पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

महान् प्रभावतः । मित्रोन दर्शतः मित्रइव दर्शनीयः। मित्रो हि सर्वस्यैव मित्रम् । संसूर्येण दिद्युतत् संगत्य सूर्येण सह द्योतते समानइव । उदधिः उदकधारणः । निधिश्च सुखानाम् ॥ २२॥
म० 'त्रिः परिषिच्याचिक्रददिति' (का० २६ । ७ । १२)। सामगानान्तरमुत्सादनदेशे परिषिच्य वक्ष्यमाणं करोतीत्यर्थः । परोष्णिक् घर्मदेवत्या । घर्मः सूर्यात्मना स्तूयते । वृषा आहुतिद्वारेण वृष्टिकर्ता घर्मः प्रवृज्यमानः सन् अचिक्रदत् 'क्रदि शब्दे' पुनः पुनः शब्दमकरोत् । कीदृशः । हरिः हरितवर्णः रसानां हर्ता वा 'एष वै वृषा हरिर्य एष तपत्येष उ प्रवर्ग्यः' (१४ । ३ । १।२६) इति श्रुतिः । महान् प्रभावान् । मित्रो न दर्शतः । न उपमार्थः । मित्र इव दर्शनीयः । अतएव सूर्येण सह स दिद्युतत् सूर्यतुल्यो द्योतते । द्युतेर्लुङि णिजन्तस्य रूपमडभावः । सूर्यवत् सर्वं द्योतयतीत्यर्थः । उदधिः उदकं धीयते यस्मिन् । जलस्य धर्ता निधिः सुखानामिति शेषः । सुखनिधिः ॥ २२ ॥

त्रयोविंशी।
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु॒ योऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ।। २३ ।।
उ० सुमित्रिया न उद्वयमेधोऽसीति व्याख्यातास्त्रयो मन्त्राः ॥ २३ ॥ २४ ॥ २५ ॥
म० 'चात्वाले मार्जयन्ते सपत्नीकाः सुमित्रिया न इति' ( का० २६ । ७।३७)। सपत्नीका ऋत्विग्यजमानाः चात्वाले मार्जनं कुर्वते । पत्न्या अपि मन्त्रपाठः व्याख्याता (अ० ६ । क. २२ ) ॥ २३ ॥

चतुर्विंशी।
उद्व॒यं तम॑स॒स्परि॒ स्व: पश्य॑न्त॒ उत्त॑रम् । दे॒वं दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ।। २४ ।।
म० 'उद्वयमित्युत्क्रामत्युत्तरपूर्वार्धम्' ( का० २६ । ७। ३८ ) । ऐशानीं दिशं प्रति यजमानो गच्छतीत्यर्थः । व्याख्याता ( अ० २० । क० २१) ॥ २४ ॥

पञ्चविंशी।
एधो॑ऽस्येधिषी॒महि॑ स॒मिद॑सि॒ तेजो॑ऽसि॒ तेजो॒ मयि॑ धेहि ।। २५ ।।
म० 'अनपेक्षमेत्यैधोऽसीति समिधमादायाहवनीयेऽभ्यादधाति समिदसीति' (का० २६ । ७ । ३५)। यजमानः पश्चादनवलोकयन्नीशानदेशादेत्यैधोऽसीति मन्त्रेणैकां समिधं गृहीत्वा समिदसीति मन्त्रेणाहवनीये दधातीत्यर्थः । मन्त्रद्वयं व्याख्यातम् ( अ० २० । क० २३ ) ॥ २५ ॥

षड्विंशी।
याव॑ती॒ द्यावा॑पृथि॒वी याव॑च्च स॒प्त सिन्ध॑वो वितस्थि॒रे ।
ताव॑न्तमिन्द्र ते॒ ग्रह॑मू॒र्जा गृ॑ह्णा॒म्यक्षि॑तं॒ मयि॑ गृह्णा॒म्यक्षि॑तम् ।। २६ ।।
उ० दधिघर्मग्रहणम् । यावती द्यावापृथिवी । महाबृहती ऐन्द्री । यावती यावत्परिमाणे द्यावापृथिव्यौ । यावच्च क्षेत्रं सप्तसिन्धवः सप्तसमुद्राः वितस्थिरे व्याप्नुवन्ति । तावन्तम् हे इन्द्र, ते तव ग्रहम् ऊर्जां अन्नेन सह गृह्णामि । अक्षितमनुपक्षीणं मयि गृह्णामि । मयीत्यधिकरणनिर्देशः। विज्ञानायेति शेषः । गृह्णामीत्यादिव्याख्यातम् ॥ २६ ॥
म०. 'यावती द्यावापृथिवी इति दधिघर्मग्रहणम्' (का० | २। ६ । ७ । ५४ ) । सपवित्रायामग्निहोत्रहवण्यां दधिघर्मं गृह्णातीत्यर्थः । ब्राह्मी उष्णिक दधिघर्मदेवत्या इन्द्रदेवत्या च । हे इन्द्र, ऊर्जा अन्नेन सह अक्षितमनुपक्षीणं ते तव ग्रहं तावन्तं तत्परिमाणमहं गृह्णामि । मयि च अक्षितं यथा स्यात्तथा गृह्णामि। तव ग्रहग्रहणेन मयि यज्ञक्षयो मास्त्वित्यर्थः । तावन्तं कियन्तम् । द्यावापृथिवी यावती द्यावाभूमी यत्परिमाणे। च पुनः सप्त सिन्धवः सप्त समुद्राः क्षीरोदाद्याः यावत् यत्परिमाणे देशे | वितस्थिरे विशेषेण स्थिताः तावन्तमतिमहत्तरं दधिघर्मं गृह्णामीत्यर्थः ॥ २६॥

सप्तविंशी।
मयि॒ त्यदि॑न्द्रि॒यं बृ॒हन्मयि॒ दक्षो॒ मयि॒ क्रतु॑: ।
घ॒र्मस्त्रि॒शुग्वि रा॑जति वि॒राजा॒ ज्योति॑षा स॒ह ब्रह्म॑णा॒ तेज॑सा स॒ह ।। २७ ।।
उ० भक्षयति । मयि त्यत् पङ्क्तिः यजमानाशीः । मयि त्यत् तत् इन्द्रियं वीर्यम् बृहत् महत् अस्तु । मयि च दक्षः संकल्पसंपत्तिः अस्तु । मयि च क्रतुः संकल्पः विशिष्टोऽस्तु । मयि च घर्मः त्रिशुक् तिस्रः शुचोऽस्येति त्रिशुक् । ताश्च व्याख्याताः शाकलमन्त्रेषु । विराजति विराजत्विति लकारव्यत्ययः । विराजा आदित्याख्येन ज्योतिषा सह ब्रह्मणा त्रय्याख्येन तेजसा सह ॥ २७ ॥
म० 'मयि त्यदिति भक्षणम्' ( का० २६ । ७ । ५५)। हुतशेषं दधिघर्मं यजमानर्त्विजः सोपहवं भक्षयन्तीत्यर्थः। पङ्क्तिः अष्टाक्षरपञ्चपादा दधिघर्मदेवत्या यजमानाशीर्देवतेति केचित् । बृहत् महत् त्यत् तत् इन्द्रियं प्रसिद्धं वीर्यं मयि विराजति | विराजतु लकारव्यत्ययः । दक्षः संकल्पसिद्धिः मयि विराजतु । क्रतुः सत्संकल्पो मयि विराजतु । विशेषेण राजते विराट् तेन जगत्प्रसिद्धेन ज्योतिषा तेजसा आदित्याख्येन सह ब्रह्मणा त्रयीलक्षणेन ज्योतिषा च सह घर्मो मयि विराजतु । कीदृशो घर्मः । त्रिशुक् तिस्रः शुचः दीप्तयो यस्य सः तास्तिस्रः शुचो या ते घर्म दिव्या शुगित्यष्टादश्यां कण्डिकायां शालाकमन्त्रे व्याख्याताः ॥ २७ ॥

अष्टविंशी।
पय॑सो॒ रेत॒ आभृ॑तं॒ तस्य॒ दोह॑मशीम॒ह्युत्त॑रामुत्तरा॒ᳪ समा॑म् ।
त्विष॑: सं॒वृक् क्रत्वे॒ दक्ष॑स्य ते सुषु॒म्णस्य॑ ते सुषुम्णाग्निहु॒तः ।
इन्द्र॑पीतस्य प्र॒जाप॑तिभक्षितस्य॒ मधु॑मत॒ ऽ उप॑हूत॒ ऽ उप॑हूतस्य भक्षयामि ।। २८ ।।