पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्कटरसं हुतम् । क्व । इन्द्रतमे इन्द्रियवत्तमे वीर्यवत्तमे । अग्नौ तवास्माभिः अतएव शिष्टम् अश्याम व्याप्नुयाम भक्षयामः । ते तवांशम् । हे देव घर्म, सर्वथा नमस्ते अस्तु । मामाहिंसीरित्यात्मनः परित्राणमाह ॥ १६ ॥
म० 'सप्तमं च सर्वलेपाक्तं दक्षिणेक्षमाणः प्रतिप्रस्थात्रे प्रयच्छति' ( का० २६ । ६ । १५)। मूलाग्रावधि घर्मघृताभ्यक्तं सप्तमं शकलं दक्षिणं पश्यन्प्रतिप्रस्थात्रे ददातीत्यर्थः । रुद्र इति स्तोतृनामसु पठितम् । रुद्रैः स्तोतृभिर्हूयते आहूयत इति रुद्रहूतिः तस्मै स्तोतृस्तुताय रुद्राय सुहुतमस्तु । एवं सप्तयजुषां मध्ये चतुर्थसप्तमयोर्विनियोग उक्तः शेषैः पञ्चशकलैराज्यहोमः (का० २६ । ६ । १७)। स्वाहा संज्योतिषेत्युपयमन्यामासिञ्चति घर्म्यं घर्मसंबन्धि घृतमुपयमन्यामासिञ्चति । पूर्वं स्रुक्स्थं घर्मे नीतमधुना घर्मस्थं स्रुचि नयतीत्यर्थः । पयोदेवत्यं यजुरनुष्टुप् । ज्योतिः घर्मस्थं घृतं ज्योतिषोपयमनीस्थेन घृतेन सङ्गच्छतां स्वाहा सुहुतमस्तु । ज्योतिर्वा इतरस्मिन् पयो भवति ज्योतिरितरस्यां ते ह्येतदुभे ज्योतिषी सङ्गच्छेते, (१४ । २ । २ । ४० ) इति श्रुतेः पयो देवता । 'मन्त्रक्रमेणोत्तरᳪ रौहिणं जुहोति' ( का० २६ । ६ । १८) । उत्तरं रौहिणं मन्त्रक्रमेण संज्योतिषा ज्योतिरेतन्मन्त्रकर्मणोऽनन्तरं जुहोतीत्यर्थः । अहः केतुना । व्याख्याते यजुषी ( अ०३७।क० २१)। 'अग्निहोत्रावृता हुत्वा वाजिनवद्भक्षयन्ति मधु हुतमिति' ( का० २६ । ६ । २०)। उपयमन्यामानीतं घर्माज्यमग्निहोत्रहोमप्रकारेण समन्त्रकं हुत्वा वाजिनवदुपहवप्रार्थनपूर्वकं भक्षयन्ति होत्रध्वर्युब्रह्मप्रस्तोतृप्रतिप्रस्थात्रग्नीद्यजमानाः । घर्मदेवत्यम् ऋग्बृहती । अग्नौ मधु मधुरं घर्माज्यं हुतमस्माभिः । कीदृशेऽग्नौ । इन्द्रतमे इन्द्रं वीर्यमस्यास्ति इन्द्रवान् अत्यन्तमिन्द्रवानिन्द्रतमः । वत्प्रत्यये लोपः वीर्यवत्तमे इत्यर्थः । 'मधु हुतमिन्द्रियवत्तमेऽग्नावित्येवैतदाह' (१४ । २ । २ । ४२) इति श्रुतेः । हे घर्म हे देव, ते तव हुतशेषमंशं वयमश्याम भक्षयाम । अश्नोतेर्विकरणव्यत्ययेन 'बहुलं छन्दसि' (पा०२। ४ । ७३ ) इति शपो लुक् । लिङि उत्तमबहुवचने । ते तुभ्यं नमोऽस्तु मा मां हिंसीः आत्मनः परित्राणमर्थ्यते ॥ १६ ॥

सप्तदशी।
अ॒भीमं म॑हि॒मा दिवं॒ विप्रो॑ बभूव स॒प्रथा॑: ।
उ॒त श्रव॑सा पृथि॒वीᳪ सᳪ सी॑दस्व म॒हाँ२ अ॑सि॒ रोच॑स्व देव॒वीत॑मः ।
वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम्।। १७ ।।
उ० महावीरमासंद्यां करोति । अभीमम् गायत्रीबृहत्यौ । नच गायत्र्या अवसानमस्ति अतिशक्वरी वा आग्नेयी अभिबभूव अभिभवति इमं दिवं महिमा यस्य तव । कथंभूतः। विप्रः मेधावी। सप्रथाः सर्वतः पृथुः। महिम्नो विशेषणद्वयम्। | तं त्वां ब्रवीमि उत श्रवसा अपिच धनेन श्रवणीयेन वा यशसा । पृथिवीम् अभिबभूवेत्यनुषङ्गः । संसीदस्वेति व्याख्यातम् । रोचस्व दीप्यस्वेत्यनर्थान्तरम् ॥ १७ ॥
म० 'अभीममिति महावीरम्' ( का० २६ । ६ । २५)। प्रचरणीयं घर्ममासन्द्यां करोति मन्त्रेणेतराणि तूष्णीम् ततः शान्तिपाठ इत्यर्थः । गायत्रीबृहत्यौ मध्येऽवसानहीने अभीमं गायत्री संसीदस्व बृहती यद्वावसानत्रयोपेतातिशक्वरी षष्ठ्यक्षराग्निदेवत्या एकैव ऋक् ऋग्द्वयं वेत्यर्थः । हे अग्ने, तव महिमा इमं दिवमभिबभूव अभिभवति 'छन्दसि लुङ्लिङ्लिटः' (पा० ३। ४। ६) दिवशब्दः पुंलिङ्गः अर्धर्चादित्वात् । कीदृशो महिमा । विप्रः विशेषेण प्राति पूरयति सर्वमिति विप्रो मेधावी । सप्रथाः प्रथनं प्रथो विस्तारस्तेन सहितः सप्रथाः । उतापि च श्रवसा धनेन यशसा वा पृथिवीमभिभवतीत्यनुषङ्गः । संसीदस्वेति व्याख्यातैकादशेऽध्याये सप्तत्रिंशी कण्डिका । तत्र शोचस्वेति पाठेऽत्र रोचस्वेति अर्थ एक एव ॥ १७ ॥

अष्टादशी।
या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्याᳪ ह॑वि॒र्धाने॑ ।
सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।
या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे ।
सा त॒ आप्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।
या ते॑ घर्म पृथि॒व्याᳪ शुग्या जग॑त्याᳪ सद॒स्या॒ ।
सा त॒ आ प्या॑यतां॒ निष्ट्या॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।। १८ ।।
उ० इत उत्तरे उत्सादनमन्त्राः । शालाकेषु जुहोति । या ते तव हे घर्म, दिव्या दिविभवा द्युलोकं प्रविष्टा । शुक् दीप्तिः । या च गायत्र्यां प्रविष्टा । या च हविर्धाने प्रविष्टा । सा ते तव आप्यायतां वर्धताम् । निष्ट्यायताम् | 'स्त्यै ष्ट्यै शब्दसंघातयोः' । निष्ठ्याना संहता भवतु । तस्यै शुचे तुभ्यं च हे घर्म, स्वाहा । या ते अन्तरिक्षे त्रिष्टुभि आग्नीध्रे । समानमन्यत् । या ते पृथिव्याम् जगत्याम् । सदस्या सदसि भवा सदस्या । सदसि प्रविष्टा । समानमन्यत् ॥ १८॥ ।
म० 'चतुर्ग्रहीतेनाभिजुहोति या ते घर्म दिव्या शुगिति प्रतिमन्त्रम्' ( का० २६ । ७ । ४) । अध्वर्युराज्यं संस्कृत्य चतुर्गृहीतं कृत्वा तेन जुहोति अग्नीधा ध्रियमाणेषु त्रिषु शलाकात्रिकेषु त्रिभिर्मन्त्रैस्तृतीयेनोपविश्येत्यर्थः । त्रीणि यजूंषि घर्मदेवत्यानि ऋक्पङ्क्तयः । हे घर्म, या ते तव दिव्या दिवि भवा शुक् दीप्तिः या गायत्र्यां छन्दसि प्रविष्टा या हविर्धाने यज्ञगृहे प्रविष्टा सा ते तव शुक् आप्यायतां वर्धताम् । निष्याय यतां संहता दृढा भवतु । 'ष्ठ्यै स्त्यै शब्दसङ्घातयोः' लोट् । तस्यै शुचे ते तुभ्यं च स्वाहा । हे घर्म, याते तवान्तरिक्षे शुक् त्रिष्टुभिः छन्दसि अग्नीध्रसदने च प्रविष्टा सा त इति पूर्ववत् ।