पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

या ते हे घर्म, पृथिव्यां शुक् जगत्यां छन्दसि प्रविष्टा । कीदृशी। सदस्या सदसि प्रविष्टा यज्ञगृहे स्थिता सा त इत्युक्तम् ॥१८॥

एकोनविंशी ।
क्ष॒त्रस्य॑ त्वा प॒रस्पा॑य॒ ब्रह्म॑णस्त॒न्वं॒ पाहि ।
विश॑स्त्वा॒ धर्म॑णा व॒यमनु॑ क्रामाम सुवि॒ताय॒ नव्य॑से ।। १९ ।।
उ० निष्क्रामति । क्षत्रस्य त्वा महावीरोऽभिधीयते बृहत्या । क्षत्रस्य संबन्धिनः परस्पाय परस्य पालनाय । हे महावीर, अनुक्रामामेति चतुर्थपादे भविष्यति तस्येह संबन्धः । अनुक्रामाम । किंच ब्रह्मणः तन्वं शरीरं पाहि गोपाय । किंच विशः । यज्ञो वै विशः । यज्ञस्य धर्मणा धारणेन निमित्तभूतेन त्वा त्वाम् हे महावीर, वयम् अनुक्रामाम अनुगच्छेम । सुविताय सुगताय सुप्रसूताय वा। नव्यसे नवतराय च कर्मणे अनुक्रामाम ॥ १९॥
म० 'क्षत्राय त्वेति निष्क्रमणं पुरस्तात्पत्नीमन्तर्धाय' ( का० २६ । ७ । ६ )। होमानन्तरमध्वर्युः पत्नीमग्रे कृत्वा शालाया निष्क्रामतीत्यर्थः । उपरिष्टाद्बृहती धर्मदेवत्या । हे घर्म, वयं त्वा त्वामनुक्रामाम अनुगच्छाम । त्वं ब्रह्मणः तन्वं शरीरं पाहि पालय । किमर्थमनुगमनम् । क्षत्रस्य क्षत्रियस्य दैवस्य सूर्यस्य परस्पाय परमपालनाय । परःशब्दोऽव्ययम् । पर उत्कृष्टं पायते रक्ष्यत इति परस्पं तस्मै । 'एतद् वै दैवं क्षत्रं य एष तपति' ( १४ । ३।१।९) इति श्रुतेः। किंच विशः यज्ञस्य धर्मणा धारणेन निमित्तेन वयं त्वामनुक्रामाम 'यज्ञो वै विट्यज्ञस्य त्वारिष्ट्यै' ( १४ । ३ । १ । ९) इति श्रुतेः । किमर्थम् । नव्यसे सुविताय नवीयसे नूतनाय सुगताय सुप्रसूताय कर्मणे कर्मसिद्ध्यर्थं त्वामनुगच्छामेत्यर्थः । सुष्ठु इतं सुवितम् 'इण् गतौ' क्तः उपसर्गस्योवङादेशः । यद्वा 'षू प्रेरणे' सूयते प्रेर्यते सुवितम् इडागमे धातोरुवङ् ॥ १९ ॥

विंशी।
चतु॑: स्रक्ति॒र्नाभि॑र्ऋ॒तस्य॑ स॒प्रथा॒: स नो॑ वि॒श्वायु॑: स॒प्रथा॒: स न: स॒र्वायु॑: स॒प्रथा॑: ।
अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिम ।। २० ।।
उ० महावीरं निदधाति । चतुःस्रक्तिः । दिशो महावीरस्य स्रक्तयः कोणः । यः चतुःस्रक्तिः । यश्च नाभिः नहनम् ऋतस्य सत्यस्य वा यज्ञस्य वा । एवं सप्रथाः सर्वतः पृथुः । सः नः अस्माकम् विश्वायुः सर्वस्यायुषः दाता । सप्रथाः सर्वतश्च प्रथयिता अस्तु । स नः सर्वायुः सप्रथाः। अभ्यासे भूयांसमर्थं मन्यन्ते । त्वत्प्रसादाच्च अपद्वेषः अपगच्छतु द्वेषः अस्मत्तः । वीतरागाः स्यामेत्यभिप्रायः । अपह्वरः । 'ह्वर ह्मल चलने' । अपगच्छतु ह्वरः चलनम् अस्मत्तः । जनित्वा म्रियते मृत्वा जायते इत्येतच्चलनमभिप्रेतम् । अन्यव्रतस्य सश्चिम अन्यत् व्रतं कर्म यस्य मनुष्यकर्मणः सकाशाज्जगदनुग्रहात्मकं यस्य स तथोक्तः । तस्य कर्म वयं सेवामहे सायुज्यं प्राप्ताः सन्तः ॥ २० ॥
म० 'नाभिस्पृशं प्रवृञ्जनीयं निदधाति चतुःस्रक्तिरिति' । ( का० २६ । ४ । १४ ) प्रवृञ्जनीयं महावीरमुत्तरवेदौ नाभिलग्नं स्थापयतीत्यर्थः । महाबृहती घर्मदेवत्या । स घर्मो नोऽस्माकं सर्वायुरस्तु सर्वं पूर्णमायुर्यस्मात्स सर्वायुः । पूर्णायुःप्रदोऽस्त्वित्यर्थः । पुनरुक्तिरादरार्था । कीदृशः सः । चतुःस्रक्तिः चतस्रः स्रक्तयः कोणा दिग्रूपा यस्य सः । 'एष वै चतुःस्रक्तिर्य एष तपति दिशो ह्येतस्य स्रक्तयः' (१४ । ३ । १ । १७) इति श्रुतेः । तथा ऋतस्य सत्यस्य यज्ञस्य वा नाभिः नहनं बन्धनस्थानम् । सप्रथाः सविस्तारः । विश्वायुः विश्वस्य जगतः आयुर्यस्मात् जगत आयुर्दाता । सप्रथाः सर्वतः प्रथयिता च । हे घर्म, त्वत्प्रसादात् द्वेषः अपगच्छत्विति शेषः । अस्मत्तो द्वेषः गच्छतु वीतरागाः स्यामेति भावः । 'ह्वर चलने' ह्वरः चलनं जन्ममरणलक्षणं चास्मत्तोऽपगच्छतु । वयमन्यव्रतस्य सश्चिम अन्यत् मनुष्यकर्मणः सकाशाद्भिन्नं व्रतं कर्म जगदनुग्रहरूपं यस्य सोऽन्यव्रतः परमात्मा तस्य । कर्मणि षष्ठी । 'सश्च सेवने' धातुः । अन्यव्रतं परमात्मानं सेवामहे सायुज्यं प्राप्नुम इति भावः । 'अन्यद्वा एतस्य व्रतमन्यन्मनुष्याणाम्' (१४ । ३।१।१९) इति श्रुतेः ॥ २० ॥

एकर्विशी।
घर्मै॒तत्ते॒ पुरी॑षं॒ तेन॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ।। २१ ।।
उ० पयसा पूरयति । घर्मैतत् । अनुष्टुप् । घर्म उच्यते । हे घर्म, एतत् पयः ते तव पुरीषं पूरयितृ । तेन वर्धस्वेत्यादिव्याख्यातम् ॥ २१ ॥
म० 'आसेचनवन्ति पयसः पूरयति घर्मैतत्त इति' ( का० २६ । ७ । ३२ )। आसेचनं गर्तः तद्युतानि पात्राणि दुग्धेन पूरयति तानि सप्त महावीरत्रयं द्वे पिन्वने उपयमनो स्रुवश्चेत्यर्थः । अनुष्टुप् घर्मदेवत्या । हे घर्म, एतत्पयः ते तव पुरीषम् पृणाति पूरयति पुरीषं पूरयितृ अन्नम् 'अन्नं वै पुरीषमन्नमेवास्मिन्नेतद्दधाति' ( १४ । ३ । १ । २३ ) इति श्रुतेः । तेन पयसा वर्धस्व आप्यायस्व च । भवत्प्रसादाद्वयं वर्धिषीमहि आप्यासिषीमहि चेति व्याख्यातम् ( अ० २ । क० १४ ) ॥२१॥

द्वाविंशी।
अचि॑क्रद॒द्वृषा॒ हरि॑र्म॒हान्मि॒त्रो न॑ दर्श॒तः । सᳪ सूर्ये॑ण दिद्युतदुद॒धिर्नि॒धिः ।। २२ ।।
उ० परिषिञ्चति । अचिक्रदत् परोष्णिक् । घर्मात्मनादित्यः स्तूयते । योऽयं महावीरः प्रवृज्यमानः अचिक्रदत् । क्रन्दतिः शब्दार्थः । पुनःपुनः शब्दमकरोत् । वृषा वर्षिता आहुतिपरिणामद्वारेण । हरिः हरितवर्णः हर्ता वा रसानाम्