पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/६०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पिन्वमानमनुमन्त्रयते । इषे पिन्वस्व । वृष्टितर्पणाय विप्लुषो मुञ्च । एवं ऊर्जे अन्नाय । ब्रह्मणे ब्राह्मणेभ्यः। क्षत्राय क्षत्रियेभ्यः द्यावापृथिवीभ्यां पिन्वस्वेति । उत्क्रामत्युत्तरपूर्वार्धम् । धर्मासि सुधर्म । धर्मासि धारणं समस्तस्य जगतोऽस्याहुतिपरिणामद्वारेण । हे सुधर्म साधुधारणशील, खरे सादयति । अमेनि । 'मीङ् हिंसायाम्' । अहिंसन् अक्रुध्यन् । अस्मे अस्मासु । नृम्णानि । नॄन्नमयन्तीति नृम्णानि धनानि । धारय स्थापय । ब्रह्म धारय क्षत्रं धारय विशं धारय त्रैवर्णिकानस्मासु स्थापय ॥ १४ ॥
म० 'इषे पिन्वस्वेति पिन्वमानमनुमन्त्रयते' (का. २६ । ६ । ९)। पिन्वमानमतितप्तं घर्ममभिमन्त्रयत इत्यर्थः । ऋचां पङ्क्तिः घर्मदेवत्या । हे पिन्वमान घर्म, इषे वृष्ट्यै पिन्वस्व पुष्टो भव वृष्ट्यर्थम् । ऊर्जेऽन्नाय पिन्वस्व अन्नं वर्धय । ब्रह्मणे ब्राह्मणेभ्यः पिन्वस्व क्षत्राय क्षत्रियेभ्यः पिन्वस्व द्यावापृथिवीभ्यां पिन्वस्व । ब्राह्मणक्षत्रियद्यावापृथिवीस्तर्पयेत्यर्थः । 'घर्मासीत्युत्क्रामत्युत्तरपूर्वार्धम्' ( का० २६ । ६ । १०) । ऐशानीं दिशं प्रत्युत्क्रामतीत्यर्थः । यजुर्गायत्री घर्मदेवत्या । हे धर्म, हे सुधर्म, सुष्ठु धारयतीति सुधर्मः हे साधुधरणशील, त्वं धर्मः असि सर्वजगतो धारणमसि आहुतिपरिणामद्वारेण सर्वं धरसीत्यर्थः । 'अमेन्यस्मे इति खरे करोति' ( का० २६ । ६ । ११)। महावीरं खरे आसादयतीत्यर्थः । ऋग्बृहती घर्मदेवत्या । हे घर्म, अमेनि 'मिञ् हिंसायां' मिनोति हिनस्तीति मेनिः न मेनिरमेनिः 'सुपां सुलुक्' (पा० ७ । १ । ३९) सुलोपः । अमेनिः अहिंसन् अक्रुध्यन् सन् अस्मे अस्मासु नृम्णानि धनानि धारय स्थापय । नॄन्नमयतीति नॄम्णम् 'अक्रुध्यन्नो धनानि धारय' ( १४ । २ । २ । ३०) इति श्रुतिः । ब्रह्म क्षत्रं विशं च धारय । विप्रादीनस्मद्वशान्कुर्वित्यर्थः ॥१४॥

पञ्चदशी।
स्वाहा॑ पू॒ष्णे शर॑से॒ स्वाहा॒ ग्राव॑भ्यः स्वाहा॑ प्रतिर॒वेभ्य॑: ।
स्वाहा॑ पि॒तृभ्य॑ ऊ॒र्ध्वब॑र्हिर्भ्यो घर्म॒पाव॑भ्य॒: स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॑: ।। १५ ।।
उ० शकलैर्जुहोति । स्वाहा पूष्णे । 'अयं वै पूषा योयं पवत एष हीदं सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्निदधाति' इत्येतदुक्तम् । शरसे । अस्ति शरःशब्दः काण्डवचनः अस्ति च सान्तः । दध्न उपरि स्नेहः शर इति यजमानाः प्राहुस्तदभिप्रायेणैतदुच्यते । स्वाहा ग्रावभ्यः प्राणेभ्यः विषयग्रहणशीलेभ्यः । स्वाहा प्रतिरवेभ्यः । प्राणाः प्रतिरवाः तान्प्राप्य सर्वं जगद्रमते । स्वाहा पितृभ्यः ऊर्ध्वबर्हिभ्यः । ऊर्ध्वं प्रागग्रं बर्हिर्येषां त एवमुच्यन्ते । सोमपा ह्येत इत्यर्थः । घर्मपावभ्यः घर्मपातृभ्यः । स्वाहा द्यावापृथिवीभ्याम् । प्राणोदानौ वै द्यावापृथिवी । स्वाहा विश्वेभ्यो देवेभ्यः । प्राणो वै विश्वेदेवाः ॥ १५॥
म० 'विकङ्कतशकलैर्जुहोति घर्मे न्यज्य न्यज्य स्वाहा पूष्णे शरस इति प्रतिमन्त्रम्' ( का० २६ । ६ । १२ )। घर्मे नितरामक्त्वा विकङ्कतशकलैर्घर्माज्यं जुहोति स्वाहा पूष्ण इति प्रतिमन्त्रमित्यर्थः । सप्त लिङ्गोक्तदेवतानि यजूंषि । शरःशब्दो दध्युपरिस्थस्नेहवाचकः अत्र तु स्नेहमात्रवाची । शरसे स्नेहकर्त्रे पूष्णे वाताय प्राणरूपाय स्वाहा सुहुतमस्तु । 'अवरᳪ स्वाहाकारं करोति परां देवताम्' (१४ । २ । २ । ३२) इति श्रुतेरादौ स्वाहाकारस्ततो देवतापदानि । 'अयं वै पूषा योऽयं पवत एष हीदᳪ सर्वं पुष्यत्येष उ प्राणः प्राणमेवास्मिन्नेतद्दधाति' ( १४ । २ । २ । ३२) इति श्रुतिः । गृह्णन्ति ते ग्रावाणः प्राणा विषयग्रहणशीलाः तेभ्यः स्वाहा 'प्राणा वै ग्रावाणः प्राणानेवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३३) इति श्रुतिः। प्रतिरुवन्ति शब्दं कुर्वन्ति प्रतिरमन्ते वा यान् प्राप्येति प्रतिरवाः तेभ्यः स्वाहा 'प्राणा वै प्रतिरवाः प्राणान्हीदᳪ सर्वं प्रतिरतम्' (१४ । २ । २ । ३४) इति श्रुतिः । 'चतुर्थमहुतमुदङ्ङीक्षमाणो दक्षिणतो बर्हिष्युपगूहति' ( का० २६ । ६। १४ )। चतुर्थं शकलमहुतमेवोदीचीं पश्यन् वेदेः दक्षिणभागे आतिथ्याबर्हिषि प्रवेशयतीत्यर्थः । पितृभ्यः स्वाहा । कीदृशेभ्यः । ऊर्ध्वबर्हिभ्यः ऊर्ध्वं प्रागग्रं बर्हिर्येषां ते ऊर्ध्वबर्हिषः तेभ्यः । सोमपाभ्य इत्यर्थः । तथा घर्मपावभ्यः घर्म पिबन्ति घर्मपावानः तेभ्यः स्वाहा । द्यावापृथिवीशब्देन प्राणोदानावुच्येते ताभ्यां सुहुतमस्तु । 'प्राणोदानौ वै द्यावापृथिवी प्राणोदानावेवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३६) इति श्रुतिः । विश्वेभ्यो देवेभ्यः स्वाहा । 'प्राणा वै विश्वेदेवाः प्राणानेवास्मिन्नेतद्दधाति' (१४ । २ । २ । ३७) इति श्रुतिः ॥१५॥

षोडशी।
स्वाहा॑ रु॒द्राय॑ रु॒द्रहू॑तये॒ स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: ।
अह॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
रात्रि॑: के॒तुना॑ जुषताᳪ सु॒ज्योति॒र्ज्योति॑षा॒ स्वाहा॑ ।
मधु॑ हु॒तमिन्द्र॑तमे अ॒ग्नाव॒श्याम॑ ते देव॒ घर्म॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।। १६ ।।
उ० स्वाहा रुद्राय रुद्रहूतये । रुद्र इति स्तोतृनामसु पठितम् । रुद्रैः स्तोतृभिराहूयते स रुद्रहूतिः महावीरादुपयमन्यां प्रत्यानयति । स्वाहा संज्योतिषा ज्योतिः स्वाहा संगच्छतां ज्योतिषा ज्योतिः । 'ज्योतिर्वा इतरस्मिन्वायौ भवति ज्योतिरितरस्याम्' इति श्रुतिः । अहः केतुना रात्रिः । केतुना इति च व्याख्यातम् । भक्षयति मधु हुतम् यस्मान्मधु