहेत्यादिस्पष्टम् ॥ १॥२॥३॥
म० प्रवर्ग्ये घर्मभेदे प्रायश्चित्तम् । तत्र 'स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति पूर्णाहुतिमाद्यामुत्तमां च मनसः काममाकूतिमिति' ( का० २६ । ७ । ४९) । तदर्थोऽयम् अध्वर्युः भूमिर्भूमिम् य ऋतेचिदिति मन्त्राभ्यां भग्नं घर्ममभिमृश्य परमेष्ठ्यादिचतुस्त्रिंशदाहुतीर्हुत्वा स्वाहा प्राणेभ्य इत्याद्यां पूर्णाहुतिं हुत्वा पृथिव्यै स्वाहेत्याहुतिविंशतिं सकृद्गृहीतेन हुत्वा मनस इत्यन्त्यां पूर्णाहुतिं करोतीति । मन्त्रार्थो यथा । साधिपतिकेभ्यः अधिपतिना हिरण्यगर्भेण सह वर्तमानेभ्यः प्राणेभ्यः स्वाहा सुहुतमस्तु इति पूर्णाहुतिमन्त्रः । ततो विंशतिः स्पष्टा मन्त्राः । पृथिव्यै सुहुतमस्तु । एवमग्रेऽपि अग्नये अन्तरिक्षाय वायवे दिवे सूर्याय ॥१॥

द्वितीया।
दि॒ग्भ्यः स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ नक्ष॑त्रेभ्य॒: स्वाहा॒ ऽद्भ्यः स्वाहा॒ वरु॑णाय॒ स्वाहा॑ ।
नाभ्यै॒ स्वाहा॑ पू॒ताय॒ स्वाहा॑ ।। २ ।।
म०. दिग्भ्यः चन्द्राय नक्षत्रेभ्यः अद्भ्यः वरुणाय नाभ्यै देवतायै पूताय शोधकाय । पुनातीति पूतः देवस्तस्मै ॥ २॥

तृतीया ।
वा॒चे स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ प्रा॒णाय॒ स्वाहा॑ । चक्षु॑षे॒ स्वाहा॒ चक्षु॑षे॒ स्वाहा॒ श्रोत्रा॑य॒ स्वाहा॒
श्रोत्रा॑य॒ स्वाहा॑ ।। ३ ।।
म०. वाचे वागधिष्ठात्रे एवमग्रेऽपि । प्राणाय प्राणेन्द्रियाधिष्ठात्रे । प्राणादीनां द्वित्वान्मन्त्रावृत्तिः । चक्षुषे तदधिष्ठात्रे। श्रोत्राय ॥ ३ ॥

चतुर्थी।
मन॑स॒: काम॒माकू॑तिं वा॒चः स॒त्यम॑शीय । प॒शू॒नाᳪ रू॒पमन्न॑स्य॒ रसो॒ यश॒: श्रीः श्र॑यतां॒ मयि॒ स्वाहा॑ ।। ४ ।।